मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १२८

3
नागरखण्डः · 128

सत्यसन्धोपि हृष्टात्मा सतां दृष्ट्वा सुखान्विताम्

सूत उवाच

सत्यसन्धोपि हृष्टात्मा सतां दृष्ट्वा सुखान्विताम् ॥

अभीष्टपतिना युक्तां कृतकृत्यो बभूव ह

॥१॥

ततस्तस्यैव लिंगस्य दक्षिणां मूर्तिमाश्रितः ॥

दृढं पद्मासनं कृत्वा सम्यग्ध्यानपरायणः

॥२॥

आत्मानमात्मनैवाथ ब्रह्मद्वारेण संस्थितः ॥

ततो निःसारयामास पुलकेन समन्वितः

॥३॥

अथ ते ब्राह्मणास्तस्य चमत्कारपुरोद्भवाः ॥

देवता दर्शनार्थाय प्राप्ता दृष्ट्वा कलेवरम्

॥४॥

अप्रियं तेजसा हीनं मृतमस्पृश्यतां गतम् ॥

लिंगस्य नातिदूरस्थं दाह्यार्थं यत्नमास्थिताः

॥५॥

यावद्गुर्वीं चितां कृत्वा तमन्वेष्टुं समुद्यताः ॥

तावन्नष्टं शवं तच्च ज्ञायते नैव कुत्रचित्

॥६॥

ततश्च विस्मयाविष्टास्तं प्रशंसासमन्वितैः ॥

वचनैर्बहुशो भूयो विकथ्य च मुहुर्मुहुः

॥७॥

ततस्तस्योत्थलिंगस्य सर्वं पूजादिकं च यत् ॥

सर्वे निरूपयामासुः सप्तविंशतिमध्यतः

॥८॥

लिंगानां तद्भवेन्नित्यं सत्यसंधस्य भूपतेः ॥

कामदं भक्तजंतूनां सर्वपातकनाशनम्

॥९॥

ऋषय ऊचुः

चमत्कारनरेंद्रस्य वंशे क्षीणे महामते ॥

आनर्त्ताधिपतिः कोऽन्यस्तत्र राजा बभूव ह

॥१०॥

सूत उवाच

बृहद्बले हते भूपे संग्रामे द्विजसत्तमाः ।

पुत्रबंधुसमायुक्ताः सर्व लोकाः समाययुः

॥११॥

यत्रस्थः स महीपालः सत्यसंधस्तपोन्वितः ॥

शोकोद्विग्नास्ततः प्राहुस्तं भूपं रहसि स्थितम्

॥१२॥

क्षीणोऽयं तावको वंशो न कश्चिद्विद्यते यतः ॥

दायादोऽपि कथं पृथ्वी संप्रतीयं भविष्यति

॥१३॥

अराजके नृपश्रेष्ठ मात्स्यो न्यायः प्रवर्तते ॥

राष्ट्रे चैव पुरे चैव ग्रामे चैव विशेषतः

॥१४॥

परदाररता ये च ये च तस्करवृत्तयः ।

सर्वे राजभयाद्राजन्मर्यादां पालयंति वै

॥१५॥

तस्मात्त्वं तप उत्सृज्य राज्यं पूर्वक्रमागतम् ॥

कुरु राज्यं तथा दारान्पुत्रार्थं प्राप्य मा चिरम्

॥१६॥

राजोवाच

संन्यस्तोऽहं द्विजश्रेष्ठा न राज्यं कर्तुमुत्सहे ॥

न सुतानां न दाराणां संग्रहं च कथंचन

॥१७॥

तत्पुत्रार्थं प्रवक्ष्यामि युष्माकं स्वामिनः कृते ॥

उपायं येन राजा स्यादानर्त्तो लोकपालकः ॥

जामदग्न्येन रामेण यदा क्षत्रं निपातितम् ॥

गर्भस्थमपि कार्त्स्न्येन कोपोपहतचेतसा

॥१९॥

ततः क्षत्रियभार्याः प्रागृतुस्नानात्समाययुः ॥

ब्राह्मणान्पुत्रजन्मार्थं न कामार्थं कथंचन

॥२०॥

ततः पुत्राः समुत्पन्नास्तेजोवीर्यसमन्विताः ॥

क्षेत्रजा भूमिपालानां संजाताश्च महीक्षितः

॥२१॥

तस्माद्बृहद्बलस्यैता भार्यास्तिष्ठंति या जनाः ॥

ब्राह्मणांस्ता उपागम्य ऋतुस्नाता यथोचितान्

॥२२॥

लभिष्यंति च पुत्रांस्तास्तेभ्यः क्षत्रियपुंगवान् ॥

ये भूमिं पालयिष्यंति पालयिष्यंति च प्रजाः

॥२३॥

तथाऽत्रास्ति शुभं कुण्डं वासिष्ठं पुत्रजन्मदम् ॥

यत्र स्नाता ऋतौ नारी सद्यो गर्भवती भवेत् ॥

अमोघरेताः कांता च स्नानादत्र प्रजायते

॥२४॥

ये पूर्वं क्षत्रिया जाता ब्राह्मणैः क्षत्रिणीषु च ॥

ते सर्वे तत्प्रभावेन संजाता नात्र संशयः

॥२५॥

ययायया द्विजो यश्च क्षत्रिण्याऽभूद्वृतः पुरा ॥

तया सह समागत्य स्नातं मन्त्रपुरस्कृतम्

॥२६॥

सकृन्मैधुनसंसर्गात्ततस्तीर्थप्रभावतः ॥

सर्वासां यत्सुता जाता दुहिता न कथंचन

॥२७॥

ये केचित्पुत्रदा मंत्राश्चातुश्चरणासंभवाः ।

ते सर्वेऽत्र वसिष्ठेन प्रयुक्ताः क्षत्त्रमिच्छता ॥

दंपत्योः स्नानमात्रेण जातेऽत्र स्यात्सुपुत्रकः ॥

तस्मात्सुपुत्रदंनाम कुण्डमेतन्निगद्यते

॥२९॥

तस्माद्भार्याः समस्तास्ता बृहद्बलसमुद्भवाः ॥

अत्र स्नानं प्रकुर्वंतु यथोक्तविधिना जनाः

॥३०॥

नैव किंचिदसत्यं स्यान्न च निंदाकरं तथा ॥

श्रूयते च यतः श्लोकः पूर्वाचार्यैरुदाहृतः

॥३१॥

अद्भ्योऽग्निर्ब्रह्मतः क्षत्त्रमश्मनो लोहमुच्छ्रितम् ॥

तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति

॥३२॥

तच्छ्रुत्वा जनाः सर्वे सचिवानां वचोखिलम् ॥

तदाचख्युर्द्रुतं गत्वा सत्यसंधस्य भूपतेः

॥३३॥

ततस्ताः सर्वशो दारा ब्राह्मणानतिसुन्दरान् ॥

ऋतुस्नाताः समाजग्मुर्नृपपत्न्यः सुहर्षिताः

॥३४॥

यत्र तत्पुत्रदं तीर्थं वसिष्ठेन विनिर्मितम् ॥

तत्र स्नात्वा सकृत्संगं समासाद्य द्विजोद्भवम्

॥३५॥

सर्वास्ताः पुत्रवत्यश्च संजाता द्विजसत्तमाः ॥

आसीत्तस्य नरेंद्रस्य शतं पंचभिरन्वितम्

॥३६॥

तासां समभवद्विप्राः शतं पंचाधिकं तथा

॥३७॥

प्रत्येकं वरपुत्राणां वंशवृद्धिकरं परम् ॥

आनंदजननं सम्यक्सर्वेषां राष्ट्रवासिनाम्

॥३८॥

तत्र श्रेष्ठोऽभवत्पुत्रो य आनर्तपतिर्भुवि ॥

अटोनाम सुविख्यातः सर्वशत्रुनिबर्हणः

॥३९॥

अटेश्वरइति ख्यातो येन देवोऽत्र निर्मितः ॥

सुभक्त्या येन दृष्टेन वंशोच्छित्तिर्न जायते

॥४०॥

ऋषय ऊचुः

कस्मात्तस्य कृतं नाम एतच्चाऽट इति स्मृतम् ॥

अन्वयेन परित्यक्तं तस्मात्कीर्तय सूतज

॥४१॥

सचिवैर्ब्राह्मणैर्वापि तस्यैतन्नाम निर्मितम् ॥

मात्रा वा तत्समाचक्ष्व परं कौतूहलं हि नः

॥४२॥

सूत उवाच

न मात्रा तत्कृतं नाम न विप्रैः सचिवैर्नृप ॥

तत्कृतं देवदूतेन व्योमस्थेन द्विजोत्तमाः

॥४३॥

यथा तथा प्रवक्ष्यामि श्रोतव्यं सुसमाहितैः ॥

यया स भूपतिर्जातो दशार्णाधिपतेः सुता

॥४९॥

सा रूपयौवनोपेता रूपाढ्यं प्राप्य सद्द्विजम् ॥

प्रस्थिता स्नातुकामाथ पुत्रतीर्थे मृगेक्षणा

॥४५॥

सहिता तेन विप्रेण कंदर्पप्रतिमेन च ॥

अथ ताभ्यां महान्रामो मिथः संदर्शनात्स्थितः

॥४६॥

तादृङ्मात्रं सुकृच्छ्रेण प्राप्तं तीर्थं सुतप्रदम् ॥

ततः स्नात्वा जले तस्मिन्निष्क्रांतौ तौ सुकामुकौ

॥४७॥

व्रजमानौ च मार्गेऽपि कामधर्ममुपागतौ ॥

अत्यौत्सुक्यात्सुसंहृष्टौ लज्जां त्यक्त्वा सुदूरतः

॥४८॥

निंदमानस्य लोकस्य विच्छेदवचनैस्तदा ॥

वीर्योत्सर्गेऽथ संजाते यावदुत्तिष्ठते द्विजः

॥४९॥

तावदाकाशगा वाणी सहसा देवनिर्मिता ॥

अटताराजमार्गेण विप्रेणानेन वै यतः

॥५०॥

उत्पादितस्तु पुत्रोऽयमौत्सुक्याद्ब्राह्मणेन तु ॥

अटाख्यो भूपतिस्तस्माल्लोके ख्यातो भविष्यति

॥५१॥

दीर्घायुर्बहुपुत्रश्च शत्रुंपक्षक्षयावहः ॥

एतस्मात्कारणाद्विप्रा अटाख्यः स बभूव ह

॥५२॥

स्ववंशोद्धरचंद्रोऽत्र वांछितार्थप्रदोऽर्थिनाम् ॥

तेनैतत्क्षेत्रमासाद्य स्थापितं लिंगमुत्तमम् ॥

स्वनाम्ना ब्राह्मणश्रेष्ठाः सर्वदेष्टप्रदं नृणाम्

॥५३॥

यस्तन्माघचतुर्दश्यां पूजयेच्छ्रद्धयान्वितः ॥

न तस्य जायते किंचिद्दुःखं संतानसंभवम्

॥५४॥

अपि वर्षशतानारी स्नात्वा कुण्डे सुतप्रदे ॥

अटेश्वरं ततः पश्येच्छिवभक्तिपरायणा

॥५५॥

सद्यः पुत्रमवाप्नोति वंशवृद्धिकरं परम् ॥

तत्प्रसादान्न संदेहः कार्तिकेय वचो यथा

॥५६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽटेश्वरोत्पत्तिमाहात्म्यवर्णनंनामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥ १२८ ॥