मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २१७

3
नागरखण्डः · 217

श्राद्धार्हपदार्थब्राह्मणकालनिर्णयवर्णनम्

आनर्त उवाच

विधिना येन कर्तव्यं श्राद्धं सर्वं मुनीश्वर ॥

तमाचक्ष्वाऽद्य कार्त्स्न्येन श्रद्धा मे महती स्थिता

॥१॥

भर्तृयज्ञ उवाच

शृणु राजन्प्रवक्ष्यामि श्राद्धस्य विधिमुत्तमम् ॥

पितॄणां तुष्टिदं नित्यं सर्वकामप्रदं नृणाम्

॥२॥

स्वकर्मोपार्जितैर्वित्तैः श्राद्धकार्याणि चाहरेत् ॥

मायादिभिर्न चौर्येण न च्छलाप्तैर्न वंचनैः ॥

स्ववृत्त्योपार्जितैर्वित्तैः श्राद्धद्रव्यं समाहरेत् ॥

सुप्रतिग्रहजैर्द्रव्यैर्ब्राह्मणानां विशिष्यते

॥४॥

रक्षणाप्तैर्नरेन्द्रस्य वैश्यस्य क्षेत्र संभवैः ॥

शूद्रस्य पण्यलब्धैश्च श्राद्धं कर्तुं प्रयुज्यते

॥५॥

एवं शुद्धिसमोपेते द्रव्ये प्राप्ते गृहांतिकम् ॥

पूर्वेद्युः सायमासाद्य श्राद्धार्हाणां द्विजन्मनाम्

॥६॥

गृहं गत्वा शुचिर्भूत्वा कामक्रोधविवर्जितः ॥

आमंत्रयेद्यतीन्पश्चात्स्नातकान्ब्रह्मकर्मिणः

॥७॥

तदभावे गृहस्थांश्च ब्रह्मज्ञानपरायणान् ॥

अग्निहोत्रपरान्विप्रान्वेदविद्याविचक्षणान्

॥८॥

श्रोत्रियांश्च तथा वृद्धान्षट्कर्मनिरतान्सदा ॥

बहुभृत्यकुटुम्बांश्च दरिद्रा्न्संयुतान्गुणैः

॥९॥

अव्यंगान्रोगनिर्मुक्ताञ्जिताहारांस्तथा शुचीन् ॥

एते स्युर्ब्राह्मणा राजञ्छ्राद्धार्हाः परिकीर्तिताः

॥१०॥

अनर्हा ये च निर्दिष्टाः शृणु तानपि वच्मि ते ॥

हीनांगानधिकांगांश्च सर्वभाक्षन्निराकृतीन्

॥११॥

श्यावदन्तान्वृथादन्तान्वेदविक्रयकारकान् ॥

वेदविप्लवकान्वापि वेदशास्त्रविवर्जितान्

॥१२॥

कुनखान्रोगसंयुक्तान्द्विर्नग्नान्परहिंसकान् ॥

जनापवादसंयुक्तान्नास्तिकानृतकानपि

॥१३॥

वार्धुषिकान्विकर्मस्थाञ्छौचाचारविवर्जि तान् ॥

अतिदीर्घान्कृशान्वापि स्थूलानपि च लोमशान्

॥१४॥

निर्लोमान्वर्जयेच्छ्राद्धे य इच्छेत्पितृगौरवम् ॥

परदाररता ये च तथा यो वृषली पतिः

॥१५॥

वंध्या वै वृषली प्रोक्ता वृषली च मृतप्रजा ॥

अपरा वृषली प्रोक्ता कुमारी या रजस्वला

॥१६॥

षण्ढो मलिम्लुचो दम्भी राजपै शुन्यवृत्तयः ॥

सगोत्रायाश्च संभूतस्तथैकप्रवरासुतः

॥१७॥

कनिष्ठः प्राक्कृताधानः कृतोद्वाहश्च प्राक्तु यः ॥

तथा प्राग्दीक्षितो यश्च स त्याज्यो गृहसंयुतः

॥१८॥

पितृमातृपरित्यागी तथाच गुरुतल्पगः ॥

निर्द्दोषां यस्त्यजेत्पत्नीं कृतघ्नो यश्च कर्षुकः

॥१९॥

शिल्पजीवी प्रमादी च पण्य जीवी कृतायुधः ॥

एतान्विवर्जयेच्छ्राद्धे येषां नो ज्ञायते कुलम्

॥२०॥

अत ऊर्ध्वं प्रवक्ष्यामि ये शस्ताः श्राद्धकर्मणि ॥

ये ब्राह्मणाः पुरा ख्याताः पापानां पंक्तिपावनाः

॥२१॥

त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडंगवित् ॥

यश्च विद्याव्रतस्नातो धर्मद्रोणस्य पाठकः

॥२२॥

पुराणज्ञस्तथा ज्ञानी विज्ञेयो ज्येष्ठसामवित् ॥

अथर्वशिरसो वेत्ता क्रतुगामी सुकर्मकृत्

॥२३॥

सद्यःप्रक्षालको यश्च शुक्लो दौहित्र एव च ॥

जामाता भागिनेयश्च परोपकरणे रतः

॥२२॥

मृष्टान्नादो मृष्टवाक्यः सदा जपपरायणः ॥

एते ? ब्राह्मणा ज्ञेया निःशेषाः पंक्तिपावनाः

॥२५॥

एतैर्विमिश्रिताः सर्वे गर्हिता अपि ये द्विजाः ॥

पितॄणां तेऽपि कुर्वंति तृप्तिं भुक्त्वा कुलोद्भवाः

॥२६॥

तस्मात्सर्वप्रयत्नेन कुलं ज्ञेयं द्बिजन्मनाम् ॥

शीलं पश्चाद्वयो नाम कन्यादानं ततः परम्

॥२७॥

श्रुतशीलविहीनाय धर्मज्ञायापि मानवः ॥

श्राद्धं ददाति कन्यां च यस्तेनाग्निं विना हुतम्

॥२८॥

ऊषरे वापि तं सस्यं तुषाणां कण्डनं कृतम् ॥

कुलाचारसमोपेतांस्तस्माच्छ्राद्धे नियोजयेत्

॥२९॥

ब्राह्मणान्नृपशार्दूल मन्दविद्याधरानपि ॥

एवं विज्ञाय तान्विप्रान्गृहीत्वा चरणौ ततः

॥३०॥

प्रयत्नेन तु सव्येन पाणिना दक्षिणेन तु ॥

युग्मानथ यथाशक्त्या नमस्कृत्य पुनःपुनः

॥३१॥

दक्षिणं जान्वथालभ्य मन्त्रमेनमुदीरयेत् ॥

आगच्छंतु महाभागा विश्वेदेवा महाबलाः

॥३२॥

भक्त्याहूता मया चैव त्वं चापि व्रतभाग्भव ॥

एवं युग्मा न्समामंत्र्य विश्वेदेवकृते द्विजान्

॥३३॥

अपसव्यं ततः कृत्वा पित्रर्थं चाभिमंत्रयेत् ॥

ब्राह्मणांस्त्रीन्यथाशक्त्या एकैकस्य पृथक्पृथक्

॥३४॥

एकैकं वा त्रयाणां वा एकमेवं निमंत्रयेत् ॥

ब्राह्मणान्मातृपक्षे च एष एव विधिः स्मृतः

॥३५॥

ततः पादौ परिस्पृष्ट्वा द्विजस्येदमुदीरयेत् ॥

श्रद्धा पूतेन मनसा पितृभक्तिपरायणः

॥३६॥

पिता मे तव कायेस्मिंस्तथा चैव पितामहः ॥

स्वपित्रा सहितो ह्येतु त्वं च व्रतपरो भव

॥३७॥

एवं पितॄन्समाहूय तथा मातामहानथ ॥

संमंत्रिताश्च ते विप्राः संयमात्मान एव ते

॥३८॥

यजमानः शांतमना ब्रह्मचर्यसमन्वितः ॥

तां रात्रिं समतिक्रम्य प्रातरुत्थाय मानवः

॥३९॥

तदह्नि वर्जयेत्कोपं स्वाध्यायं कर्म कुत्सितम् ॥

तैलाभ्यंगं श्रमं यानं वाहनं चाथ दूरतः

॥४०॥

ततो मध्यं गते सूर्ये काले कुतपसंज्ञिते ॥

स्नातः शुक्लांबरधरः सन्तर्प्य पितृदेवताः ॥

सन्तुष्टांश्च समाहूतांस्तान्विप्राञ्छ्राद्धमाचरेत्

॥४१॥

विविक्ते गृहमध्यस्थे मनोज्ञे दक्षिणाप्लवे ॥

न यत्र जायते दृष्टिः पापानां क्रूरकर्मिणाम्

॥४२॥

यच्छ्राद्धं वीक्षते श्वा वा नारी वाऽथ रजस्वला ॥

पतितो वा वराहो वा तच्छ्राद्धं व्यर्थतां व्रजेत्

॥४३॥

अन्नं पर्युषितं यच्च तैलाक्तं वा प्रदीयते ॥

सकेशं वा सनिंद्यं च तच्छ्राद्धं व्यर्थतां व्रजेत्

॥४४॥

विभक्तिरहितं श्राद्धं तथा मौनविवर्जितम् ॥

दक्षिणारहितं यच्च तच्छ्राद्धं व्यर्थतां व्रजेत्

॥४५॥

घरट्टोलूखलोत्थौ च यत्र शब्दौ व्यवस्थितौ ॥

शूर्पस्य वा विशेषेण तच्छ्राद्धं व्यर्थतां व्रजेत्

॥४६॥

यत्र संस्क्रियमाणे च कलहः संप्रजायते ॥

पंक्तिभेदो विशेषेण तच्छ्राद्धं व्यर्थतां व्रजेत्

॥४७॥

पूर्वाह्णे क्रियते यच्च रात्रौ वा संध्ययोरपि ॥

पर्याकाशे तथा देशे तच्छ्राद्धं व्यर्थतां व्रजेत

॥४८॥

ब्राह्मणो यजमानो वा ब्रह्मचर्यं विना यदि ॥

भुंक्ते दद्याच्च यच्छ्राद्धं तद्राजन्व्यर्थतां व्रजेत्

॥४९॥

तुषधान्यं सनिष्पावं यच्चोच्छिष्टं च दीयते ॥

अर्धभुक्तं घृतं क्षीरं तच्छ्राद्धं व्यर्थतां व्रजेत्

॥५०॥

येषु कालेषु यद्दत्तं श्राद्धमक्षयतां व्रजेत् ॥

तानहं संप्रवक्ष्यामि शृणुष्वैकमना नृप

॥५१॥

मन्वादीरपि ते वच्मि ताः शृणुष्व नराधिप ॥

पितॄणां वल्लभा नित्यं सर्वपापक्षयावहाः

॥५२॥

यासु तोयमपि क्ष्मायां प्रदत्तं तिलमिश्रितम् ॥

पितृभ्योऽक्षयतां याति श्रद्धापूतेन चेतसा

॥५३॥

अश्वयुक्छुक्लनवमी द्वादशी कार्तिकस्य च ॥

तृतीयापि च माघस्य तथा भाद्रपदस्य च

॥५४॥

अमावास्या तपस्यस्य पौषस्यैकादशी तथा ॥

तथाऽऽषाढस्य दशमी माघमासस्य सप्तमी

॥५५॥

श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी व पूर्णिमा ॥

तथा कार्तिकमासस्य या चान्या फाल्गुनस्य च

॥५६॥

चैत्रस्य ज्येष्ठमासस्य पंचैताः पूर्णिमा नृप ॥

मनूनामादयः प्रोक्तास्तिथयस्ते मया नृप

॥५७॥

आसु तोयमपि स्नात्वा तिल दर्भविमिश्रितम् ॥

पितॄनुद्दिश्य यो दद्यात्स याति परमां गतिम्

॥५८॥

इह लोके परे चैव पितॄणां च प्रसादतः ॥

किं पुनर्विविधैरन्नै रसैर्वस्त्रैः सदक्षिणैः

॥५९॥

अधुना शृणु राजेन्द्र युगाद्याः पितृवल्लभाः ॥

यासां संकीर्तनेनापि क्षीयते पापसंचयः

॥६०॥

नवमी कार्तिके शुक्ला तृतीया माधवे सिता ॥

अमावास्या च तपसो नभस्यस्य त्रयोदशी

॥६१॥

त्रेताकृतकलीनां तु द्वापरस्यादयः क्रमात् ॥

स्नाने दाने जपे होमे विशेषात्पितृतर्पणे

॥६२॥

कृतस्याक्षयकारिण्यः सुकृतस्य महाफलाः ॥

यदा स्यान्मेषगो भानुस्तुलां वाथ यदा व्रजेत्

॥६३॥

तदा स्याद्विषुवाख्यस्तु कालश्चाक्षयकारकः ॥

मकरे कर्कटे चैव यदा भानुर्व्रजेन्नृप

॥६४॥

तदायनाभिधानस्तु विषुवोऽथ विशिष्यते ॥

रवेः संक्रमणं राशौ संक्रांतिरिति कथ्यते

॥६५॥

स्नानदानजपश्राद्धहोमादिषु महाफलाः ॥

त्रेताद्याः क्रमशः प्रोक्ताः कालाः संक्रांतिपूर्वकाः ॥

नैतेषु विद्यते विघ्नं दत्तस्याक्षयसंज्ञिताः

॥६६॥

अश्रद्धयाऽपि यद्दत्तं कुपात्रेभ्योऽपि मानवैः ॥

अकालेऽपि हि तत्सर्वं सद्यो ह्यक्षयतां व्रजेत्

॥६७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धार्हपदार्थब्राह्मणकालनिर्णय वर्णनंनाम सप्तदशोत्तरद्विशततमोऽध्यायः ॥ २१७ ॥