मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २५२

3
नागरखण्डः · 252

वृक्षमाहात्म्यकथनम्

शूद्र उवाच

महदाश्चर्यमेतद्धि यत्सुरा वृक्षरूपिणः ॥

चातुर्मास्ये समायाते सर्ववृक्षनिवासिनः

॥१॥

भगवन्के सुरास्ते तु केषुकेषु निवासिनः ॥

एतद्विस्तरतो ब्रूहि ममानुग्रहकाम्यया

॥२॥

गालव उवाच

अमृतं जलमित्याहुश्चातुर्मास्ये तदिच्छया ॥

लीलया विधृतं देवैः पिबंति द्रुमदेवताः

॥३॥

तस्य पानान्महातृप्तिर्जायते नाऽत्र संशयः ॥

बलं तेजश्च कांतिश्च सौष्ठवं लघुविक्रमः

॥४॥

गुणा एते प्रजायन्ते पानात्कृष्णांशसंभवात् ॥

नित्यामृतस्यपानेन बलं स्वल्पं प्रजायते

॥५॥

भोजनं तत्प्रशंसंति नित्यमेतन्न संशयः ॥

तस्माच्चतुर्षु मासेषु पिबन्ति जलमेव हि

॥६॥

वृक्षस्थाः पितरो देवाः प्राणिनां हित काम्यया ॥

वृक्षाणां सेवनं श्रेष्ठं सर्वमासेषु सर्वदा

॥७॥

चातुर्मास्ये विशेषेण सेविताः सौख्यकारकाः ॥

तिलोदकेन वृक्षाणां सेचनं सर्वकाम दम्

॥८॥

क्षीरवृक्षाः क्षीरयुक्तैस्तोयैः सिक्ताः शुभप्रदाः ॥

चतुष्टयं च वृक्षाणां यच्चोक्तं पूर्वतो मया

॥९॥

चातुर्मास्ये विशेषेण सर्वकाम फलप्रदम् ॥

ब्रह्मा तु वटमाश्रित्य प्राणिनां स वरप्रदः

॥१०॥

सावित्रीं तिलमास्थाय पवित्रं श्वेतभूषणम् ॥

सुप्ते देवे विशेषेण तिलसेवा महाफला

॥११॥

तिलाः पवित्रमतुलं तिला धर्मार्थसाधकाः ॥

तिला मोक्षप्रदाश्चैव तिलाः पापापहारिणः

॥१२॥

तिला विशेषफलदास्तिलाः शत्रुविनाशनाः ।

तिलाः सर्वेषु पुण्येषु प्रथमं समुदाहृताः

॥१३॥

न तिला धान्यमित्याहुर्देवधान्यमिति स्मृतम् ॥

तस्मात्सर्वेषु दानेषु तिल दानं महोत्तमम्

॥१४॥

कनकेन युता येन तिलादत्तास्तु शूद्रज ॥

ब्रह्महत्यादिपापानां विनाशस्तेन वै कृतः

॥१५॥

सावित्री च तिलाः प्रोक्ता सर्वकार्यार्थसाधकाः ॥

तिलैस्तु तर्पणं कुर्याच्चातुर्मास्ये विशेषतः

॥१६॥

तिलानां दर्शनं पुण्यं स्पर्शनं सेवनं तथा ॥

हवनं भक्षणं चैव शरीरोद्वर्त्तनं तथा

॥१७॥

सर्वथा तिलवृक्षोऽयं दर्शनादेव पापहा ॥

चातुर्मास्ये विशेषेण सेवितः सर्वसौख्यदः

॥१८॥

महेन्द्रो यवमा स्थाय स्थितो भूतहिते रतः ॥

यवस्य सेवनं पुण्यं दर्शनं स्पर्शनं तथा

॥१९॥

यवैस्तु तर्पणं कुर्याद्देवानां दत्तमक्षयम् ॥

प्रजानां पतयः सर्वे चूतवृक्षमुपाश्रिताः

॥२०॥

गन्धर्वा मलयं वृक्षमगुरुं गणनायकः ॥

समुद्रा वेतसं वृक्षं यक्षा पुन्नागमेव च

॥२१॥

नागवृक्षं तथा नागाः सिद्धाः कंकोलकं द्रुमम् ॥

गुह्यकाः पनसं चैव किन्नरा मरिचं श्रिताः

॥२२॥

यष्टीमधु समाश्रित्य कन्दर्पोऽभूद्व्यवस्थितः ॥

रक्तांजनं महावृक्षं वह्निराश्रित्य तिष्ठति

॥२३॥

यमो विभीतकं चैव बकुलं नैर्ऋताधिपः ॥

वरुणः खर्जुरीवृक्षं पूगवृक्षं च मारुतः

॥२४॥

धनदोऽक्षोटकं वृक्षं रुद्राश्च बदरीद्रुमम् ॥

सप्तर्षीणां महाताला बहुलश्चामरैर्वृतः

॥२५॥

जंबूर्मेघैः परिवृतः कृष्णवर्णोऽघनाशनः ॥

कृष्णस्य सदृशो वर्णस्तेन जंबू नगोत्तमः

॥२६॥

तत्फलैर्वासुदेवस्तु प्रीतो भवति दानतः ॥

जंबूवृक्षं समाश्रित्य कुर्वंति द्विजभोजनम्

॥२७॥

तेषां प्रीतो हरिर्दद्यात्पु रुषार्थचतुष्टयम् ॥

चातुर्मास्ये समायाते सुप्ते देवे जनार्दने

॥२८॥

ब्राह्मणान्भोजयेद्यस्तु सपत्नीकाञ्छुचिः स्थितः ॥

तेन नारायणस्तुष्टो भवे ल्लक्ष्मीसहायवान्

॥२९॥

लक्ष्मीनारायणप्रीत्यै वस्त्रालंकरणैः शुभैः ॥

परिधाय सपत्नीकः कृतकृत्यो भवेन्नरः

॥३०॥

यद्रात्रित्रितयेनैव वटा शोकभवेन च ॥

फलं संजायते तच्च जंबुना द्विजभोजनात्

॥३१॥

तस्मिन्दिने एकभुक्तं कारयेत्कृत्यकृत्तदा ॥

बहुना च किमुक्तेन जंबूवृक्ष प्रपूजनात्

॥३२॥

पुत्रपौत्रधनैर्युक्तो जायते नात्र संशयः ॥

जंबूर्मेघैः परिवृता विद्युताऽशोक एव च

॥३३॥

वसुभिः स्वीकृतो नित्यं प्रियालश्च महानगः ॥

आदित्यैस्तु जपावृक्षो ह्यश्विभ्यां मदनस्तथा

॥३४॥

विश्वेभिश्च मधूकश्च गुग्गुलः पिशिताशनैः ॥

सूर्येणार्कः पवित्रेण सोमे नाथ त्रिपत्रकः

॥३५॥

खदिरो भूमिपुत्रेण अपामार्गो बुधेन च ॥

अश्वत्थो गुरुणा चैव शुक्रेणोदुम्बरस्तथा

॥३६॥

शमी शनैश्चरेणाथ स्वीकृता शूद्रजातिभिः ॥

राहुणा स्वीकृता दूर्वा पितॄणां तर्पणोचिता

॥३७॥

विष्णोश्च दयिता नित्यं चातुर्मास्ये विशेषतः ॥

केतुना स्वीकृतो दर्भो याज्ञिकेयो महाफलः

॥३८॥

विना येन शुभं कर्म संपूर्णं नैव जायते ॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्

॥३९॥

मुमूर्षूणां मोक्षरूपो धरासंस्थो महाद्रुमः ॥

अस्मिन्वसंति सततं ब्रह्मविष्णुशिवाः सदा

॥४०॥

मूले मध्ये तथाऽग्रे च यस्य नामापि तृप्ति दम् ॥

अन्येऽपि देवा वृक्षांस्तानधिश्रित्य महाद्रुमाः

॥४१॥

प्रवर्त्तंते हि मासेषु चतुर्षु च न संशयः ॥

चातुर्मास्ये देवपत्न्यः सर्वा वल्लीसमाश्रि ताः

॥४२॥

प्रयच्छंति नृणां कामान्वांछितान्सेविता अपि ॥

तस्मात्सर्वात्मभावेन पिप्पलो येन सेवितः

॥४३॥

सेविताः सकला वृक्षा श्चातुर्मास्ये विशेषतः ॥

तुलसी सेविता येन सर्ववल्यश्च सेविताः

॥४४॥

आप्यायितं जगत्सर्वमाब्रह्मस्तंबसेवितम् ॥

चातुर्मास्ये गृह स्थेन वानप्रस्थेन वा पुनः

॥४५॥

ब्रह्मचारियतिभ्यां च सेविता मोक्षदायिनी ॥

एतेषां सर्ववृक्षाणां छेदनं नैव कारयेत्

॥४६॥

चातुर्मास्ये विशेषेण विना यज्ञादिकारणम् ॥

एतदुक्तमशेषेण यत्पृष्टोऽहमिह त्वया

॥४७॥

यथा वृक्षत्वमापन्ना देवाः सर्वेऽपि शूद्रज

॥४८॥

अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं दश तित्तिडीश्च ॥

कपित्थबिल्वामलकीत्रयं च एतांश्च दृष्ट्वा नरकं न पश्येत्

॥४९॥

सर्वे देवा विश्ववृक्षेशयाश्च कृष्णा धारा कृष्णमध्याग्रकाश्च ॥

यस्मिन्देवे सेविते विश्वपूज्ये सर्वं तृप्तं जायते विश्वमेतत्

॥५०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये वृक्षमाहात्म्यकथनं नाम द्विपञ्चाशदुत्तरद्विशततमो ऽध्यायः ॥ २५२ ॥