मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ५४

3
नागरखण्डः · 54

नलनिर्मितचर्ममुण्डामाहात्म्यवर्णनम्

सूत उवाच

चर्ममुंडा तथा देवी तस्मिन्स्थाने व्यवस्थिता ॥

नलेन स्थापिता पूर्वं स्वयमेव महात्मना

॥१॥

अभ्यर्चयति तां भक्त्या यो महानवमी दिने ॥

स कामान्वांछिताँल्लब्ध्वा पदं प्राप्नोति शाश्वतम्

॥२॥

वीरसेनसुतः पूर्वं नलोनाम महीपतिः ॥

आसीत्सर्वगुणोपेतः सर्व शत्रुक्षयावहः

॥३॥

भार्या तस्याभवत्साध्वी प्राणेभ्योपि गरीयसी ॥

दमयंतीति विख्याता विदर्भाधिपतेः सुता

॥४॥

अथासौ कलिनाविष्टो द्यूतं चक्रे महीपतिः ॥

पुष्करेण समं विप्रा दायादेन दिवानिशम्

॥५॥

ततः स व्यसनासक्तो वार्यमाणोऽपि सज्जनैः ॥

हारयामास सप्तांगं राज्यं मुक्त्वा च तां प्रियाम्

॥६॥

अथ तां स समादाय प्रविष्टो गहनं वनम् ॥

निर्जलं लज्जयाविष्टो दुःखव्याकुलितेंद्रियः

॥७॥

ततः स चिंतयामास यद्येषा भीममंदिरे ॥

याति तन्मुच्यते कष्टाद्वनवाससमुद्भवात्

॥८॥

न मया तत्र गंतव्यं कथंचिदपि मानिना ॥

तस्मादेनां परित्यज्य रात्रौ गच्छामि दूरतः

॥९॥

येन त्यक्ता मया साध्वी कुण्डिनं याति तत्पुरम् ॥

स एवं निश्चयं कृत्वा सुखसुप्तां विहाय ताम् ॥

प्रजगाम वनं घोरं वन्यश्वापदसंकुलम्

॥१०॥

प्रत्यूषे चापि सोत्थाय यावत्पश्यति भाभिनी ॥

तावत्पश्यतिशून्यं स्वं पार्श्वं यत्र नलः स्थितः

॥११॥

ततो विलप्य दुःखार्ता करुणं तत्र कानने ॥

जगाम मार्गमाश्रित्थ पितुर्हर्म्यं शनैःशनैः

॥१२॥

नलोऽपि च वने तस्मिन्भ्रममाणो महीपतिः ॥

एकाकी वृक्षकुंजानि सेवयामास सर्वदा

॥१३॥

ततस्तद्वनमुत्सृज्य जगामान्यन्महावनम् ॥

नानावृक्षगणैर्युक्तं बहुश्वापदसंकुलम्

॥१४॥

एवं स पृथिवीपालो भ्रममाणोवनाद्वनम् ॥

हाटकेश्वरजं क्षेत्रमाससाद ततः परम्

॥१५॥

एतस्मिन्नंतरे प्राप्तं तन्महानवमीदिनम् ॥

विशेषाद्यत्र भूपालाः पूजयन्ति सुरेश्वरीम्

॥१६॥

ततः स मृन्मयीं कृत्वा चर्ममुण्डधरां नृपः ॥

विभवाभावतः पश्चात्फलमूलैरतर्पयत्

॥१७॥

ततस्तस्याः स्तुतिं कृत्वा पुरः स्थित्वा कृतांजलिः ॥

श्रद्धया परया युक्तो निषधाधिपतिः स्वयम्

॥१८॥

जय सर्वगते देवि चर्ममुण्डधरे वरे ॥

जय दैत्यकुलोच्छेददक्षे दक्षात्मजे शुभे

॥१९॥

कालरात्रि जयाचिन्त्ये नवम्यष्टमिवल्लभे ॥

त्रिनेत्रे त्र्यंबकाभीष्टे जय देवि सुरार्चिते

॥२०॥

भीमरूपे सुरूपे च महाविद्ये महाबले ॥

महोदये महाकाये जयदेवि महाव्रते

॥२१॥

नित्यरूपे जगद्धात्रि सुरामांसवसाप्रिये ॥

विकरालि महाकालि जय प्रेतजनानुगे

॥२२॥

शवयानरते रम्ये भुजंगाभरणान्विते ॥

पाशहस्ते महाहस्ते रुधिरौघकृतास्पदे

॥२३॥

फेत्कारा रवशोभिष्ठे गीतवाद्यविराजिते ॥

जयानाद्ये जय ध्येये भर्गदेहार्धसंश्रये

॥२४॥

त्वं रतिस्त्वं धृतिस्तुष्टिस्त्वं गौरी त्वं सुरेश्वरी ॥

त्वं लक्ष्मीस्त्वं च सावित्री गायत्री त्वमसंशयम्

॥२५॥

यत्किंचित्त्रिषु लोकेषु स्त्रीरूपं देवि दृश्यते ॥

तत्सर्वं त्वन्मयं नात्र विकल्पोऽस्ति मम क्वचित्

॥२६॥

येन सत्येन तेन त्वमत्रावासं द्रुतं कुरु ॥

सान्निध्यं भक्तितस्तुष्टा सुरासुरनमस्कृते

॥२७॥

सूत उवाच

एवं स्तुता च सा देवी नलेन पृथिवीभुजा ॥

प्रोवाच दर्शनं गत्वा तं नृपं भक्तवत्सला

॥२८॥

श्रीदेव्युवाच

परितुष्टाऽस्मि ते वत्स स्तोत्रेणानेन सांप्रतम् ॥

तस्माद्गृहाण मत्तस्त्वं वरं मनसि संस्थितम्

॥२९॥

नल उवाच

दमयन्तीति मे भार्या प्राणेभ्योऽपि गरीयसी ॥

सा मया निर्जने मुक्ता वने व्यालगणान्विते

॥३०॥

अखण्डशीलां निर्दोषां यथाहं त्वत्प्रसादतः ॥

लभे भूयोऽपि तां देवि तथात्र कुरु सत्वरम्

॥३१॥

स्तोत्रेणानेन यो देवि स्तुतिं कुर्यात्पुरस्तव ॥

तत्रैव दिवसे तस्मै त्वया देयं मनोगतम्

॥३२॥

सूत उवाच

सा तथेति प्रतिज्ञाय जगामादर्शनं ततः ॥

सोऽपि पार्थिवशार्दूलो लेभे सर्वं तयोदितम्

॥३३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नलनिर्मितचर्ममुण्डामाहात्म्यवर्णनंनाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥