मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २१४

3
नागरखण्डः · 214

गणपतिपूजाविधिमाहात्म्यवर्णनम्

सूत उवाच

तथान्योपि च तत्रास्ति विश्वामित्रप्रतिष्ठितः ॥

गणनाथो द्विजश्रेष्ठाः सर्वसिद्धिप्रदो नृणाम्

॥१॥

माघमासे चतुर्थ्यां च शुक्लायां पूजयेत्तु यः ॥

स च संवत्सरं यावत्सर्वै विघ्नैर्विमुच्यते ओ

॥२॥

ऋषय ऊचुः

गणनाथस्य चोत्पत्तिं सांप्रतं सूत नो वद ॥

कथमेष समुत्पन्नः किं माहात्म्यः प्रकीर्तितः

॥३॥

सूत उवाच

एष चोत्पादितो गौर्या निजांगमलतः स्वयम् ॥

क्रीडार्थं मानुषैरंगैर्मातंगाननशोभितः

॥४॥

चतुर्हस्तसमोपेत आखुवाहनगस्तथा ॥

कुठारहस्तश्च तथा मोदकाशनतोषकृत्

॥५॥

सर्वसिद्धिप्रदो लोके भक्तानां च विशेषतः ॥

एष पूर्वं प्रभोः कार्ये संग्रामे तारकामये

॥६॥

संग्राममकरोद्रौद्रं न कृतं यच्च केनचित् ॥

निहता दानवाः सर्वे संख्यया परिवर्जिताः

॥७॥

ततः शक्रेण तुष्टेन प्रोक्तः संग्रामभूमिपः ॥

क्षत विक्षतसर्वांगो रुधिरेण परिप्लुतः

॥८॥

अस्मदर्थे त्वया युद्धं यत्कृतं सुगजानन ॥

निहता दानवाः सर्वे संख्यया परिवर्जिताः

॥९॥

तस्मात्त्वं सर्वदेवानामपि पूज्यो भविष्यसि ॥

किंपुनर्मानुषाणां च ये नित्यं विघ्नसंप्लुताः

॥१०॥

ये त्वां संपूजयिष्यंति कार्यारंभेषु सर्वतः ॥

कार्यसिद्धिर्न संदेहस्तेषां भूयाद्गिरा मम

॥११॥

एवमुक्त्वा सहस्राक्षो विससर्जाथ तं तदा ॥

संमान्य बहुमानेन गौरीशंकरपार्श्वतः

॥१२॥

अयमर्थः पुरा पृष्टो रोहिताश्वेन धीमता ॥

सर्वविप्रविनाशार्थं मार्कंडेयं महामुनिम्

॥१३॥

तमेवार्थं महाभागाः कथयिष्ये यथार्थतः ॥

तच्छृणुध्वं पुरावृत्तं सर्वं सर्वे समाहिताः

॥१४॥

रोहिताश्व उवाच

भगवन्नत्र ये मर्त्याः सर्वे विघ्नसमन्विताः ॥

शुभकृत्येषु सर्वेषु जायंते शुचयोऽपि च

॥१५॥

प्रारब्धेषु च कार्येषु धर्मजेषु विशेषतः ॥

तानि विघ्नानि जायन्ते यैस्तत्कार्यं न सिध्यति

॥१६॥

तस्माद्विघ्नविनाशाय किंचिन्मे व्रतमा दिश ॥

व्रतं वा नियमो वाऽथ तपो वा दानमेव च

॥१७॥

सकृच्चीर्णेन येनात्र यावज्जीवति मानवः ॥

तावन्न जायते विघ्नमाजन्ममरणांतिकम्

॥१८॥

मार्कण्डेय उवाच

अत्र ते कीर्तयिष्यामि सर्वविघ्नविनाशनम् ॥

व्रतं सर्वगुणोपेतं सर्वपापप्रणाशनम् ॥

विश्वामित्रेण सञ्चीर्णं यत्पुरा भावितात्मना

॥१९॥

विश्वामित्र इति ख्यातो गाधिपुत्रः प्रतापवान् ॥

वसिष्ठेन समं तस्य वैरमासीन्महात्मनः

॥२०॥

ब्राह्मण्यार्थे न सम्प्रोक्तः कथंचित्स महातपाः ॥

ब्राह्मणस्त्वं वसिष्ठेन ततो वैरमजायत

॥२१॥

रोहिताश्व उवाच

कस्मान्न प्रोक्तवान्विप्रो वसिष्ठस्तु कथंचन ॥

ब्राह्मणः स परं प्रोक्तोब्रह्मादिभिरपि स्वयम्

॥२२॥

मार्कण्डेय उवाच

क्षत्रियश्च स्थितः पूर्वं विश्वामित्रो महीपतिः ॥

मृगयासु परिभ्रांतो वसिष्ठस्य तदाऽऽश्रमम् ॥

प्रविष्टः क्षुत्पिपासार्त्तः स तेनाथ प्रपूजितः

॥२३॥

तस्यासीन्नन्दिनीनाम धेनुः कामदुघा सदा ॥

सा सूते वाञ्छितं सद्यो यद्वसिष्ठोऽभिवाञ्छति

॥२४॥

तत्प्रभावात्स भूपालः सभृत्यबलवाहनः ॥

तेन तृप्तिपरा नीतो मिष्टान्नैर्विविधैस्ततः

॥२५॥

पार्थिवोऽयमिति ज्ञात्वा ह्यर्घ्याद्यैर्भोजनैः स च ॥

सोऽपि दृष्ट्वा प्रभावं तं सर्वं धेनोश्च संभवम् ॥

प्रार्थयामास तां मूल्यैर्गजवाजिसमु द्भवैः

॥२६॥

न ददौ स तदा विप्रः साम्ना दानेन वा पुनः ॥

भेदेन च ततो दण्डं योजयामास वै नृपः

॥२७॥

कालयामास तां धेनुं ततः कोपात्स पार्थिवः

॥२८॥

साऽब्रवीन्नीयमानाऽथ वसिष्ठं किं त्वया विभो ॥

दत्ताहमस्य नृपतेर्यन्मां नयति यत्नतः

॥२९॥

वसिष्ठ उवाच

न मया त्वं महाभागे दत्ता चास्य महीपतेः ॥

बलान्नयति यद्येष तस्माद्युक्तं समाचर

॥३०॥

तच्छ्रुत्वा कोपसंयुक्ता नन्दिनी धेनुरुत्तमा ॥

जृंभां चकार तत्सैन्यं समुद्दिश्य नृपोद्भवम्

॥३१॥

धूमावर्तिस्ततो जाता तस्या वक्त्रात्ततः परम् ॥

ततो ज्वाला महारौद्रास्ततो योधाः सहस्रशः

॥३२॥

नानाशस्त्रधरा रौद्रा यमदूता यथा च ते ॥

पुलिन्दा बर्बराभीराः किराता यवनाः शकाः

॥३३॥

ते प्रोचुस्तां वदास्माकं कस्मात्सृष्टा वयं शुभे

॥३४॥

नन्दिन्युवाच

एते मां ये बलात्पापा नयंति नृपसेवकाः ॥

तान्निघ्नन्तु समादेशान्नान्यद्वांछामि किंचन

॥३५॥

ततस्तैस्तस्य तत्सैन्यं विश्वामित्रस्य सूदितम् ॥

युध्यमानं महाराज दशरात्रेण संयुगे

॥३६॥

विश्वामित्रोऽपि तद्दृष्ट्वा ब्राह्म्यं बलमनुत्तमम् ॥

प्रतिज्ञामकरोत्तत्र तारेण सुस्वरेण च

॥३७॥

अथाहं संभविष्यामि ब्राह्मणो नात्र संशयः ॥

ममापि जायते येन प्रभावश्चेदृशोऽद्भुतः

॥३८॥

तस्मात्तपः करिष्यामि यदसाध्यं सुरैरपि ॥

स्वपुत्रं स्वे पदे धृत्वा ततश्चक्रे तपो महत्

॥३९॥

ब्राह्मण्यार्थं महारौद्रं सुमहद्दुष्करं तपः ॥

ब्राह्मण्यं तेन नैवाप्तं वैलक्ष्यं परमं गतः

॥४०॥

ततः कैलासमासाद्य देवदेवं महेश्वरम् ॥

सम्यगाराधयामास गौरीयुक्तं महेश्वरम्

॥४१॥

अहं तपः करिष्यामि ब्राह्मण्यस्य कृते प्रभो ॥

त्वदीये पर्वतश्रेष्ठे कैलासे शरणं गतः

॥४२॥

तस्माद्विघ्नस्य मे रक्षां देवदेवः प्रयच्छतु ॥

यथा नो नाशमायाति तपः सर्वं कृतं महत्

॥४३॥

श्रीभगवानुवाच

शुद्ध्यर्थं चैव यत्कार्यं कार्येस्मिन्नृपसत्तम ॥

विनायकसमुद्भूतां तत्त्वं पूजां समाचर

॥४४॥

येन ते जायते सिद्धिः सम्यग्ब्राह्मण्यसंभवा

॥४५॥

विश्वामित्र उवाच

तद्वदस्व सुरश्रेष्ठ तथा तस्य करोम्यहम् ॥

पूर्वं पूजां गणेशस्य सर्वविघ्नप्रशान्तये

॥४६॥

श्रीभगवानुवाच

एष गौर्या पुरा कृत्वा निजांगोद्वर्तनं कृतः ॥

निर्मलेन कृतः पश्चान्नराकारश्चतुर्भुजः

॥४७॥

क्रीडार्थं मम पुत्रोऽयं बालभावः प्रकल्पितः ॥

गजवक्त्रो महाकायो लंबोदरलघूरुकः ॥

ततोऽहमनया प्रोक्तः सजीवः क्रियतामयम् ॥

पुत्रको मे यथा भावी लोके पूज्य तमो विभो

॥४९॥

ततो मयापि संस्पृष्टः सृष्टिसूक्तेन पार्थिव ॥

जीवसूक्तेन सम्यक्स प्राणवान्समजायत

॥५०॥

ततो मया प्रहृष्टेन प्रोक्ता देवी हिमाद्रिजा ॥

चतुर्थीदिवसे प्राप्ते मयाऽद्यायं विनिर्मितः

॥५१॥

पुत्रस्तव महाभागे जीवसूक्तप्रभावतः ॥

एष सर्वागणानां च मदीयानां सुरेश्वरि ॥

भविष्यति सदाऽध्यक्ष स्तस्माच्च गणनायकः

॥५२॥

पठ्यमानेन यश्चैनं जीवसूक्तेन सुन्दरि ॥

पूजयिष्यति सद्भक्त्या चतुर्थीदिवसे शुभे

॥५३॥

तस्य सर्वेषु कृत्येषु सर्वविघ्रानि कृत्स्नशः ॥

प्रयास्यंति क्षयं देवि तमः सूर्योदये यथा

॥५४॥

नमो लंबोदरायेति नमो गणविभो तथा ॥

कुठारधारिणे नित्यं तथा वाक्संगताय च

॥५५॥

नमो मोदकभक्षाय नमो दन्तैकधारिणे

॥५६॥

एभिर्मन्त्रैः समभ्यर्च्य पश्चान्मोद कजंशुभम् ॥

नैवेद्यं च प्रदातव्यं ततश्चार्घ्यं निवेदयेत् ॥

५७ [।

अहं कर्म करिष्यामि यत्किचिच्छंभुसंभवम् ॥

अविघ्नं तत्र कर्तव्यं सर्वदैव त्वया विभो

॥५८॥

ततस्तु ब्राह्मणानां च भोजनं मोदकोद्भवम् ॥

यथाशक्त्या प्रदातव्यं वित्तशाठ्यं विवर्जयेत्

॥५९॥

एवमुक्तं मया पूर्वं स्वयमेव नृपोत्तम ॥

गणनाथं समुद्दिश्य गौर्याः पुरत एव च

॥६०॥

ततः प्रहृष्टा सा देवी वाक्यमेतदुवाच ह ॥

अद्यप्रभृति यः पुत्रं मदीयं गणनाय कम्

॥६१॥

अनेन विधिना सम्यक्चतुर्थ्यां पूजयिष्यति ॥

तस्य विघ्नानि सर्वाणि नाशं यास्यंत्यसंशयम्

॥६२॥

स्मृत्वा वा पूजयित्वा वा यः कार्याणि करिष्यति ॥

भविष्यंति न संदेहस्ततोस्याविचलानि च

॥६३॥

न सन्देहस्ततोऽस्य श्रीरचलैव भविष्यति

॥६४॥

श्रीभगवानुवाच

तस्मात्त्वं हि महाभाग चतुर्थ्यां सम्यगाचर ॥

विनायकोद्भवां पूजां येनाभीष्टेन युज्यसे

॥६५॥

मार्कण्डेय उवाच

तस्य तद्वचनं श्रुत्वा विश्वामित्रो महीपतिः ॥

गणनाथसमुद्भूतां पूजां कृत्वा यथोचिताम्

॥६६॥

तपश्चचार विपुलं सर्वविघ्नविवर्जितम् ॥

ब्राह्मण्यं च ततः प्राप्तं सर्वेषामपि दुर्लभम् ओ

॥६७॥

तस्मात्त्वं हि महाभाग विनायकसमुद्भवाम् ॥

पूजां कुरु चतुर्थ्यां च संप्राप्तायां विशेषतः ॥

संप्राप्नोषि महाभोगान्हृदिस्थान्नात्र संशयः

॥६८॥

यो यं काममभिध्याय गणनाथं प्रपूजयेत् ॥

स तं सर्वमवाप्नोति महेश्वरवचो यथा

॥६९॥

अपुत्रो लभते पुत्रं धनहीनो महद्धनम् ॥

शत्रूञ्जयति संग्रामे स्मृत्वा तं गणनायकम्

॥७०॥

या नारी पतिना त्यक्ता दुर्भगा च विरूपिता ॥

सा सौभाग्यमवाप्नोति गणनाथस्य पूजया

॥७१॥

य इदं पठते नित्यं शृणुयाद्वा समाहितः ॥

न विघ्नं जायते तस्य सर्वकृत्येषु सर्वदा

॥७२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रोपाख्यानप्रसंगेन गणपतिपूजाविधिमाहात्म्यवर्णनंनाम चतुर्दशोत्तरद्विशततमोऽध्यायः ॥ २१४ ॥