कात्यायनीमाहात्म्यवर्णनम्
सूत उवाच
देवानां तद्वचः श्रुत्वा ततः सा परमेश्वरी ॥
प्रोवाच वाहनं किंचिद्देवा यच्छतु मे द्रुतम् ॥
ततः सिंहं ददौ गौरी यानार्थं विकृताननम् ॥
तमारुह्य प्रतस्थे सा ततो विंध्यं नगं प्रति
॥२॥तस्यैकं शृंगमास्थाय रम्यं श्रेष्ठद्रुमान्वितम् ॥
फलपुष्पसमाकीर्णं लतामंडपमंडितम्
॥३॥ततस्तपोऽकरोत्साध्वी तीव्रव्रतपरायणा ॥
संयम्येन्द्रियवर्गं स्वं ध्यायमाना महेश्वरम्
॥४॥यथायथा तपोवृद्धिस्तस्याः सञ्जायते द्विजाः ॥
तथा रूपं च कांतिश्च शरीरे प्रतिवर्धते
॥५॥एतस्मिन्नंतरे प्राप्तास्तत्र दैत्येशकिंकराः ॥
ते तां दृष्ट्वा व्रतोपेतामत्यद्भुतवपुर्ध राम् ॥
गत्वा प्रोचुः स्वनाथस्य महिषस्य दुरात्मनः
॥६॥चारा ऊचुः
भ्रममाणैर्धरापृष्ठे दृष्टाऽपूर्वा कुमारिका ॥
विन्ध्याचलेऽद्य चास्माभिर्भुजैर्द्वादशभिर्युता ॥
नानाशस्त्रधरैर्दीप्तैश्चर्मच्छादितगात्रका
॥७॥न देवी न च गन्धर्वी नासुरी नागकन्यका ॥
तादृग्रूपा पुराऽस्माभिः काचिद्दृष्टा नितम्बिनी
॥८॥न विद्मो यन्निमित्तं सा तपश्चक्रे यशस्विनी ॥
स्वर्गकामाऽर्थकामा वा पतिकामाथ वा विभो
॥९॥सूत उवाच
तेषां तद्वचनं श्रुत्वा महिषो दानवाधिपः ॥
कामदेव वशं प्राप्तः श्रवणादपि तत्क्षणात्
॥१०॥ततस्तानग्रतः कृत्वा सैन्येन महता न्वितः ॥
जगाम कौतुकाविष्टो यत्रास्ते सा तु कन्यका
॥११॥यथा मृत्युकृते मन्दः शृगालः सिंहवल्लभाम् ॥
वने सुप्तां सुविश्वस्तां सर्वथाप्य कुतोभयाम्
॥१२॥तस्याः संदर्शनादेव ततः कामशरैर्हतः ॥
स दानवप्रधानश्च तत्क्षणादेव सद्द्विजाः
॥१३॥अथ प्राह प्रियं वाक्यमेकाकी तत्पुरःस्थितः ॥
धृत्वा दूरतरेसैन्यं तस्या रूपेण मोहितः
॥१४॥विरुद्धं यौवनस्यैतद्व्रतं ते चारुहासिनि।
तस्मादेतत्परित्यक्त्वा त्रैलोक्यस्वामिनी भव
॥१५॥अहं हि महिषो नाम दानवेन्द्रो यदि श्रुतः ॥
मया येन सहस्राक्षो द्वन्द्वयुद्धे विनिर्जितः
॥१६॥त्रेलोक्यं सकलं मह्यं सांप्रतं च वशे स्थितम् ॥
तस्मात्त्वं भव सुश्रोणि भार्या मम सुवल्लभा
॥७॥सहस्रं मम भार्याणामन्यदस्ति सुशोभनम् ॥
तत्सर्वं तेऽद्य भृत्यत्वं सांप्रतं प्रक रिष्यति
॥८॥अहं चापि तवात्यंतं दासभावं समाश्रितः ॥
वर्तयिष्यामि सुश्रोणि प्रदत्त्वाऽशेषसंपदः
॥९॥सूत उवाच
तस्य तद्वचनं श्रुत्वा ततः सा परमेश्वरी ॥
प्रोवाच भर्त्समाना तं कोपसंरक्तलोचना
॥२॥धिग्धिक्पापसमाचार कुमारव्रतधारिणीम् ॥
कामोपहतचित्तात्मा किं मामित्थं प्रभा षसे
॥२॥अहं तव वधार्थाय निर्मिता विबुधोत्तमैः ॥
तस्मात्त्वां नाशयिष्यामि स्मरेष्टं यद्धृदि स्थितम्
॥२२॥महिष उवाच
यद्येवं तद्वरारोहे युक्ता स्याच्च कुमारिका ॥
प्रार्थनीया भवेदत्र सर्वेषां प्राणिनां यतः
॥२३॥स्वर्गार्थं क्रियते धर्मस्तपश्च वरवर्णिनि ॥
येन भोगाः प्रभुञ्जंति ये दिव्या ये च मानुषाः
॥२४॥तस्माद्देहि ममात्मानं गांधर्वेण सुशोभने ॥
विवाहेन यतोऽन्येषां स प्रधानः प्रकीर्तितः
॥२५॥एवं प्रवदतस्तस्य सा देवी क्रोधमूर्छिता ॥
तद्वक्त्रांतं समुद्दिश्य शरं चिक्षेप स क्षणात्
॥२६॥विवेश वदनं तस्य वल्मीकं पन्नगो यथा ॥
अथ तैर्मार्गगणैर्विद्धः स वक्त्रांतान्नदंस्ततः
॥२७॥सुस्राव रुधिरं भूरि गैरिकं पर्वतो यथा ॥
ततः कोपपरीतात्मा निवृत्त्याथ शनैः शनैः
॥२८॥स्वसैन्यं त्वरितो भेजे कामेन च वशी कृतः ॥
प्रोवाच सैनिकान्सर्वान्दुष्टा स्त्रीयं प्रगृह्यताम् ॥
यथा न त्यजति प्राणान्प्रहारैर्जर्जरीकृता
॥२९॥एषा मम न सन्देहः प्रिया भार्या भविष्यति ॥
यदि नो शस्त्रपातेन पंचत्वमुपयास्यति
॥३०॥एवमुक्तास्तदा तेन दानवा युद्धदुर्मदाः ॥
दुद्रुवुः सम्मुखास्तस्या मुञ्चन्तो निशिताञ्छरान्
॥३॥एतस्मिन्नंतरे देवी सा दृष्ट्वा तानुपस्थितान् ॥
युद्धाय कृतसंकल्पांस्तर्जतश्च मुहुर्मुहुः
॥३२॥ततस्तु लीलया देवी मुक्ता तीक्ष्णान्महाशरान् ॥
तान्सर्वांस्ताडयामास सर्वमर्मसु तत्क्षणात्
॥३३॥अथ तीक्ष्णैः शरैर्दैत्या निहता दानवास्तथा ॥
एके पंचत्वमापन्ना गताश्चान्य इतस्ततः
॥३४॥ततः सैन्यं समालोक्य तद्भग्नं च तया रणे ॥
कोपाविष्टस्ततो दैत्यः स्वयं तां समुपाद्रवत्
॥३५॥यच्छञ्छृंगप्रहारांश्च तस्याः शतसहस्रशः ॥
गर्जितं विदधच्चोग्रं शारदाभ्रसमं मुहुः
॥३६॥एतस्मिन्नंतरे देवी साट्टहासकृतस्वना ॥
त्रैलोक्यविवरं सर्वं यच्छब्देन प्रपूरितम्
॥३७॥एवं तस्या हसंत्याश्च वक्त्रान्तादथ निर्ययुः ॥
पुलिंदाः शबरा म्लेछास्तथान्येऽरण्यवासिनः
॥३८॥शकाश्च यवनाश्चैव शतशश्तु वपुर्धरा? ॥
वर्म स्थगितगात्राश्च यमदूता इवापरे
॥३९॥ते प्रोचुर्देवि नो ब्रूहि येन सृष्टा वयं क्षितौ ॥
कार्येण क्रियते कृत्स्नं येन शीघ्रं वरानने
॥४॥देव्युवाच
एतानस्य सुदुष्टस्य सैनिकान्बलगर्वितान् ॥
सूदयध्वं द्रुतं वाक्यादस्मदीयाद्यथेच्छया
॥४१॥अथ ते तद्वचः श्रुत्वा वल्गंतोऽसिधनुर्द्धराः ॥
दैतेयबलमुद्दिश्य दुद्रुवुर्वेगमाश्रिताः
॥४२॥ततस्तेषां महद्युद्धं मिथो जज्ञे सुदारुणम् ।
नात्मीयं न परं तत्र केनचिज्ज्ञा यते क्वचित्
॥४३॥अथ ते दानवाः सर्वे योधैर्देवीसमुद्भवैः ॥
भग्ना व्यापादिताश्चान्ये प्रहारैर्जर्जरीकृताः
॥४४॥ततो भग्नं बलं दृष्ट्वा महिषः क्रोधमूर्छितः ॥
तामुवाच क्रुधा देवीं वचनैः परुषाक्षरैः
॥४५॥आः पापे स्त्रीति मत्वाद्य न हतासि मया युधि ॥
तस्मात्पश्य प्रहारं मे तत्त्वं बुध्यसि नान्यथा
॥४६॥एवमुक्त्वा विशेषेण प्रहारान्स विचिक्षिपे ॥
विषाणाभ्यां महावेगो भर्त्सयानो मुहुर्मुहुः
॥४७॥ततोऽभ्याशगतं दृष्ट्वा सा देवी दानवं च तम् ॥
आरुरोहाथ वेगेन पृष्ठिदेशेन कोपतः
॥४८॥ततश्चुक्रोश दैत्योऽसौ व्योममार्गं समाश्रितः ॥
पृष्ठ्यास्तलेन निर्भिन्नो रुधिरौघपरिप्लुतः
॥४९॥एतस्मिन्नंतरे सिंहः स तस्या ज्योतिसंभवः ॥
जग्राह पश्चिमे भागे दंष्ट्राग्रैर्निशितैः क्रुधा
॥५०॥ततो निश्चलतां प्राप्तः पादाक्रांतश्च दानवः ॥
अकरोद्भैरवान्नादान्न शक्तश्चलितुं पदम्
॥५१॥एतस्मिन्नंतरे प्राप्ताः सर्वे देवाः सवासवाः ॥
व्योमस्थास्तां तदा प्रोचुर्देवीं हर्षसमन्विताः
॥५२॥एतस्य शिरसश्छेदं शीघ्रं कुरु सुरेश्वरि ॥
खङ्गेनानेन तीक्ष्णेन यावन्नो याति चान्यतः
॥५३॥सा श्रुत्वा वचनं तेषां देवी कोपसमन्विता ॥
खड्गं व्यापारयामास कंठे तस्यातिपीवरे
॥५४॥स तेन खड्गघातेन कंठः पीनोऽपि निष्ठुरः ॥
द्विधा जज्ञेऽथ दैत्यस्य दधत्तुष्टिं दिवौकसाम्
॥५५॥द्वादशार्कप्रतीकाशो वक्त्रांतश्चर्मखड्गधृक् ॥
भर्त्सयंस्तां महादेवीं खड्गोद्यतकरां तदा ॥
खड्गं व्यापारयन्गात्रे तस्या बालार्कसन्निभम्
॥५६॥ततः केशेषु चाधाय यावत्तस्यापि चिक्षिपे ।
प्रहारं गात्रनाशाय तावदूचे स दानवः
॥५७॥दानव उवाच
जय देवि जयाचिंत्ये जय सर्वसुरेश्वरि ॥
जय सर्वगते देवि जय सर्वजनप्रिये
॥५८॥जय कामप्रदे नित्यं जय त्रैलोक्यसुन्दरि ॥
जय त्रैलोक्य रक्षार्थमुद्यते ह्यकुतोभये
॥५९॥जय देवि कृतानंदे जय दैत्यविनाशिनि ॥
जय क्लेशच्छिदे कांते जयाभक्तविमोहदे
॥६०॥त्वं सृष्टिस्त्वं वरा देवी त्वं लक्ष्मीस्त्वं सरस्वती ।
त्वं स्वाहा त्वं स्वधा तुष्टिः पुष्टिर्मेधा धृतिः क्षमा
॥६॥तस्मात्कुरु प्रसादं मे प्राणान्रक्ष दयां कुरु ॥
प्रणतस्य सुदीनस्य हीनस्य च विशेषतः
॥६२॥अहं दुर्वाससा शप्तो हिरण्याक्षसुतो बली ॥
महिषत्वं समानीतस्त्वया देवी विमोक्षितः
॥६३॥तस्माद्दर्पः प्रमुक्तोऽद्य मया दानवसंभवः ॥
किंकरत्वं प्रयास्यामि सांप्रतं ते सुरेश्वरि
॥६४॥जय सर्वगते देवि सर्वदुष्टविनाशिनि
॥६५॥इति तस्य वचः श्रुत्वा कृपणं सा सुरेश्वरी ॥
कृपाविष्टाऽब्रवीद्वाक्यं ततो व्योमस्थितान्सुरान्
॥६६॥किं करोमि दया जाता ममैनं प्रति हे सुराः ॥
तस्मान्नाहं हनिष्यामि दानवं दीनजल्पकम्
॥६७॥विमुखं खड्गशस्त्रं च तवास्मीति प्रवादिनम् ॥
अपि मे पितृहंतारं न हन्यां रिपुमाहवे
॥६८॥देवा ऊचुः
न चेदसि च देवेशि त्वमेनं दानवाधमम् ॥
नाशयिष्यति तत्कृत्स्नं त्रैलोक्यं सचराचरम्
॥६९॥एष व्यर्थःश्रमः सर्वस्तथास्माकं भविष्यति ॥
तव संभूतिसंभूतस्तव क्लेशस्तथाऽखिलः
॥७०॥देव्युवाच
नाहमेनं हनिष्यामि त्यजिष्यामि तथाऽमराः ॥
एनं कचग्रहं कृत्वा धारयिष्यामि सर्वदा
॥७१॥देवा ऊचुः
साधुसाधु महाभागे युक्तमुक्तं त्वया वचः ॥
एतद्धि युज्यते कर्तुं कालेऽस्मिंस्त्रिदशेश्वरि
॥७२॥सांप्रतं मर्त्यलोके त्वं रूपमेतत्समाश्रिता ॥
शस्त्रोद्यतकरा रौद्रा महिषोपरि संस्थिता
॥७३॥अवाप्स्यसि परां पूजां दुर्लभा ममरैरपि ॥
यस्त्वामेतेन रूपेण संस्थितां पूजयिष्यति
॥७४॥त्वमस्य संगतो भावि विख्याता विंध्यवासिनी ॥
किं ते वा बहुनोक्तेन शृणु संक्षेपतो वचः
॥७५॥अस्मदीयं परं तथ्यं सर्वलोकहितावहम् ॥
पार्थिवानां त्वदायत्तं बलं देवि भविष्यति
॥७६॥युद्धकाले समुत्पन्ने भक्तानां नात्र संशयः ॥
प्रस्थानं वा प्रवेशं च यः करिष्यति मानवः
॥७७॥त्वां स्मृत्वा प्रणिपत्याथ पूजयित्वा विशेषतः ॥
तस्य संपत्स्यते सिद्धिः सर्वकृत्येषु सर्वदा ॥
इह कापुरुषस्यापि किं पुनः सुभटस्य च
॥७८॥आश्विनस्य सिते पक्षे नवम्यां चाष्टमीदिने ॥
पूजयिष्यति यो मर्त्त्यस्त्वां सद्भक्तिसमन्वितः
॥७९॥तस्य संवत्सरं यावत्समग्रं सुरसुन्दरि ॥
न भविष्यति वै रोगो न भयं न पराभवः ॥
नापमृत्युर्न चौरादि समुद्भूत उपद्रवः
॥८०॥सूत उवाच
एवमुक्त्वाथ ते देवास्तां देवीं हर्षसंयुताः ॥
अनुज्ञातास्तया जग्मुः स्वां पुरीममरावतीम्
॥९१॥तत्र गत्वा चिरात्प्राप्य स्वं राज्यं पाकशासनः ॥
पालयामास संहृष्टस्त्रैलोक्यं हतकटकम्
॥८२॥लोकाश्च सुखसंपन्नाः सर्वे जाता स्ततः परम् ॥
यज्ञभागभुजो देवा भूयो जाता जगत्त्रये
॥८३॥ततः परं च सा देवी त्रैलोक्ये ख्यातिमागता ॥
सर्वक्षेत्रेषु तीर्थेषु स्थानेषु च विशेषतः
॥८४॥एतस्मिन्नंतरे जातः सुरथोनाम भूपतिः ॥
आनर्तस्तेन सद्भक्त्या क्षेत्रेऽत्रैव विनिर्मिता
॥८५॥यस्तां पश्यति सद्भक्त्या चैत्राष्टम्यां सितेऽहनि ॥
स पुमान्वत्सरं यावत्कृतार्थः स्यान्न संशयः
॥८६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये महिषासुरपराजय कात्यायनीमाहात्म्यवर्णनंनाम एकविंशत्युत्तरशततमोऽध्यायः ॥ १२१ ॥