एतस्मात्कारणात्कश्चित्तस्मिन्नहनि पार्थिव
भर्तृयज्ञ उवाच
एतस्मात्कारणात्कश्चित्तस्मिन्नहनि पार्थिव ॥
ददाति नैव च श्राद्धं पितॄनुद्दिश्य कर्हिचित् ॥
वंशच्छेदभयाद्राजन्सत्यमेतन्मयोदितम्
॥१॥श्राद्धं विनापि दातव्यं तद्दिने मधुना सह ॥
पायसं ब्राह्मणाग्र्येभ्यः सघृतं तृप्तिकारणात्
॥२॥खड्गमांसं कालशाकं मांसं वाध्रीणसोद्भवम् ॥
प्रदेयं ब्राह्मणेभ्यश्च तत्समंतादुदाहृतम्
॥३॥त्रिःपिबश्चेंद्रियक्षीणः सर्वयूथानुगस्तथा ॥
एष वाध्रीणसः प्रोक्तः पितॄणां तृप्तिदः सदा
॥४॥तस्याभावेऽपि दातव्यं क्षीरौदनमनुत्तमम् ॥
तस्मिन्नहनि विप्रेभ्यः पितॄणां तुष्टये नृप
॥५॥तस्याभावेऽपि दातव्यं जलं तिलविमिश्रितम् ॥
सदर्भं सहिरण्यं च हिरण्यशकलान्वितम्
॥६॥यच्छ्रेयो जायते पुंसः पक्षश्राद्धेन पार्थिव ॥
कृतेन तत्फलं कृत्स्नं तस्मिन्नहनि पार्थिव
॥७॥पितॄनुद्दिश्य चाऽऽज्येन मधुना पायसेन च ॥
कालशाकेन मधुना खड्गमांसेन वा नृप
॥८॥श्राद्धं विनापि दत्तेन श्रुतिरेषा पुरातनी ॥
तस्मात्सर्वप्रयत्नेन पित्र्यर्क्ष्ये समुपस्थिते ॥
त्रयोदश्यां नभस्यस्य हस्तगे दिननायके
॥९॥दरिद्रेणापि दातव्यं हिरण्यशकलान्वितम् ॥
तोयं तिलैर्युतं राजन्पितॄणां तुष्टिमिच्छता
॥१०॥आनर्त उवाच
मांसं विगर्हितं विप्र यतः शास्त्रे निगद्यते ॥
तस्मात्तत्क्रियते केन श्राद्धं कीर्तय मेऽखिलम्
॥११॥स्वमांसं परमांसेन यो वर्धयति निर्दयः ॥
स नूनं नरकं याति प्रोक्तमेतन्महर्षिभिः
॥१२॥त्वं च तस्य प्रभावं मे प्रजल्पसि द्विजो त्तम ॥
विशेषाच्छ्राद्धकृत्ये च तदेवं मम संशयः
॥१३॥भर्तृयज्ञ उवाच
सत्यमेतन्महाभाग मांसं सद्भिर्विगर्हितम् ॥
श्राद्धे प्रयुज्यते यस्मात्तत्तेऽहं वच्मि कारणम्
॥१४॥यदा चारंभिता सृष्टिर्ब्रह्मणा लोककारिणा ॥
संपूज्य च पितॄन्देवान्नांदीमुखपुरःसरान् ॥
तदा खड्गः समुत्पन्नः पूर्वं वाध्रीणसश्च यः
॥१५॥ततो ये पितरो दिव्या ये च मानुषसम्भवाः ॥
जगृहुस्ते ततः सर्वे बलिभूतमिवात्मनः
॥१६॥तानुवाच ततो ब्रह्मा एतौ तु पितरो मया ॥
युष्मभ्यं कल्पितौ सम्यग्बलिभूतौ प्रगृह्यताम्
॥१७॥एताभ्यां परमा प्रीतिर्युष्मभ्यं संभविष्यति ॥
मम वाक्यादसंदिग्धं परमेतौ नरो भुवि
॥१८॥नैव संप्राप्स्यते पापं युष्मदर्थंहनन्नपि ॥
तस्मात्सर्वप्रयत्नेन दातव्यं भूतिमिच्छता
॥१९॥खड्गवाध्रीणसोद्भूतं मांसं श्राद्धे सुतृप्तिदम् ॥
तौ चापि परमौ दिव्यौ स्वर्गं लोकं गमिष्यतः
॥२०॥श्राद्धदस्य परं श्रेयो भविष्यति सुदुर्लभम् ॥
पितॄणां चाक्षया तृप्तिर्भवेद्द्वादशवार्षिकी
॥२१॥एतस्मात्कारणाच्छस्तं मांसमाभ्यां नराधिप ॥
तस्मिन्नहनि नान्यत्र विनियोगोऽस्य कीर्तितः
॥२२॥रोहिताश्व उवाच
अप्राप्तखड्गमांसस्य तथा वाध्रीणसस्य च ॥
कथं श्राद्धं भवेद्विप्र पितॄणां तृप्तिका रकम्
॥२३॥मार्कण्डेय उवाच
मधुना सह दातव्यं पायसं पितृतुष्टये ॥
तेन वै वार्षिकी तृप्तिः पितॄणां चोपजायते
॥२४॥आजं च पिशितं राजञ्छिशुमारसमुद्भवम् ॥
मांसं प्रतुष्टये प्रोक्तं वत्सरं मासवर्जितम्
॥२५॥तदभावे वराहस्य दशमासप्रतुष्टिदम् ॥
मांसं प्रोक्तं महाराज पितॄणां नात्र संशयः
॥२६॥आरण्यमहिषोत्थेन तृप्तिः स्यान्नवमासिकी ॥
रुरोश्चैवाष्टमासोत्था एणस्य सप्तमासिका
॥२७॥शम्बरोर्मासषट्कं च शशकस्य तु पञ्चकम् ॥
चत्वारः शल्लकस्योक्तास्त्रयो वा तैत्तिरस्य च
॥२८॥मासद्वयं च मत्स्यस्य मासमेकं कपिञ्जले ॥
नान्येषां योजयेन्मांसं पितृकार्ये कथंचन
॥२९॥एतेषामेव मांसानि पावनानि नृपोत्तम
॥३०॥आनर्त उवाच
कस्मादेते पवित्राः स्युर्येषां मांसं प्रचोदितम् ॥
श्राद्धे च तन्ममाचक्ष्व यथावद्द्विजसत्तम
॥३१॥भर्तृयज्ञ उवाच
सृष्टिं प्रकुर्वता तेन पशवो लोककारिणा ॥
खड्गवाध्रीणसादीनां पश्चात्सृष्टाः स्वयंभुवा
॥३२॥एकादशप्रमाणेन ततश्चान्ये नृपोत्तम ॥
अजश्च प्रथमं सृष्टः स तथा मेध्यतां गतः
॥३३॥तथैते प्रथमं सृष्टाः पशवोऽत्र नराधिप ॥
सस्यानि सृजता तेन तिलाः पूर्वं च निर्मिताः
॥३४॥श्राद्धार्थं व्रीहयः सृष्टा वन्येषु च प्रियंगवः ॥
गोधूमाश्च यवाश्चैव माषा मुद्राश्च वै नृप [
॥३५॥नीवाराश्चापि श्यामाकाः प्रवक्ष्यामि यथाक्रमम् ॥
तृप्तिं मांसेन वाञ्छंति मांसं मांसेन वर्जितम्
॥३६॥पुष्पजात्यो यदा सृष्टास्तदा प्राक्छतपत्रिका ॥
सृष्टा तेन च मुख्या सा श्राद्धकर्मणि सर्वदा
॥३७॥धातूनि सृजता तेन रूप्यं सृष्टं स्वयंभुवा ॥
तेन तद्विहितं श्राद्धे दक्षिणायां प्रतृप्तये
॥३८॥राजतेषु च पात्रेषु यद्द्विजेभ्यः प्रदीयते ॥
पितृभ्यस्तस्य नैवाऽन्तो युगान्तेऽपि प्रजायते
॥३९॥अभावे रूप्यपात्राणां नामापि परिकीर्तयेत् ॥
तुष्यंति पितरो राजन्कीर्तनादपि वै यतः
॥४०॥रसांश्च सृजता तेन मधु सृष्टं स्वयंभुवा ॥
तेन तच्छस्यते श्राद्धे पितॄणां तुष्टिदायकम्
॥४१॥यच्छ्राद्धं मधुना हीनं तद्रसैः सकलैरपि ॥
मिष्टान्नैरपि संयुक्तं तत्पितॄणां न तृप्तये
॥४२॥अणुमात्रमपि श्राद्धे यदि न स्याद्धि माक्षिकम् ॥
नामापि कीर्तयेत्तस्य पितॄणां तुष्टये यतः
॥४३॥शाकानि सृजता तेन ब्रह्मणा परमेष्ठिनौ ॥
कालशाकं पुरः सृष्टं तेन तत्तृप्तिदायकम्
॥४४॥कालं हि सृजता तेन कुतपः प्राग्विनिर्मितः ॥
तस्मात्कुतप काले च श्राद्धं कार्यं विजानता ॥
य इच्छेच्छाश्वतीं तृप्तिं पितॄणामात्मनः सुखम्
॥४५॥वीरुधः सृजता तेन विधिना नृपसत्तम ॥
दर्भास्तु प्रथमं सृष्टाः श्राद्धार्हास्तेन ते स्मृताः
॥४६॥श्राद्धार्हान्ब्राह्मणांस्तेन सृजता पद्मयोनिना ॥
दौहित्राः प्रथमं सृष्टाः श्राद्धार्हास्तेन ते स्मृताः
॥४७॥अपि शौचपरित्यक्तं हीनांगाधिकमेव वा ॥
दौहित्रं योजयेच्छ्राद्धे पितॄणां परितुष्टये
॥४८॥पशून्विसृजता तेन पूर्वं गावो विनिर्मिताः ॥
तेन तासां पयः शस्तं श्राद्धे सर्पिर्विशेषतः
॥४९॥तस्माच्छ्राद्धे घृतं शस्तं प्रदत्तं पितृतुष्टये
॥५०॥प्रजाश्च सृजता तेन पूर्वं दृष्टा द्विजोत्तमाः ॥
तस्मात्प्रशस्तास्ते श्राद्धे पितृतृप्तिकराः सदा
॥५१॥देवांश्च सृजता तेन विश्वेदेवाः कृताः पुरः ॥
तेन ते प्रथमं पूज्याः प्रवृत्ते श्राद्धकर्मणि
॥५२॥ते रक्षंति ततः श्राद्धं यथावत्परितर्पिताः ॥
छिद्राणि नाशयंति स्म श्राद्धे पूर्वं प्रपूजिताः
॥५३॥एतैर्मुख्यतमैः सृप्तैः फूरा श्राद्धं विनिर्मितम् ॥
स्वयं पितामहेनैव ततो देवा विनिर्मिताः
॥५४॥तेन ते सर्वलोकेषु गताः ख्यातिं पुरा नृप
॥५५॥एतच्छ्राद्स्य सत्रत्वं मया ते परिकीर्तितम् ॥
पितॄणां परमं गुह्यं दत्तस्याक्षयकारकम्
॥५६॥यश्चैतत्कीर्तयेच्छ्राद्धे क्रियमाणे नृपोत्तम ॥
विप्राणां भोक्त्तुकामानां तच्छ्राद्धं त्वक्षयं भवेत्
॥५७॥यश्चैतच्कृणुयाद्राजन्सम्यक्छ्रद्धासमन्वितः ॥
विहितस्य भवेत्पुण्यं यच्छ्राद्धस्य तदाप्नुयात्
॥५८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेरक्षेत्रमाहात्म्ये श्राद्धकल्पे सृष्ट्युत्पत्तिकालिकब्रह्मोत्सृष्टश्राद्धार्हवस्तुपरिगणनवर्णनं नामैकविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२१ ॥