मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ७६

3
नागरखण्डः · 76

मुंडीरकालप्रियमूलस्थानप्रतिष्ठावर्णनम्

सूत उवाच

तथान्यदपि तत्रास्ति भास्करत्रितयं शुभम् ॥

यैस्तुष्टैस्त्रिषु लोकेषु मानवो मुक्तिमाप्नुयात्

॥१॥

मुण्डीरं प्रथमं तत्र कालप्रियं तथापरम् ॥

मूलस्थानं तृतीयं च सर्वव्याधिविनाशनम्

॥२॥

तत्र संक्रमते सूर्यो मुंडीरे रजनीक्षये ॥

कालप्रिये च मध्याह्ने मूलस्थाने क्षपागमे

॥३॥

तस्मिन्काले नरो भक्त्या पश्येदप्येकमेवच ॥

कृतक्षणो नरो मोक्षं सत्यं याति न संशयः

॥४॥

ऋषय ऊचुः

मुंडीरः पूर्वदिग्भागे धरित्र्याः श्रूयते किल ॥

मध्ये कालप्रियो देवो मूलस्थानं तदन्तरे

॥५॥

तत्कथं ते त्रयस्तत्र संजाताः सूत भास्कराः ॥

हाटकेश्वरजे क्षेत्रे सर्वं नो ब्रूहि विस्तरात्

॥६॥

सूत उवाच

अस्ति सागरपर्यंते विटंकपुरमुत्तमम् ॥

समुद्रवीचिसंसक्तप्रोच्चप्राकारमण्डनम्

॥७॥

तत्राभूद्ब्राह्मणः कश्चित्कुष्ठव्याधिसमन्वितः ॥

पूर्वकर्मविपाकेन यौवनेसमुपस्थिते

॥८॥

तस्य भार्याऽभवत्साध्वी कुलीना शीलमंडना ॥

तथाभूतमपि प्रायः सा पश्यति यथा स्मरम्

॥९॥

औषधानि विचित्राणि महार्घ्याण्यपि चाददे ॥

तदर्थमुपलेपांश्च पथ्यानि विविधानि च

॥१०॥

तथा भिषग्वरान्नित्यमानिनाय च सादरम् ॥

तदर्थे न गुणस्तस्य तथापि स्याच्छरीरजः

॥११॥

यथायथा स गृह्णाति भेषजानि द्विजोत्तमाः ॥

कुष्ठेन सर्वगात्रेषु व्याप्यते च तथातथा

॥१२॥

अथैवं वर्तमानस्य तस्य विप्रवरस्य च ॥

गृहेऽतिथिः समायातः कश्चित्पांथः श्रमान्वितः

॥१३॥

अथ विप्रं गृहं प्राप्तं दृष्ट्वा तस्य सती प्रिया ॥

अज्ञातमपिसद्भक्त्या सूपचारैरतोषयत्

॥१४॥

अथ तं स्नातमाचांतं कृताहारं द्विजोत्तमम् ॥

विश्रान्तं शयने विप्रः प्रोवाच स गृहाधिपः

॥१५॥

तेजोऽन्वितं यथा भानुं रूपौदार्यगुणान्वितम् ॥

यौवने वर्तमानं च मूर्तं काममिवापरम्

॥१६॥

कुष्ठ्युवाच

कुत आगम्यते विप्र क्व यास्यसि वदाऽधुना ॥

एवं लावण्ययुक्तोऽपि किमेकाकी यथार्तिभाक्

॥१७॥

पथिक उवाच

अस्ति कान्तीपुरीनाम पुरंदरपुरी यथा ॥

सुस्थितैः सेविता नित्यं जनैर्धर्मव्रतान्वितैः

॥१८॥

तस्यामहं कृतावासो गृहस्थाश्रममावहन् ॥

ग्रस्तः कुष्ठेन रौद्रेण यथा त्वं द्विजसत्तम

॥१९॥

ततः श्रुतं मया तावत्पुराणे स्कान्दसंज्ञिते ॥

भास्करत्रितयं भूमौ सर्वव्याधिविनाशनम्

॥२०॥

ततो निर्वेदमापन्नो भेषजैः क्लेशितश्चिरम् ॥

क्षारैश्चाम्लैः कषायैश्च कटुकैरथ तिक्तकैः

॥२१॥

ततो विनिश्चयं चित्ते कृत्वा गृह्य धनं महत् ॥

मुण्डीरस्वामिनं गत्वा स्थितस्तस्यैव सन्निधौ

॥२२॥

ततः प्रातः समुत्थाय नित्यं पश्यामि तं विभुम् ॥

पूजयामि स्वशक्त्या च प्रणमामि ततः परम्

॥२३॥

सूर्यवारे विशेषेण निराहारो यतेन्द्रियः ॥

करोमि जागरं रात्रौ गीतवादित्रनिःस्वनैः

॥२४॥

ततः संवत्सरस्यांते तं प्रणम्य दिनाधिपम् ॥

कालप्रियं ततः पश्चाच्छ्रद्धया परया युतः

॥२५॥

तेनैव विधिना विप्र तस्यापि दिवसेशितुः ॥

पूजां करोमि मध्याह्ने श्रद्धा पूतेन चेतसा

॥२६॥

ततोऽपि वत्सरस्यांते तं प्रणम्याथ शक्तितः ॥

मूलस्थानं गतो देवमपरस्यां दिशि स्थितम्

॥२७॥

तेनैव विधिना पूजा तस्यापि विहिता मया ॥

संध्याकाले द्विजश्रेष्ठ यावत्संवत्सरं स्थितः

॥२८॥

ततः संवत्सरस्यांते स्वप्ने मां भास्करोऽब्रवीत् ॥

समेत्य प्रहसन्विप्रः संप्रहृष्टेन चेतसा

॥२९॥

परितुष्टोऽस्मि ते विप्र कर्मणाऽनेन भक्तितः ॥

ममाराधनजेनैव तस्मात्कुष्ठं प्रयातु ते

॥३०॥

गच्छ शीघ्रं द्विजश्रेष्ठ श्रांतोऽसि निजमंदिरम् ॥

पश्य बंधुजनं सर्वं सोत्कण्ठं तत्कृते स्थितम्

॥३१॥

त्वया हृतं पुरा रुक्मं ब्राह्मणस्य महात्मनः ॥

तेन कर्मविपाकेन कुष्ठव्याधिरुपस्थितः

॥३२॥

स मया नाशितस्तुभ्यं प्रहृष्टेनाधुना द्विज ॥

एतज्ज्ञात्वा न कर्तव्यं सुवर्णहरणं पुनः

॥३३॥

दृश्यन्ते ये नरा लोके कुष्ठव्याधिसमाकुलाः ॥

सुवर्णहरणं सर्वैस्तैः कृतं पापकर्मभिः

॥३४॥

तस्माद्देयं यथाशक्त्या न स्तेयं कनकं बुधैः ॥

इच्छद्भिः परमं सौख्यं स्वशरीरस्य शाश्वतम्

॥३५॥

एवमुक्त्वा सहस्रांशुस्ततश्चादर्शनं गतः ॥

अहं च विस्मयाविष्टः प्रोत्थितः शयनाद्द्रुतम्

॥३६॥

यावत्पश्यामि देहं स्वं कुष्ठव्याधिपरिच्युतम् ॥

द्वादशार्कप्रभं दिव्यं यथा त्वं पश्यसे द्विज

॥३७॥

तस्मात्त्वमपि विप्रेंद्र भक्त्या तद्भास्करत्रयम् ॥

अनेन विधिना पश्य येन कुष्ठं प्रशाम्यति

॥३८॥

किमौषधैः किमाहांरैः कटुकैरपि योजितैः ॥

सर्वव्याधिप्रणाशेशे स्थितेऽस्मिन्भास्करत्रये

॥३९॥

स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं तां पुरीं प्रति ॥

गृहेऽद्य तव विश्रांतो यथा विप्र निजे गृहे

॥४०॥

एवमुक्तः स पांथेन तेन विप्रः स कुष्ठभाक् ॥

वीक्षांचक्रे ततो वक्त्रं स्वपत्न्या दुःखसंयुतः

॥४१॥

साऽब्रवीद्युक्तमुक्तं ते पांथेनानेन वल्लभ ॥

तस्मात्तत्र द्रुतं गच्छ यत्र तद्भास्करत्रयम्

॥४२॥

अहं त्वया समं तत्र शुश्रूषानिरता सती ॥

गमिष्यामि न संदेहस्तस्माद्गच्छ द्रुतं विभो

॥४३॥

एवमुक्तस्तया सोऽथ वित्तमादाय भूरिशः ॥

प्रस्थितः कांतया सार्धं मुण्डीरस्वामिनं प्रति

॥४४॥

प्रतिज्ञया गमिष्यामि द्रष्टुं तद्देवतात्रयम् ॥

मुंडीरं कालनाथं च मूल स्थानं च भास्करम्

॥४५॥

ततः कृच्छ्रेण महता कुष्ठव्याधिसमाकुलः ॥

हाटकेश्वरजे क्षेत्रे संप्राप्तः स द्विजोत्तमाः

॥४६॥

तद्दृष्ट्वा सुमहत्क्षेत्रं तापसौघनिषेवितम् ॥

निर्विण्णः कुष्ठरोगेण पथि श्रांतोऽब्रवीत्प्रियाम्

॥४७॥

अहं निर्वेदमापन्नो रोगेणाथ बुभुक्षया ॥

मुण्डीरस्वामिनं यावन्न शक्रोमि प्रसर्पितुम्

॥४८॥

तस्मादत्रैव देहं स्वं विहास्यामि न संशयः ॥

त्वं गच्छ स्वगृहं कांते सार्थमासाद्य शोभनम्

॥४९॥

पत्न्युवाच

अभुक्ते त्वयि नो भुक्तं कदाचित्कांत वै मया ॥

एकांतेऽपि महाभाग न सुप्तं जाग्रति त्वयि

॥५०॥

तस्मादेतन्महाक्षेत्रं संप्राप्य त्वां व्यवस्थितम् ॥

परलोकाय संत्यज्य कथं गच्छाम्यहं गृहम्

॥५१॥

दर्शयिष्ये मुखं तेषां त्वया हीना अहं कथम् ॥

बांधवानां गुरूणां च अन्येषां सुदृदा मपि

॥५२॥

तस्मात्त्वया समं नाथ प्रवेक्ष्यामि हुताशनम् ॥

स्नेहपाशविनिर्बद्धा सत्येनात्मानमालभे

॥५३॥

यावतस्तव संजाता उपवासा महामते ॥

तावंतश्च तथास्माकं कथं गच्छामि तद्गृहम्

॥५४॥

एवं तस्या विदित्वा स निश्चयं ब्राह्मणस्तदा ॥

चितिं कृत्वा तु दाहार्थं तया सार्धे ततोऽविशत्

॥५५॥

भास्करं मनसि ध्यात्वा यावदग्निं समाददे ॥

तावत्पश्यति चाग्रस्थं सुदीप्तं पुरुषत्रयम्

॥५६॥

तद्दृष्ट्वा विस्मयाविष्टः क एते पुरुषास्त्रयः ॥

न कदाचिन्मया दृष्टा ईदृक्तेजःसमन्विताः

॥५७॥

पुरुषा ऊचुः

मा त्वं मृत्युपथं गच्छ कृत्वा वैराग्यमाकुलः ॥

व्यावृत्य स्वगृहं गच्छ स्व भार्यासहितो द्विज

॥५८॥

ब्राह्मण उवाच

प्रतिज्ञाय मया पूर्व गृहं मुक्तं निजं यतः ॥

मुण्डीरस्वामिनं दृष्ट्वा तथाऽन्यं कालवल्लभम्

॥५९॥

मूलस्थानं च कर्तव्यं ततः सस्यप्रभक्षणम् ॥

सोऽहं तानविलोक्याथ कथं गच्छामि मन्दिरम् ॥

भक्षयामि तथा सस्यं तेन त्यक्ष्यामि जीवितम्

॥६०॥

पुरुषा ऊचुः

वयं ते भास्करा ब्रह्मंस्त्रयोऽत्रैव समागताः ॥

त्वद्भक्त्याकृष्टमनसो ब्रूहि किं करवामहे

॥६१॥

ब्राह्मण उवाच

यदि यूयं समायाताः स्वयमेव ममांतिकम् ॥

त्रयोऽपि भास्करा नाशमेष कुष्ठः प्रगच्छतु

॥६२॥

तथाऽत्रैव सदा स्थेयं क्षेत्रे युष्माभिरेव हि ॥

सांनिध्यं त्रिषु लोकेषु गन्तव्यं च यथा पुरा

॥६३॥

भास्करा ऊचुः

एवं विप्र करिष्यामः स्थास्यामो ऽत्र सदा वयम् ॥

त्वं चापि रोगनिर्मुक्तः सुखं प्राप्स्यस्यनुत्तमम्

॥६४॥

प्रासादत्रितयं तस्मादस्मदर्थं निरूपय ॥

येन त्रिकालमासाद्य गच्छामः संनिधिं द्विज

॥६५॥

एवमुक्त्वा तु ते सर्वे गताश्चाद्दर्शनं ततः ॥

सोऽपि पश्यति कायं स्वं यावद्रोगविवर्जितम्

॥६६॥

द्वादशार्क प्रतीकाशं सर्वलक्षणलक्षितम् ॥

ततः प्रोवाच तां भार्यां विनयावनतां स्थिताम्

॥६७॥

पश्य त्वं सुभ्रूर्मे गात्रं यादृग्रूपं पुनः स्थितम् ॥

प्रसादाद्देवदेवस्य भास्करस्यांशुमालिनः

॥६८॥

सोऽहमत्र स्थितो नित्यं पूजयिष्यामि भास्करम् ॥

न यास्यामि पुनः सद्म सत्यमेतन्मयोदितम्

॥६९॥

एवमुक्त्वा स विप्रेन्द्रस्तस्मिन्क्षेत्रे सुशोभने ॥

प्रासादत्रितयं रम्यं निर्ममे भक्तिसंयुतः

॥७॥

मुण्डीरस्वामिनश्चैकमन्यत्कालप्रियस्य च ॥

मूलस्थानस्य चान्यत्तु सत्पताकाविभूषितम्

॥७॥

त्रयाणामपि तेषां तु साध्वर्चाः शास्त्रसूचिताः ॥

स्थापयामास सूर्याणां हस्तार्के सूर्यवासरे

॥७२॥

ततस्ताः पुष्पधूपाद्यैः समभ्यर्च्य चिरं द्विजः ॥

त्रिसंध्यं क्रमशः प्राप्तो देहांते भास्करालयम्

॥७३॥

सूत उवाच

एवं ते तत्र संजातास्त्रयोऽपि द्विजसत्तमाः ॥

भास्करा भक्तलोकस्य सर्वव्याधिविनाशकाः

॥७४॥

यस्तान्पश्यति काले स्वे यथोक्ते सूरर्यवासरे ॥

स वांछिताँल्लभेत्कामान्दुर्लभानपि मानवैः

॥७५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मुंडीरकालप्रियमूलस्थानप्रतिष्ठावर्णनंनाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥