नलेश्वरमाहात्म्यवर्णनम्
सूत उवाच
तस्या एव समीपस्थं देवदेवं नलेश्वरम् ॥
दृष्ट्वा विमुच्युते पापात्स्थापितं नलभूभुजा
॥१॥यस्तं पश्येन्नरो भक्त्या माघे षष्ठ्यां सिते द्विजाः ॥
सर्व रोगविनिर्मुक्तः प्राप्नोति परमं पदम्
॥२॥कण्डूः पामाथ दद्रूणि मंडलानि विचर्चिका ॥
दर्शनात्तस्य नश्यन्ति जन्तूनां भावितात्मनाम्
॥३॥अस्ति तस्याग्रतः कुण्डं स्वच्छोदकसुपूरितम् ॥
मत्स्यकूर्मसमाकीर्णं पद्मिनीखंडमंडितम्
॥४॥यस्तत्र कुरुते स्नानं प्रत्यूषे सोमवासरे ॥
अपि कुष्ठामयमस्तः स भूयः स्यात्पुनर्नवः
॥५॥यदा संस्थापितः शंभुर्नलेन पृथिवीभुजा ॥
तदा तुष्टेन स प्रोक्तो ब्रूहि किं ते करोम्यहम्
॥६॥नल उवाच
अत्र स्थेयं त्वया देव सदा सन्निहितेन च ॥
सर्वलोकहितार्थाय रोगनाशाय शंकर
॥७॥शंकर उवाच
अहं त्वद्वचनाद्राजन्संप्राप्ते सोमवासरे ॥
प्रत्यूषे च निवत्स्यामि प्रासादे नात्र संशयः
॥८॥माघाष्टम्यामहोरात्रं सकलं च महीपते ०।
प्राणिनां रोगनाशाय शुक्लपक्षे विशेषतः
॥९॥यो मामत्र स्थितं तत्र दिवसे वीक्षयिष्यति ॥
स्नात्वा सुविमले कुंडे सम्यक्छ्रद्धासमन्वितः ॥
तस्य नाशं प्रयास्यंति व्याधयो गात्रसंभवाः
॥१०॥योऽस्य कुंडस्य संभूतां मृत्तिकामपि मानवः ॥
संधास्यति निजे देहे सोमवारे निशाक्षये ॥
सोऽपि रोगैर्विनिर्मुक्तः संभविष्यति पुष्टिमान्
॥११॥निष्कामस्तु पुनर्यो मां तस्मिन्काले नृपोत्तम ॥
पूजयिष्यति सद्भक्त्या पुष्पधूपानुलेपनैः ॥
सर्वपापविनिर्मुक्तो मम लोकं स यास्यति
॥१२॥सूत उवाच
एवमुक्त्वा स भगवांस्त्रैलोक्यदीपको हरः ॥
अन्तर्धानं गतो विप्रा यथा दीपोऽत्र तत्क्षणात्
॥१३॥नलोऽपि तुष्टिमापन्नस्तमाराध्य चिरं नृपः ॥
तदाहूयाखिलान्विप्रांश्चमत्कारपुरोद्भवान्
॥४॥एष संस्थापितः शंभुर्मया युष्मत्पुरोंतिके ॥
येन दृष्टेन रोगाणां सर्वेषां जायते क्षयः
॥१५॥अधुनाहं गमिष्यामि स्वराज्याय कृते द्विजाः ॥
निषधां च पुरीमेष सर्वैः पूज्यः समाहितैः
॥१६॥ब्राह्मणा ऊचुः
एवं पार्थिवशार्दूल करिष्यामः समाहिताः ॥
तव देवकृते यत्नं यात्राद्यासु क्रियासु च
॥१७॥तथा पूजां करिष्यामः श्रद्धया परया युताः ॥
अस्माकं पुत्रपौत्रा ये भविष्यंति तथा परे ॥
वंशजास्ते करिष्यंति पूजामस्य सुभक्तितः
॥१८॥सूत उवाच
एवमुक्तः स भूपालस्तैर्विप्रैस्तुष्टिसंयुतः ॥
प्रतस्थे तान्प्रणम्योच्चैः सर्वैस्तैश्चाभिनंदितः
॥१९॥एवं स भगवाञ्छंभुस्तस्मिन्स्थाने व्यवस्थितः ॥
हिताय सर्वलोकानां सर्वरोगक्षयावहः
॥२०॥तस्मात्सर्वप्रयत्नेन वीक्षणीयः सदा हि सः ॥
विशेषात्सोमवारेण शाश्वतं श्रेय इच्छता
॥२१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये नलेश्वरमाहात्म्यवर्णनंनाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥