यदेतद्भवता प्रोक्तं तत्र रामेण निर्मितः
ऋषय ऊचुः
यदेतद्भवता प्रोक्तं तत्र रामेण निर्मितः ॥
रामेश्वरस्तथा सीता तेन तत्र विनिर्मिता
॥१॥तथा च लक्ष्मणार्थाय निर्मितस्तेन संश्रयः ॥
एतन्महद्विरुद्धं ते प्रतिभाति वचोऽखिलम्
॥२॥त्वया सूत पुरा प्रोक्तं रामो लक्ष्मणसंयुतः ॥
सीतया सहितः प्राप्तः क्षेत्रेऽत्र प्रस्थितो वने
॥३॥श्राद्धं कृत्वा गयाशीर्षे लक्ष्मणेन विरुद्ध्य च ॥
पुनः संप्रस्थितोऽरण्यं क्रोधाविष्टश्च तं प्रति
॥४॥यत्त्वयोक्तं तदा तेन निर्मितोऽत्र महेश्वरः ॥
एतच्च सर्वमाचक्ष्व संदेहं सूतनन्दन
॥५॥सूत उवाच
अत्र मे नास्ति संदेहो युष्माकं च पुनः स्थितः ॥
ततो वक्ष्याम्यशेषेण श्रूयतां द्विजसत्तमाः ॥
एतत्क्षेत्रं पुनश्चाद्यं न क्षयं याति कुत्रचित्
॥६॥अन्यस्मिन्दिवसे प्राप्ते स तदा रघुनंदनः ॥
यदा विरोधमापन्नः सार्धं सौमित्रिणा सह
॥७॥एतत्पुनर्दिनं चान्यद्यत्र तेन प्रतिष्ठितः ॥
रामेश्वरः स्वयं भक्त्या दुःखितेन महात्मना
॥८॥ऋषय ऊचुः
अन्यस्मिन्दिवसे तत्र कस्मिन्काले रघूत्तमः ॥
संप्राप्तस्तस्य किं दुःखं संजातं तत्प्रकीर्तय
॥९॥सूत उवाच
कृत्वा सीतापरित्यागं रामो राजीवलोचनः ॥
लोकापवादसंत्रस्तस्ततो राज्यं चकार सः
॥१०॥कृत्वा स्वर्णमयीं सीतां पत्नीं यज्ञप्रसिद्धये ॥
न स चक्रे महाभागो भार्यामन्यां कथंचन
॥१॥दशवर्षसहस्राणि दशवर्षशतानि च ॥
ब्रह्मचर्येण चक्रे स राज्यं निहतकंटकम्
॥१२॥ततो वर्षसहस्रांते प्राप्ते चैकादशे द्विजाः ॥
देवदूतः समायातो रामस्य सदनं प्रति
॥३॥तेनोक्तं देवराजेन प्रेषितोऽहं तवांतिकम् ॥
तस्मात्कुरु समालोकं विजने त्वं मया सह
॥१४॥एवमुक्तस्तदा तेन दूतेन रघुनंदनः ॥
परं रहः समासाद्य मन्त्रं चक्रे ततः परम् ॥
तस्यैवमुपविष्टस्य मंत्रस्थाने महात्मनः ॥
बहुत्वादिष्टलोकस्य न रहस्यं प्रजायते
॥१६॥ततः कोपपरीतात्मा दूतः प्रोवाच सादरम् ॥
विहस्य जनसंसर्गं दृष्ट्वैकांतेऽपि संस्थिते
॥१७॥यथा दंष्ट्राच्युतः सर्पो नागो वा मदवर्जितः ॥
आज्ञाहीनस्तथा राजा मानवैः परिभूयते
॥१८॥सेयं तव रघुश्रेष्ठ नाज्ञास्ति प्रतिवेद्म्यहम् ॥
शक्रालापमपि त्वं च नैकांते श्रोतुमर्हसि
॥१९॥तस्य तद्वचनं श्रुत्वा कोपसंरक्तलोचनः ॥
त्रिशाखां भृकुटीं कृत्वा ततः स प्राह लक्ष्मणम्
॥२०॥ममात्र संनिविष्टस्य सहानेन प्रजल्पतः ॥
यदि कश्चिन्नरो मोहादागमिष्यति लक्ष्मण ॥
स्वहस्तेन न संदेहः सूदयिष्यामि तं द्रुतम्
॥२१॥न हन्मि यदि तं प्राप्तमत्र मे दृष्टिगोचरम् ॥
तन्मा भून्मे गतिः श्रेष्ठा धर्मिणां या प्रपद्यते
॥२२॥एवं ज्ञात्वा प्रयत्नेन त्वया भाव्यमसंशयम् ॥
राजद्वारि यथा कश्चिन्न मया वध्यतेऽधुना
॥२३॥तमोमित्येव संप्रोच्य लक्ष्मणः शुभलक्षणः ॥
राजद्वारं समासाद्य चकार विजनं ततः
॥२४॥देवदूतोऽपि रामेण समं चक्रे ततः परम् ॥
मंत्रं शक्रसमादिष्टं तथान्यैः स्वर्गवासिभिः
॥२५॥देवदूत उवाच
त्वं रावणविनाशार्थमवतीर्णो धरातले ॥
स च व्यापादितो दुष्टः पापस्त्रैलोक्यकंटकः
॥२६॥कृतं सर्वं महाभाग देव कृत्यं त्वयाऽधुना ॥
तस्मात्संतु सनाथास्ते देवाः शक्रपुरोगमाः
॥२७॥यदि ते रोचते चित्ते नोपरोधेन सांप्रतम् ॥
प्रसादं कुरु देवानां तस्मादागच्छ सत्वरम् ॥
स्वर्गलोकं परित्यज्य मर्त्यलोकं सुनिंदितम्
॥२८॥सूत उवाच
एतस्मिन्नंतरे प्राप्तो दुर्वासा मुनिसत्तमः ॥
प्रोवाचाथ क्षुधाविष्टः क्वासौ क्वासौ रघूत्तमः
॥२९॥लक्ष्मण उवाच
व्यग्रः स पार्थिवश्रेष्ठो देवकार्येण केनचित् ॥
तस्मादत्रैव विप्रेंद्र मुहूर्तं परिपालय
॥३०॥यावत्सांत्वयते रामो दूतं शक्रसमुद्भवम् ॥
ममोपरि दयां कृत्वा विनयावनतस्य हि
॥३१॥दुर्वासा उवाच
यदि यास्यति नो दृष्टिं मम द्राक्स रघूत्तमः ॥
शापं दत्त्वा कुलं सर्वं तद्धक्ष्यामि न संशयः
॥३२॥ममापि दर्शनादन्यन्न किंचिद्विद्यते गुरु ॥
कृत्यं लक्ष्मण यावत्त्वमन्यन्मूढ़ प्रकत्थसे
॥३३॥तच्छ्रुत्वा लक्ष्मणश्चित्ते चिंतयामास दुःखितः ॥
वरं मे मृत्युरेकस्य मा भूयात्कुलसंक्षयः
॥३४॥एवं स निश्चयं कृत्वा ततो राममुपाद्रवत् ॥
उवाच दंडवद्भूमौ प्रणिपत्य कृतांजलिः
॥३५॥दुर्वासा मुनिशार्दूलो देव ते द्वारि तिष्ठति ॥
दर्शनार्थी क्षुधाविष्टः किं करोमि प्रशाधि माम्
॥३६॥तस्य तद्वचनं श्रुत्वा ततो दूतमुवाच तम् ॥
गत्वेमं ब्रूहि देवेशं मम वाक्यादसंशयम् ॥
अहं संवत्सरस्यांत आगमिष्यामि तेंऽतिके
॥३७॥एवमुक्त्वा विसृज्याथ तं दूतं प्राह लक्ष्मणम् ॥
प्रवेशय द्रुतं वत्स तं त्वं दुर्वाससं मुनिम्
॥३८॥ततश्चार्घ्यं च पाद्यं च गृहीत्वा सम्मुखो ययौ ॥
रामदेवः प्रहृष्टात्मा सचिवैः परिवारितः
॥३९॥दत्त्वार्घ्यं विधिवत्तस्य प्रणिपत्य मुहुर्मुहुः ॥
प्रोवाच रामदेवोऽथ हर्षगद्गदया गिरा
॥४०॥स्वागतं ते मुनिश्रेष्ठ भूयः सुस्वागतं च ते ॥
एतद्राज्यममी पुत्रा विभवश्च तव प्रभो
॥४१॥कृत्वा मम प्रसादं च गृहाण मुनिसत्तम ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वं मे गृहमागतः ॥
पूज्यो लोकत्रयस्यापि निःशेषतपसांनिधिः
॥४२॥मुनिरुवाच
चातुर्मास्यव्रतं कृत्वा निराहारो रघूत्तम ॥
अद्य ते भवनं प्राप्य आहारार्थं बुभुक्षितः
॥४३॥तस्मात्त्वं यच्छ मे शीघ्रं भोजनं रघुनंदन ॥
नान्येन कारणं किंचित्संन्यस्तस्य धनादिना
॥४४॥ततस्तं भोजयामास श्रद्धापूतेन चेतसा ॥
स्वयमेवाग्रतः स्थित्वा मृष्टान्नैर्विविधैः शुभैः
॥४५॥लेह्यैश्चोष्यैस्तथा चर्व्यैः खाद्यैरेव पृथग्विधैः ॥
यावदिच्छा मुनेस्तस्य तथान्नैर्विविधैरपि
॥४६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रामेश्वरस्थापनप्रस्तावे श्रीरामंप्रति दुर्वासः समागमनवृत्तांतवर्णनंनामैकोनशततमोऽ ध्यायः ॥ ९९ ॥