मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २७६

3
नागरखण्डः · 276

एकादशरुद्रोत्पत्तिवर्णनम्

सूत उवाच

तथान्येऽपि वसन्तीह रुद्रा एकादशैव तु ॥

सञ्जाता ब्राह्मणश्रेष्ठा मुनीनां हितकाम्यया

॥१॥

यैर्दृष्टैः पूजितै र्वापि स्तुतैर्वाथ नमस्कृतैः ॥

विपाप्मा जायते मर्त्यः सर्वदोषविवर्जितः

॥२॥

ऋषय ऊचुः

एक एव श्रुतो रुद्रो न द्वितीयः कथंचन ॥

गौरी भार्याप्रिया यस्य स्कन्दः पुत्रः प्रकीर्तितः

॥३॥

तेनैकं विद्महे रुद्रं नान्यमीशं कथंचन ॥

तस्माद्ब्रूहि महाभाग सर्वानेतान्सुविस्तरात्

॥४॥

सूत उवाच

सत्यमेतन्महाभागा यद्भवद्भिरुदाहृतम् ॥

एक एव स्थितो रुद्रो न द्वितीयः कथंचन

॥५॥

परं यथा च सञ्जाता रुद्रा एकादशात्र भोः ॥

तथाहं कीर्तयिष्यामि शृणुध्वं सुसमाहिताः

॥६॥

वाराणस्यां पुरा संस्था मुनयः शंसितव्रताः ॥

हाटकेश्वरदेवस्य दर्शनार्थं समुत्सुकाः

॥७॥

प्रस्थिताः समयं कृत्वा स्पर्धमानाः परस्परम् ॥

अहंपूर्वमहं पूर्वं वीक्षयिष्यामि तं विभुम्

॥८॥

सर्वेषामग्रतो भूत्वा पाताले हाटकेश्वरम् ॥

यश्चादौ तत्र गत्वा च नेक्षयिष्यति तं हरम् ॥

सर्वेषां श्रमजं पापं तस्यैकस्य भविष्यति

॥९॥

एवमुक्त्वा ततः सर्वे वाराणस्यां ततः परम् ॥

प्रस्थिता धावमानाश्च वेगेन महता ततः

॥१०॥

एतस्मिन्नन्तरे देवो हाटकेश्वरसंज्ञितः ॥

ज्ञात्वा तेषामभिप्रायं मिथः स्पर्द्धासमुद्भवम् ॥

आत्मनो दर्शनार्थाय बहुभक्तिपुरस्कृतम्

॥११॥

लघुना रक्ष्यमाणेन सर्वेषां च महात्मनाम् ॥

नागरंध्रेण निष्क्रम्य पातालाच्चैव तत्क्षणात्

॥१२॥

एकादशप्रकारं स कृत्वा रूपं मनोहरम् ॥

त्रिशूलभृत्त्रिनेत्रं च कपर्देन विभूषितम्

॥१३॥

शशिखंडधरं चैव रुण्डमालाप्रधारकम् ॥

समं चैव स्थितस्तेषां दर्शने शंकरः प्रभुः

॥१८३॥

ततस्ते वै समालोक्य पुरस्थं वृषभध्वजम् ॥

जानुभ्यां धरणीं गत्वा स्तुतिं चक्रुस्ततस्ततः

॥१५॥

एको जानाति देवोऽयं मम संदर्शनं गतः ॥

देवदेवो महादेवः प्रथमं भक्तवत्सलः

॥१६॥

अन्यो जानाति मे पूर्वं जातस्ते तापसोत्तमः ॥

स्तुतिं चक्रुश्च विप्रेंद्रा जानुभ्यामवनिं गताः

॥१७॥

तापसा ऊचुः

नमो देवाधिदेवाय सर्वदेवमयाय च ॥

नमः शांताय सूक्ष्माय नमश्चांधकभेदिने

॥१८॥

नमोऽस्तु सर्वरुद्रेभ्यो ये दिवं संश्रिताः सदा ॥

जीवापयंति जगतीं वायुभिश्च पृथग्विधैः

॥१९॥

नमोऽस्तु सर्वरुद्रेभ्यो ये स्थिता वारुणीं दिशम् ॥

रक्षंति सर्वलोकांश्च पिशाचानां दुरात्मनाम्

॥२०॥

नमोऽस्तु सर्वरुद्रेभ्यो दिशमूर्ध्वं समाश्रिताः ॥

रक्षंति सकलांल्लोकान्भूतार्नां जंभकाद्भयात्

॥२१॥

नमोऽस्तु सर्वरुद्रेभ्यो येऽध ऊर्ध्वं समाश्रिताः ॥

रक्षंति सकलांल्लोकान्कूष्मांडानां भयात्सदा

॥२२॥

असंख्याताः सहस्राणि ये रुद्रा भूमिमाश्रिताः ॥

नमस्तेभ्योऽपि सर्वेभ्यस्तेषां रक्षंति ये रुजः

॥२३॥

एवं स्तुतास्तु ते रुद्रा एकादशतपस्विभिः ॥

एकादशापि तान्प्रोचुर्भक्तिनम्रांस्तु तापसान्

॥२४॥

रुद्रा ऊचुः

एकादशप्रकारोऽहं तुष्टो वस्तापसोत्तमाः ॥

बहुभक्त्यतिरेकेण व्रियतां च यथेप्सितम्

॥२५॥

तापसा ऊचुः

यदि तुष्टोसि नो देव यदि यच्छसि वांछितम् ॥

एकादशप्रकारैस्तु सदा स्थेयमिहैव तु

॥२६॥

हाटकेश्वरजे क्षेत्रे सर्वतीर्थमये शुभे ॥

आराधनं प्रकुर्वाणा वसामो येन वै वयम्

॥२७॥

श्रीभगवानुवाच

एकादशप्रकारा या मूर्तयो निर्मिता मया ॥

एताभिरेव सर्वाभिः स्थास्याम्यत्र सदैव हि

॥२८॥

आद्या तु मम या मूर्तिः सा कैलासं समाश्रिता ॥

संतिष्ठति सदैवात्र कैलासे पर्वतोत्तमे

॥२९॥

एतास्तु मूर्तयोऽस्माकं स्थास्यंत्यत्रैव सर्वदा ॥

सर्वेषामेव लोकानां हिताय द्विजसत्तमाः

॥३०॥

नामभिश्च क्रमेणैव युष्मदीयैः स्वयं द्विजाः ॥

विश्वामित्रह्रदे स्नात्वा एता मूर्तीर्ममात्र वै ॥

पूजयिष्यंति ये मर्त्यास्ते यास्यंति परां गतिम्

॥३१॥

किं वाचा बहुनोक्तेन भूयोभूयो द्विजोत्तमाः ॥

या तासां क्रियते पूजा एकादशगुणा भवेत्

॥३२॥

एवमुक्त्वा त्रिनेत्रस्तु तत्रैवादर्शनं गतः ॥

तेऽपि तत्राश्रमं कृत्वा श्रद्धया परया युताः ॥

मूर्तीश्च ताः समाराध्य संप्राप्ताः परमं पदम्

॥३३॥

अन्योऽपि यः पुमांस्ताश्च आराधयति श्रद्धया ॥

स याति परमं स्थानं यत्र देवो महेश्वरः

॥३४॥

ततः प्रभृति ते जाता रुद्रा एकादशैव तु ॥

संख्यया देवदेवस्य महेश्वरवपुर्धराः

॥३५॥

तेजोत्तमास्ते संयुक्तास्त्रिनेत्राः शूलपाणयः ॥

एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः

॥३६॥

एकादशप्रकारस्तु यथा जातो महेश्वरः ॥

चैत्रे मासि सिते पक्षे चतुर्दश्यां दिने स्थिते

॥३७॥

यस्तान्पूजयते भक्त्या स याति परमां गतिम् ॥

अधनो धनमाप्नोति ह्यपुत्रः पुत्रवान्भवेत्

॥३८॥

सरोगो रोगमुक्तस्तु पराभूतो रिपुक्षयम् ॥

तत्समाराधनादेव कामानंत्यमवाप्नुयात्

॥३९॥

यः पुनः शिवदीक्षाढ्यो भस्मस्नानपरायणः ॥

तत्समाराधनं कुर्याच्छृणु तस्यापि यत्फलम्

॥४०॥

यदन्यः प्राप्नुयान्मर्त्यस्तत्पूजासंभवं फलम् ॥

षडक्षरेण मंत्रेण पुष्पेणैकेन तत्फलम्

॥४१॥

शिवदीक्षाधरो यस्तु शतघ्नं लभते फलम् ॥

तस्माच्छतघ्नमाप्नोति शैवात्पाशुपतश्च यः ॥

तस्मात्कालमुखो यश्च महाव्रतधरश्च यः

॥४२॥

मूर्तीर्यास्ताश्च ये भक्त्या विनताः पूजयंति च ॥

सर्वेषामेव तेषां तु फलं शतगुणं भवेत्

॥४३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य एकादशरुद्रोत्पत्ति वर्णनं नाम षट्सप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७६ ॥