नागतीर्थोत्पत्तिमाहात्म्यवर्णनम्
सूत उवाच
द्वितीये दिवसे प्राप्ते यज्ञकर्मसमुद्भवे ॥
द्वादश्यामभवत्तत्र शृणुध्वं तद्द्विजोत्तमाः ॥
वृत्तान्तं सर्वदेवानां महाविस्मयकारकम्
॥१॥मखकर्मणि प्रारब्ध ऋत्विग्भिर्वेदपारगैः ॥
जलसर्पं समादाय बटुः कश्चित्सुनर्मकृत्
॥२॥प्रविश्याथ सदस्तत्र तं सर्पं ब्राह्मणान्तिके ॥
चिक्षेप प्रहसंश्चैव सर्वदुःखभयंकरम्
॥३॥ततस्तु डुण्डुभस्तूर्णं भ्रममाण इतस्ततः ॥
विप्राणां सदसिस्थानां सक्तानां यज्ञकर्मणि
॥४॥अहो होतुः स्थिते प्रैषे दीर्घसत्रसमुद्भवे ॥
स सर्पो वेष्टयामास तस्य गात्रं समंततः
॥५॥न चचाल निजस्थानात्प्रायश्चित्तविभीषया ॥
नोवाच वचनं सोऽत्र चयनन्यस्तलोचनः
॥६॥हाहाकारो महाञ्जज्ञे एतस्मिन्नंतरे द्विजाः ॥
तस्मिन्सदसि विप्राणां विषा ढ्याहिप्रशंकया
॥७॥हाहाकारो महानासीत्तं दृष्ट्वा सर्पवेष्टितम् ॥
तस्य पुत्रो विनीतात्मा मैत्रावरुणकर्मणि
॥९॥संस्थितस्तेन संदृष्टः पिता सर्पाभिवेष्टितः ॥
ज्ञात्वा तु चेष्टितं तस्य भये सर्पसमुद्भवे ॥
शशाप क्रोधसंयुक्तस्ततस्तं स बटुं मुनिः
॥९॥यस्मात्पाप त्वया सर्पः क्षिप्तः सदसि दुर्मते ॥
तस्माद्भव द्रुतं सर्पो मम वाक्यादसंशयम्
॥१०॥बटुरुवाच
हास्येन जलसर्पोऽयं मया मुक्तोऽत्र लीलया ॥
न ते तातं समुद्दिश्य तत्किं मां शपसि द्विज
॥११॥एतस्मिन्नंतरे मुक्त्वा तस्य गात्रं स पन्नगः ॥
जगामान्यत्र तस्यापि सर्पत्वं समपद्यत
॥१२॥सोऽपि सर्पत्वमापन्नः सनातनसुतो बटुः ॥
दुःखशोकसमापन्नो ब्राह्मणैः परिवेष्टितः
॥१३॥अथ गत्वा भृगुं सोऽपि बाष्पव्याकुललोचनः ॥
प्रोवाच गद्गदं वाक्यं प्रणिपत्य पुरःसरः
॥१४॥सनातनसुतश्चास्मि पौत्रस्तु परमेष्ठिनः ॥
शप्तस्तव सुतेनास्मि च्यवनेन महात्मना
॥१५॥निर्दोषो ब्राह्मणश्रेष्ठ तस्माच्छापात्प्ररक्ष माम् ॥
तच्छ्रुत्वा च्यवनं प्राह कृपाविष्टो भृगुः स्वयम्
॥१६॥अयुक्तं विहितं तात यच्छप्तोऽयं बटुस्त्वया ॥
न मां धर्षयितुं शक्तो विषाढ्योऽपि भुजंगमः
॥१७॥किं पुनर्जलसर्पोऽयं निर्विषो रज्जुसंनिभः ॥
न मामुद्दिश्य निर्मुक्तः सर्पोऽनेन द्विजन्मना ॥
शापमोक्षं कुरुष्वास्य तस्माच्छीघ्रं द्विजन्मनः
॥१९॥च्यवन उवाच
यदि त्यजति मर्यादामब्धिः शैत्यं व्रजेद्रविः ॥
उष्णत्वं च क्षपानाथस्तन्मे स्यादनृतं वचः
॥१९॥तच्छ्रुत्वा वचनं तस्य स्वयमेव पितामहः ॥
तत्रायातः स्थितो यत्र स पौत्रः सर्परूपधृक्
॥२०॥प्रोवाच न विषादस्ते पुत्र कार्यः कथंचन ॥
यत्सर्पत्वमनुप्राप्तः शृणुष्वात्र वचो मम
॥२१॥पुरा संस्रष्टुकामोऽहं नागानां नवमं कुलम् ॥
तद्भविष्यति त्वत्पार्श्वात्समर्यादं धरातले
॥२२॥मन्त्रौषधियुजां पुंसां न पीडामाचरिष्यति ॥
संप्राप्स्यति परां पूजां समस्ते जगतीतले
॥२३॥अत्राऽस्ति सुशुभं तोयं हाटकेश्वरसंज्ञिते ॥
क्षेत्रे तत्र समावासः पुत्र कार्यस्त्वया सदा
॥२४॥तत्रस्थस्य तपस्थस्य नागः कर्कोटको निजम् ॥
तव दास्यति सत्कन्यां ततः सृष्टिर्भविष्यति
॥२५॥नवमस्य कुलस्यात्र समर्यादस्य भूतले ॥
श्रावणे कृष्णपक्षे तु संप्राप्ते पंचमीदिने
॥२६॥संप्राप्स्यति परां पूजां पृथिव्यां नवमं कुलम् ॥
अद्यप्रभृति तत्तोयं नागतीर्थमिति स्मृतम्
॥२७॥ख्यातिं यास्यति भूपृष्ठे सर्वपातकनाशनम् ॥
येऽत्र स्नानं करिष्यंति संप्राप्ते पंचमीदिने
॥२८॥न तेषां वत्सरंयावद्भविष्यत्यहिजं भयम् ॥
विषार्द्दितस्तु यो मर्त्यस्तत्र स्नानं करिष्यति
॥२९॥तत्क्षणान्निर्विषो भूत्वा संप्राप्स्यति परं सुखम् ॥
पुत्रकामा तु या नारी पंचम्यां भास्करोदये
॥३॥करिष्यति तथा स्नानं फलहस्ता प्रभक्तितः ॥
भविष्यति च सा शीघ्रं वंध्याऽपि च सुपुत्रिणी
॥३१॥सूत उवाच
एवं प्रवदतस्तस्य ब्रह्मणोऽव्यक्तजन्मनः ॥
अन्ये नागाः समायातास्तत्र यज्ञे निमंत्रिताः
॥३२॥वासुकिस्तक्षकश्चैव पुण्डरीकः कृशोदरः ॥
कम्बलाश्वतरौ नागौ शेषः कालिय एव च
॥३३॥ते प्रणम्य वचः प्रोचुः प्रोच्चैर्देवं पितामहम् ॥
तवादेशाद्वयं प्राप्ता यज्ञेऽत्र प्रपितामह
॥३४॥साहाय्यार्थं तदादेशो दीयतां प्रपितामह ॥
येन कुर्मो वयं शीघ्रं नागराज्ये ह्यधिष्ठिताः
॥३५॥ब्रह्मोवाच
साहाय्यमेतदस्माकं भवदीयं महोरगाः ॥
गत्वानेन समं शीघ्रं नागराजेन तिष्ठत
॥३६॥नागतीर्थे ततः स्थेयं सर्वैस्तत्र समास्थितैः
॥३७॥यः कश्चिन्मम यज्ञेऽत्र दुष्टभावं समाश्रितः ॥
समागच्छति विघ्नाय रक्षणीयः स सत्वरम्
॥३८॥राक्षसो वा पिशाचो वा भूतो वा मानुषोऽपि वा ॥
एतत्कृत्यतमं नागा मम यज्ञस्य रक्षणम्
॥३९॥तथा यूयमपि प्राप्ते मासि भाद्रपदे तथा ॥
पंचम्यां कृष्णपक्षस्य तत्र पूजामवाप्स्यथ
॥४०॥सूत उवाच
बाढमित्येव ते प्रोच्य प्रणिपत्य पितामहम् ॥
सनातनसुतोपेता नागतीर्थं समाश्रिताः ॥
४१ ततःप्रभृति तत्तीर्थं नागतीर्थ मिति स्मृतम् ॥
कामप्रदं च भक्तानां नराणां स्नानकारिणाम्
॥४२॥यस्तत्र कुरुते स्नानं सकृद्भक्त्या समन्वितः ॥
नान्वयेऽपि भयं तस्य जाय ते सर्पसंभवम्
॥४३॥तत्र यच्छति मिष्टान्नं द्विजानां सज्जनैः सह ॥
पूजयित्वा तु नागेंद्रान्सनातनपुरःसरान्
॥४४॥सप्तजन्मांतरं यावन्न स दौःस्थ्यमवाप्नुयात् ॥
भूतप्रेतपिशाचानां शाकिनीनां विशेषतः ॥
न च्छिद्रं न च रोगाश्च नाधयो न रिपोर्भयम्
॥४५॥यश्चैतच्छृणुयाद्भक्त्या वाच्यमानं द्विजोत्तमाः ॥
सोऽपि संवत्सरं यावत्पन्नगैर्न च पीड्यते
॥४६॥सर्पदष्टस्य यस्यैतत्पुरतः पठ्यते भृशम् ॥
नागतीर्थस्य माहात्म्यं काल दष्टोऽपि जीवति
॥४७॥पुस्तके लिखितं चैतन्नागतीर्थसमुद्भवम् ॥
माहात्म्यं तिष्ठते यत्र न सर्पस्तत्र तिष्ठति
॥४८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागतीर्थोत्पत्तिमाहात्म्यवर्णनंनाम त्र्यशीत्युत्तरशततमोऽध्यायः ॥ १८३ ॥