मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ३

3
नागरखण्डः · 3

हरिश्चन्द्रराज्योपलंभः

सूत उवाच

ततः प्रणम्य भूयः स वसिष्ठं मुनिपुंगवम्।

ययौ तत्र सुतास्तस्य यत्र ते शतसंख्यकाः

॥१॥

तानपि प्राह नत्वा स तमेवार्थं नराधिपः।

वसिष्ठवचनं कृत्स्नं तस्य तैरपि शंसितम्

॥२॥

ततस्तान्स पुनः प्राह युष्माकं जनकोऽधुना।

अशक्तो मा दिवं नेतुं सशरीरं विसर्जितः

॥३॥

तस्माद्यदि न मां यूयं याजयिष्यथ सांप्रतम्।

परित्यज्य करिष्यामि शीघ्रमन्यं पुरोहितम्

॥४॥

यो मां यज्ञप्रभावेन नयिष्यति सुरालयम्।

अनेनैव शरीरेण सहितं गुरुपुत्रकाः

॥५॥

तस्य तद्वचनं श्रुत्वा सर्वे ते मुनिसत्तमाः।

परं कोपं समाविष्टास्तमूचुः परुषाक्षरैः

॥६॥

यस्मात्त्वया गुरुस्त्यक्तो हितकृत्पापवानसि।

तस्माद्भवाधुना पाप चंडालो लोकनिंदितः

॥७॥

अथ तद्वचनांते स तत्क्षणात्पृथिवीपतिः।

बभूवांत्यजरूपाढ्यो विकृताकारदेहभृत्

॥८॥

यवमध्यः कृशग्रीवः पिंगाक्षो भुग्ननासिकः।

कृष्णांगः शंकुवर्णश्च दुर्गंधेन समावृतः

॥९॥

अथात्मानं समालोक्य विकृतं स नराधिपः।

चण्डालधर्मिणं सद्यो लज्जयाऽधोमुखः स्थितः

॥१०॥

याहियाहीति विप्रैस्तैर्भर्त्स्यमानो मुहुर्मुहुः।

सर्वतः सारमेयैश्च क्लिश्यमानो निरर्गलैः।

काककोकिलसंकाशो जीर्णवस्त्रावगुंठितः

॥११॥

ततः स चिन्तयामास दुःखेन महता वृतः।

किं करोमि क्व गच्छामि कथं शांतिर्भविष्यति

॥१२॥

किं मयैतत्सुमूर्खेण वांछितं दुर्लभं पदम्।

तत्प्रभावेन विभ्रष्टः कुलधर्मोऽपि मे स्वकः

॥१३॥

किं जलं प्रविशाम्यद्य किं वा दीप्तं हुताशनम्।

भक्षयामि विषं किं वा कथं स्यान्मृत्युरद्य मे

॥१४॥

अनेन वपुषा दारान्वीक्षयिष्यामि तान्कथम्।

तादृशेन शरीरेण याभिः संक्रीडितं मया

॥१५॥

कथं पुत्रांस्तथा पौत्रान्सुहृत्संबंधिबांधवान्।

वीक्षयिष्यामि तान्भूयस्तथान्यं सेवकं जनम्

॥१६॥

ये मया निर्जिताः सर्वे रिपवः संगरे पुरा

॥१५॥

तेऽद्य मामीदृशं श्रुत्वा हर्षं यास्यंति निर्भयाः

॥१७॥

ये मया तर्पिता दानैर्ब्राह्मणा वेदपारगाः।

तेऽद्य मामीदृशं श्रुत्वा संभविष्यंति दुःखिताः

॥१८॥

तथा ये सुहृदोऽभीष्टा नित्यं मम हिते रताः।

कामवस्थां प्रयास्यन्ति दृष्ट्वा मां स्थितमीदृशम्

॥१९॥

भद्रजात्या गजा ये मे मदान्धाः षष्टिहायनाः।

मया विना मिथो युद्धे कस्तानद्य नियोक्ष्यति

॥२०॥

अश्वास्तित्तिरकल्माषाः सुदांताः सादिभिर्दृढैः।

कस्तांश्चित्रपदन्यासैर्नियाम्यति मया विना

॥२१॥

तथा मे भृत्यवर्गास्ते कुलीना युद्धदुर्मदाः।

मां विना कस्य यास्यंति समीपेऽद्य सुदुःखिताः

॥२२॥

संख्याहीनस्तथा कोशस्तादृङ्मे बहुरत्नभाक्।

कस्य यास्यति संभोगं मया हीनस्तु रक्षितः

॥२३॥

तथा मे संख्यया हीनं धान्यं गोजाविकं महत्।

भविष्यति कथं हीनं मयाभीष्टैस्तु रक्षितम्

॥२४॥

एवं बहुविधं राजा स विलप्य च दुःखितः।

जगाम नगराभ्याशं पद्भ्यामेव शनैःशनैः

॥२५॥

ततो रात्रौ समासाद्य स्वं पुरं जनवर्जितम्।

द्वारे स्थित्वा समाहूय पुत्रं मंत्रिभिरन्वितम्

॥२६॥

कथयामास वृत्तांतं सर्वं शापसमुद्भवम्।

दूरे स्थितः स पुत्राणां वसिष्ठस्य महात्मनः

॥२७॥

वज्रपातोपमं वाक्यं तेऽपि तस्य निशम्य तत्।

बाष्पपर्याकुलैरास्यै रुरुदुः शोकसंयुताः

॥२८॥

हा नाथ हा महाराज हा नित्यं धर्मवत्सल।

त्वया हीना भविष्यामः कथमद्य सुदुःखिताः

॥२९॥

किमेतद्युज्यते तेषां वासिष्ठानां दुरात्मनाम्।

शापं ददुः स्वयाज्यस्य विशेषाद्विनतस्य च

॥३०॥

ते वयं राजशार्दूल परित्यज्य गृहादिकम्।

अन्त्यजत्वं गमिष्यामस्त्वया सार्धमसंशयम्

॥३१॥

त्रिशंकुरुवाच

भक्तिश्चेदस्ति युष्माकं ममोपरि निरर्गल।

तन्मे पुत्रस्य मंत्रित्वं सर्वे कुरुत सांप्रतम्

॥३२॥

हरिश्चंद्रः सुपुत्रोयं मम ज्येष्ठः सुवल्लभः।

नियोजयध्वमव्यग्राः पदव्यां मम सत्वरम्

॥३३॥

अहं पुनः करिष्यामि यन्मे मनसि संस्थितम्।

मृत्युं वा संप्रयास्यामि सदेहो वा सुरालयम्

॥३४॥

एवमुक्त्वा परित्यज्य सर्वांस्तान्स महीपतिः।

जगामारण्यमाश्रित्य पद्भ्यामेव शनैः शनैः

॥३५॥

तेपि सन्मंत्रिणस्तूर्णं पुत्रं तस्य सुसम्मतम्।

राज्ये नियोजयासमासुर्नादवादित्रनिःस्वनैः

॥३६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये त्रिशंकूपाख्याने हरिश्चन्द्रराज्योपलंभोनाम तृतीयोऽध्यायः ॥ ३ ॥