मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १९१

3
नागरखण्डः · 191

सूतपुत्र त्वया प्रोक्तं सावित्री नागता च यत्

ऋषय ऊचुः

सूतपुत्र त्वया प्रोक्तं सावित्री नागता च यत् ॥

कौटिल्येन समायुक्तैराहूता वचनैस्तथा ॥

पुलस्त्येन पुनश्चैव प्रसक्ता गृहकर्मणि

॥१॥

ततस्तु ब्रह्मणा कोपाद्गायत्री च समाहृता ॥

देवैर्विप्रेश्चे साऽतीव शंसिता भार्यतां गता

॥२॥

सावित्री च कथं जाता तां ज्ञात्वा यज्ञमण्डपे ॥

पत्नीशालां प्रविष्टां च सर्वं नो विस्तराद्वद

॥३॥

सूत उवाच

सावित्री वशगं कांतं ज्ञात्वा विश्वासमागता ॥

स्थिरा भूत्वा तदा सर्वा देवपत्नीः समानयत्

॥४॥

गौरी लक्ष्मीः शची मेधा तथा चैवाप्यरुन्धती ॥

स्वधा स्वाहा तथा कीतिर्बुद्धिः पुष्टिः क्षमा धृतिः ॥

तथा चान्याश्च बहवो ह्यप्सरोभिः समन्विताः

॥५॥

घृताची मेनका रंभा उर्वशी च तिलोत्तमा ॥

अप्सराणां गणाः सर्वे समाजग्मुर्द्विजोत्तमाः

॥६॥

सा ताभिः सहिता देवीपूर्णहस्ताभिरेव च ॥

संप्रहृष्टमनोभिश्च प्रस्थिता मण्डपं प्रति

॥७॥

वाद्यमानेषु वाद्येषु गीतध्वनियुतेषु च ॥

गन्धर्वाणां प्रमुख्यानां किन्नराणां विशेषतः

॥८॥

प्रस्थिता सा महाभागा यावत्तद्यज्ञमण्डपम् ॥

तावत्तस्यास्तदा चक्षुः प्रास्फुरद्दक्षिणं मुहुः

॥९॥

अपसव्यं मृगाश्चक्रुस्तथान्येऽपि खगादयः ॥

विपर्यस्तेन संयाति शब्दान्कुर्वंति चासकृत्

॥१०॥

दक्षिणानि तथाऽङ्गानि स्फुरमाणानि वै मुहुः ॥

तस्या मनसि संक्षोभं जनयति निरर्गलम्

॥११॥

ताश्च देवस्त्रियः सर्वा नृत्यंति च हसंति च ॥

गायंति च यथोत्साहं तस्याः पार्श्वे व्यवस्थिताः

॥१२॥

न जानंति च संक्षोभं तथा शकुनजं हृदि ॥

अन्योन्यस्पर्द्धया सर्वा गीतनृत्यपरायणाः

॥१३॥

अहंपूर्वमहंपूर्वं प्रविशामि महामखे ॥

इत्यौत्सुक्यसमोपेतास्ता गच्छंति तदा पथि

॥१४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सावित्र्या यज्ञागमनकालिकोत्पाताद्यपशकुनोद्भववर्णनंनामैकनवत्युत्तरशततमोऽध्यायः ॥ १९१ ॥