देवैश्चित्रेश्वरपीठनामपूर्वकवरप्रदानवर्णनम्
सूत उवाच
एवं तेषु प्रभग्नेषु हतेषु च सुरोत्तमाः ॥
प्रहृष्टमनसः सर्वे स्तुत्वा देवं महेश्वरम्
॥१॥तेनैव चाथ निर्मुक्ताः प्रणम्य च मुहुर्मुहुः ॥
स्वंस्वं स्थानमथाजग्मुः शक्रविष्णुपुरःसराः
॥२॥तेऽपि दानवशार्दूला हताशाश्च सुरोत्तमैः ॥
मंत्रं प्रचक्रिरे सर्वे नाशाय त्रिदिवौकसाम्
॥३॥तेषां मंत्रयतामेष निश्चयः समपद्यत ॥
नान्यत्र धर्मविध्वंसाद्देवानां जायते क्षयः
॥४॥तस्मात्तपस्विनो यै च ये च यज्ञपरायणाः ॥
तथान्ये निरता धर्मे निहन्तव्या निशागमे
॥५॥एवं ते निश्चयं कृत्वा निष्क्रम्य वरुणालयात् ॥
रात्रौ सदैव निघ्नंति जनान्धर्मपरायणान्
॥६॥यत्र यत्र भवेद्यज्ञः सत्रं ऽप्युत्सवोऽथवा ॥
तत्र गत्वा निशायोगे प्रकुर्वंति जनक्षयम्
॥७॥तैः प्रसूता मखा ध्वस्ता दीक्षिता विनिपातिताः ॥
ऋत्विजश्च तथान्येऽपि सामान्या द्विजसत्तमाः ॥
आश्रमे मुनिमुख्यस्य शांडिल्यस्य महात्मनः ॥
सहस्रं ब्राह्मणेंद्राणां भक्षितं तैर्दुरात्मभिः.
॥९॥शतानि च सहस्राणि निहतानि द्विजन्मनाम् ॥
विश्वामित्रस्य पञ्चैव सप्तात्रेश्चैव धीमतः
॥१०॥एतस्मिन्नेव काले तु समस्तं धरणीतलम् ॥
नष्टयज्ञोत्सवं जातं कालेयभयपीडितम्
॥११॥न कश्चिच्छयनं रात्रौ प्रकरोति मही तले ॥
धृतायुधा जनाः सर्वे तिष्ठंति सह तापसैः
॥१२॥रात्रौ स्वपंति ये केचिद्विश्वस्ता धर्मभाजनाः ॥
तेषामस्थीनि दृश्यंते प्रातरेव हि केवलम्
॥१३॥अथ देवगणाः सर्वे यज्ञभागविनाकृताः ॥
प्रजग्मुः परमामार्ति ब्रह्मविष्णुपुरस्सराः
॥१४॥ततो गत्वा समुद्रांतं वधाय सुरविद्विषाम् ॥
न शेकुर्विषमस्थांस्तान्मनसापि प्रधर्षितुम्
॥१५॥ततः समुद्रनाशाय मंत्रं चक्रुः सुदुःखिताः ॥
तस्मिन्नष्टे भवन्त्येव वध्या दानवसत्तमाः
॥१६॥अगस्त्येन विना नैष शोषं यास्यति सागरः ॥
तस्मात्संप्रार्थयामोत्र कृत्ये गत्वा मुनीश्वरम्
॥१७॥चमत्कारपुरे क्षेत्रे स तिष्ठति च सन्मुनिः ॥
तस्मात्तत्रैव गच्छामो येन गच्छति सत्वरम्
॥१८॥एवं निश्चित्य ते सर्वे त्रिदशास्तस्य चाश्रमम् ॥
संप्राप्ता मुनिमुख्यस्य मित्रावरुण जन्मनः
॥१९॥सोऽपि सर्वान्समालोक्य संप्राप्तान्सुरसत्तमान् ॥
प्रहृष्टः सम्मुखस्तूर्णं जगामातीव सन्मुनिः
॥२०॥प्रोवाच प्रांजलिर्वाक्यं हर्ष गद्गदया गिरा ॥
ब्रह्मादींस्तान्सुरान्दृष्ट्वा विस्मयोत्फुल्ललोचनः
॥२१॥चमत्कारपुरं क्षेत्रमेतन्मेध्यमपि स्थितम् ॥
भूयो मेध्यतरं जातं युष्माकं हि समाश्रयात्
॥२२॥तस्माद्वदत यत्कृत्यं मया संसिद्ध्यतेऽधुना ॥
तत्सर्वं प्रकरिष्यामि यद्यपि स्यात्सुदुष्करम्
॥२३॥देवा ऊचुः
कालेया इति दैत्या ये हतशेषाः सुरैः कृताः ॥
ते समुद्रं समाश्रित्य निघ्नंति शुभकारिणः
॥२४॥शुभे नाशमनुप्राप्ते ध्रुवं नाशो दिवौकसाम् ॥
तस्मात्तेषां वधार्थाय त्वं शोषय महार्णवम्
॥२५॥येन ते गोचरं प्राप्ता दृष्टेर्दानवसत्तमाः ॥
बध्यंते विबुधैः सर्वे जायंते च मखा इह
॥२६॥अगस्त्य उवाच
अहं संवत्सरस्यांते शोषयिष्यामि सागरम् ॥
विद्याबलं समाश्रित्य योगिनीनां सुरोत्तमाः
॥२७॥तस्माद्व्रजत हर्म्याणि यूयं याति हि वत्सरम् ॥
यावद्भूयोऽपि वर्षांते कार्यमागमनं ध्रुवम्
॥२८॥ततो मया समं गत्वा शोषिते वरुणालये ॥
हंतव्या दानवा दुष्टा हन्त यैः पीड्यते जगत्
॥२९॥ततो देवगणाः सर्वे गताः स्वेस्वे निकेतने ॥
अगस्त्योऽपि समुद्योगं चक्रे विद्यासमुद्भवम्
॥३०॥ततः सर्वाणि पीठानि यानि संति धरातले ॥
तानि तत्रानयामास मंत्रशक्त्या महामुनिः
॥३१॥अष्टम्यां च चतुर्दश्यां तेषु संपूज्य भक्तितः ॥
योगिनीनां च वृन्दानि कन्यकानां विशेषतः
॥३२॥विद्यां विशोषिणीनाम समाराधयत द्विजः ॥
पूजयित्वा दिशां पालान्क्षेत्रपालानपि द्विजः ॥
आकाशचारिणीं चैव देवतां श्रद्धया द्विजः
॥३३॥ततः संवत्सरस्यांते प्रसन्ना तस्य देवता ॥
प्रोवाच वद यत्कृत्यं सिद्धाहं तव सन्मुने
॥३४॥अगस्त्य उवाच
यदि देवि प्रसन्ना मे तदास्यं विश सत्वरम् ॥
येन संशोषयाम्याशु समुद्रं देवि वाग्यतः
॥३५॥सा तथेति प्रतिज्ञाय प्रविष्टा सत्वरं मुखे ॥
संशोषणी महाविद्या तस्यर्षेर्भावितात्मनः
॥३६॥एतस्मिन्नंतरे प्राप्ताः सर्वे देवाः सवासवाः ॥
धृतायुधकरा हृष्टाः संनद्धा युद्धहेतवे
॥३७॥ततः संप्रस्थितो विप्रो देवैः सर्वैः समाहितः ॥
वारिराशिं समुद्दिश्य संशुष्कवदनस्तदा
॥३८॥अथ गत्वा समुद्रांतं स्तूयमानो दिवालयैः ॥
पिपासाकुलितोऽतीव सर्वान्देवानुवाच ह
॥३९॥एषोऽहं सागरं सद्यः शोषयिष्यामि सांप्रतम् ॥
यूयं भवत सोद्योगा वधाय सुरविद्विषाम्
॥४०॥सूत उवाच
एवमुक्त्वा मुनिः सोऽथ मत्स्यकच्छपसंकुलम् ॥
हेलया प्रपपौ कृत्स्नं ग्राहैः कीर्णं महार्णवम्
॥४१॥ततः स्थलोपमे जाते ते दैत्याः सुरसत्तमैः ॥
वध्यन्ते निशितैर्बाणैः समन्ताद्विजिगीषुभिः
॥४२॥अथ कृत्वा महद्युद्धं यथा शक्त्यातिदारुणम् ॥
हतभूयिष्ठशेषा ये भित्त्वा भूमिं गता अधः
॥४३॥ततः प्रोचुः सुराः सर्वे स्तुत्वा तं मुनिसत्तमम् ॥
परित्यज जलं भूयः पूरणार्थं महोदधेः
॥४४॥नैषा वसुमती विप्र समुद्रेण विनाकृता ॥
राजते वस्तुसंत्यक्ता यथा नारी विभूषिता
॥४५॥अगस्त्य उवाच
या मयाऽऽराधिता विद्या वर्षंयावत्प्रशोषणी ॥
तया पीतमिदं तोयं परिणामगतं तथा
॥४६॥एष यास्यति वै पूर्तिं भूयोऽपि वरुणालयः ॥
खातश्चागाधतां प्राप्तो गंगातोयैः सुनिर्मलैः
॥४७॥सगरोनाम भूपालो भविष्यति महीतले ॥
तत्पुत्राः षष्टिसाहस्राः खनिष्यंति न संशयः
॥४८॥तस्यैवान्वयवान्राजा भविष्यति भगीरथः ॥
स ज्ञातिकारणाद्गंगां ब्रह्मांडादानयिष्यति
॥४९॥प्रवाहेण ततस्तस्याः समंतादंभसांनिधिः ॥
भविष्यति सुसंपूर्णः सत्यमेतन्मयोदितम्
॥५०॥देवा ऊचुः
देवकृत्यं मुनिश्रेष्ठ भवता ह्युपपादितम् ॥
तस्मात्प्रार्थय चित्तस्थं वरं सर्वं मुनीश्वर
॥५१॥अगस्त्य उवाच
चमत्कारपुरे क्षेत्रे मया पीठान्यशेषतः ॥
आनीतानि प्रभावेन मंत्राणां सुरसत्तमाः
॥५२॥तस्मात्तेषां सदा वासस्तत्रैवास्तु प्रभावतः ॥
सर्वासां योगिनीनां च मातॄणां च विशेषतः
॥५३॥अष्टम्यां च चतुर्दश्यां तानि यः श्रद्धयाऽन्वितः ॥
पूजयिष्यति तस्य स्यात्समस्तं मनसेप्सितम्
॥५४॥देवा ऊचुः
यस्माच्चित्राणि पीठानि त्वयानीतानि तत्र हि ॥
तस्माच्चित्रेश्वरं नाम पीठमेकं भविष्यति
॥५५॥यो यं काममभिध्याय तत्र पूजां करिष्यति ॥
योगिनीनां च विद्यानां मातॄणां च विशेषतः
॥५६॥तंतं कामं नरः शीघ्रं संप्राप्स्यति महामुने ॥
अस्माकं वरदानेन यद्यपि स्यात्सुपापकृत्
॥५७॥एवमुक्त्वा सुराः सर्वे तमामन्त्र्य मुनीश्वरम् ॥
गतास्त्रिविष्टपं हृष्टाः सोऽप्यगस्त्यः स्वमाश्रमम्
॥५८॥सूत उवाच
एतद्वः सर्वमाख्यातं यथा स पयसांनिधिः ॥
अगस्त्येन पुरा पीतो देवकार्यप्रसिद्धये
॥५९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽगस्त्यकृतसमुद्र प्राशनवृत्तांतेऽगस्त्याहूतपीठसमूहस्य देवैश्चित्रेश्वरपीठनामपूर्वकवरप्रदानवर्णनंनाम पञ्चत्रिंशत्तमोऽध्यायः ॥ ३५ ॥