मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १४७

3
नागरखण्डः · 147

तथान्योऽपि च तत्रास्ति देवः पुत्रप्रदो नृणाम्

सूत उवाच

तथान्योऽपि च तत्रास्ति देवः पुत्रप्रदो नृणाम् ॥

वटिकेश्वर नामा च सर्वपापहरो हरः

॥१॥

यस्मिन्वटिकया पूर्वं तपस्तप्तं द्विजोत्तमाः ॥

प्राप्ता पुत्रं शुके याते वनं व्यासात्कपिंजलम्

॥२॥

ऋषय ऊचुः

कस्यासौ वटिका तत्र कथं तप्तवती तपः ॥

कस्माद्गृहं परित्यक्त्वा शुकोऽपि वनमाश्रितः

॥३॥

कथं कपिजलं पुत्रं व्यासाल्लेभे शुचिस्मिता

॥४॥

सूत उवाच

आसीद्व्यासस्य विप्रेंद्राः कलत्रार्थं मतिः क्वचित् ।

निष्कामस्य प्रशांतस्य सर्वज्ञस्य महात्मनः

॥५॥

ततः क्षयमनुप्राप्ते वंशे कुरुसमुद्भवे ॥

विचित्रवीर्यमासाद्य पार्थिवं द्विजसत्तमाः

॥६॥

सत्यवत्याः समादेशात्तस्य क्षेत्रे ततः परम् ॥

स पुत्राञ्जनयामास त्रीञ्छूरान्पांडुपूर्वकान्

॥७॥

वानप्रस्थव्रते तिष्ठन्सकृन्मैथुनतत्परः ॥

क्षेत्रजैस्तनयैर्वंशे कुरोस्तस्मादुपस्थिते

॥८॥

ततः स चिंतयामास भार्यामद्य करोम्यहम् ॥

गार्हस्थ्येनाथ धर्मेण साधयामि शुभां गतिम्

॥९॥

ततः स प्रार्थयामास जाबालिं तु सुतां शुभाम् ॥

वटिकाख्यां शुभां कन्यां स ददौ तस्य सत्वरम्

॥१०॥

ततस्तया समेतः स वनवासं समाश्रितः ॥

वानप्रस्थाश्रमे तिष्ठन्कृतमैथुनतत्परः

॥११॥

ततो गर्भवती जज्ञे पिंजला तस्य पार्श्वतः ॥

ऋतौ मोहनमासाद्य व्यासात्सत्यवतीसुतात्

॥१२॥

अथ याति परां वृद्धिं स गर्भस्तत्र संस्थितः ॥

उदरे व्यासभार्यायाः शुक्लपक्षे यथा शशी

॥१३॥

एवं संगच्छतस्तस्य वृद्धिं गर्भस्य नित्यशः ॥

द्वादशाब्दा अतिक्रांता न जन्म समवाप्नुयात्

॥१४॥

यत्किंचिच्छृणुते तत्र गर्भस्थोऽहि वचः क्वचित् ॥

तत्सर्वं हृदिसंस्थं च चक्रे प्रज्ञासमन्वितः

॥१५॥

वेदाः सांगाः समाधीता गर्भवासेऽपि तेन च ॥

स्मृतयश्च पुराणानि मोक्षशास्त्राणि कृत्स्नशः

॥१६॥

तत्रस्थोऽपि दिवा नक्तं स्वाध्यायं प्रकरोति सः ॥

न च जन्मोत्थजां बुद्धिं कथंचिदपि चिंतयेत्

॥१७॥

सापि माता परा पीडां नित्यं याति तथाकुला ॥

यथायथा स संयाति वृद्धिं जठरमाश्रितः

॥१८॥

ततश्च विस्मयाविष्टो व्यासो वचनमब्रवीत् ॥

कस्त्वं मद्गृहिणीकुक्षौ प्रविष्टो गर्भरूपधृक्

॥१९॥

न निष्क्रामसि कस्मात्त्वं किमेतां सूदयिष्यसि ॥

गर्भ उवाच ॥

राक्षसोऽहं पिशाचोहं देवोऽहं मानुषस्तथा

॥२॥

गजोऽहं तुरगश्चापि कुक्कुटश्छाग एव च ॥

योनीनां चतुराशीतिसहस्राणि च संख्यया

॥२१॥

भ्रांतोऽहं तेषु सर्वेषु तत्कोऽहं प्रब्रवीमि किम् ॥

सांप्रतं मानुषो भूत्वा जठरं समुपाश्रितः

॥२२॥

मानुषं न करिष्यामि निष्कामं च कथंचन ॥

निर्विष्टो भ्रममाणोऽत्र संसारे दारुणे ततः

॥२३॥

अत्रस्थो भवनिर्मुक्तो योगाभ्यासरतः सदा ॥

मोक्षमार्गं प्रयास्यामि स्थानान्मोक्षमसंशयम्

॥२४॥

तावज्ज्ञानं च वैराग्यं पूर्वजातिस्मृतिर्यथा ॥

यावद्गर्भस्थितो जन्तुः सर्वोऽपि द्विजसत्तम

॥२५॥

यदा गर्भाद्विनिष्क्रांतः स्पृश्यते विष्णुमायया ॥

तदा नाशं व्रजत्याशु सत्यमेतदसंशयम्

॥२६॥

तस्मान्नाहं द्विजश्रेष्ठ निष्क्रमिष्ये कथंचन ॥

गर्भादस्मात्प्रयास्यामि स्थानान्मोक्षमसंशयम्

॥२७॥

व्यास उवाच

न भविष्यति ते माया वैष्णवी सा कथंचन ॥

सुघोरान्नरकादस्मान्निष्क्रमस्व विगर्हितात्

॥२८॥

गर्भवासात्ततो योगं समाश्रित्य शिवं व्रज ॥

तस्माद्दर्शय मे वक्त्रं स्वकीयं येन मे भवेत् ॥

आनृण्यं पितृलोकस्य तव वक्त्रस्य दर्शनात्

॥२९॥

गर्भ उवाच

वासुदेवं प्रतिभुवं यदि मे त्वं प्रयच्छसि ॥

इदानीं यत्स्वयं तन्मे जन्म स्यान्नान्यथा द्विज

॥३०॥

सूत उवाच

ततो व्यासो द्रुतं गत्वा द्वारकां प्रति दुःखितः ॥

कथयामास वृत्तांतं विस्तराच्चक्रपाणिने

॥३१॥

तेनैव सहितः पश्चात्स्वगृहं पुनरागतः ॥

व्यासः प्रतिभुवं तस्मै दातुं विष्णुं निरंजनम्

॥३२॥

श्रीकृष्ण उवाच

प्रतिभूरस्मि नाशाय मायायास्तव निर्गमे ॥

मद्वाक्यान्निष्क्रमं कृत्वा गच्छ मोक्षमनुत्तमम्

॥३३॥

ततो द्रुतं विनिष्क्रांतो विष्णुवाक्येन स द्विजाः ॥

द्वादशाब्दप्रमाणस्तु यौवनस्य समीपगः

॥३४॥

ततः प्रणम्य दैत्यारिं व्यासं च जननीं तथा ॥

प्रस्थितो वनवासाय तत्क्षणाद्व्यासनंदनः

॥३५॥

अथ तं स मुनिः प्राह तिष्ठ पुत्रात्ममंदिरे ॥

संस्काराञ्जातकाद्यांश्च येन ते प्रकरोम्यहम्

॥३६॥

शिशुरुवाच

संस्काराः शतशो जाता मम जन्मनिजन्मनि ॥

भवार्णवे परिक्षिप्तो यैरहं बन्धनात्मकैः

॥३७॥

श्रीभगवानुवाच

शुकवज्जल्पते यस्मात्तवायं पुत्रको मुने ॥

तस्माच्छुकोऽयं नाम्नास्तु योगविद्याविचक्षणः

॥३८॥

नायं स्थास्यति हर्म्ये स्वे मोहमायाविवर्जितः ॥

तस्माद्गच्छतु मा स्नेहं त्वं कुरुष्वास्य संभवम्

॥३९॥

अहं गृहं प्रयास्यामि त्वं मुक्तः पैतृकादृणात् ॥

दर्शनादेव पुत्रस्य सत्यमेतन्मयोदितम्

॥४०॥

एवमुक्त्वा हृषीकेशो व्यासमामंत्र्य सत्वरम् ॥

विहगाधिपमारूढः प्रययौ द्वारकां प्रति

॥४१॥

ततो गते हृषीकेशे व्यासः पुत्रमुवाच ह ॥

प्रस्थितं वनवासाय निःस्पृहं स्वगृहं प्रति

॥४२॥

व्यास उवाच

गृहस्थधर्मरिक्तानां पितृवाक्यं प्रणश्यति ॥

पितृवाक्यं तु यो मोहान्नैव सम्यक्समाचरेत् ॥

स याति नरकं तस्मान्मद्वाक्यात्पुत्र मा व्रज

॥४३॥

शुक उवाच

यथाद्याहं त्वया जातो मया त्वं चान्यजन्मनि ॥

संजातोऽसि मुनिश्रेष्ठ तथाहमपि ते पिता

॥४४॥

तस्माद्वाक्यं त्वया कार्यं यद्येषा धर्मसंस्थितिः ॥

नाहं निषेधनीयस्तु व्रजमानस्तपोवनम्

॥४५॥

व्यास उवाच

ब्राह्मणस्य गृहे जन्म पुण्यैः संप्राप्यते नृभिः ॥

संस्कारान्यत्र संप्राप्य वेदोक्तान्मुनिराप्यते

॥४६॥

शुक उवाच

संस्कारैराप्यते मुक्तिर्यदि कर्म शुभं विना ॥

पाखंडिनोऽपि यास्यंति तन्मुक्तिं व्रतधारिणः

॥४७॥

व्यास उवाच

ब्रह्मचारी भवेत्पूर्वं गृहस्थश्च ततः परम् ॥

वानप्रस्थो यतिश्चैव ततो मोक्षमवाप्नुयात्

॥४८॥

शुक उवाच

ब्रह्मचर्येण चेन्मोक्षस्तत्षण्ढानां सदा भवेत् ॥

गृहस्थाश्रमिणां चेत्स्यात्तत्सर्वं मुच्यते जगत्

॥४९॥

अथवा वनरक्तानां तन्मृगाणां प्रजायते

॥५०॥

अथवा यतिधर्माणां यदि मोक्षो भवेन्नृणाम् ॥

दरिद्राणां च सर्वेषां तन्मुक्तिः प्रथमा भवेत्

॥५१॥

व्यास उवाच

गृहस्थधर्मरक्तानां नृणां सन्मार्गगामिनाम् ॥

इह लोकः परश्चैव मनुना संप्रकीर्तितः

॥५२॥

श्रीशुक उवाच

गृहगुप्तौ सुगुप्तानां बंधानां बंधुबंधनैः ॥

मोहरागसमावेशात्सन्मार्ग गमनं कुतः

॥५३॥

व्यास उवाच

कष्टं वने निवसतोऽत्र सदा नरस्य नो केवलं निजतनुप्रभवं भवेच्च ।

दैवं च पित्र्यमखिलं न विभाति कृत्यं तस्माद्गृहे निवसतात्महितं प्रचिन्त्यम्

॥५४॥

श्रीशुकदेव उवाच

भावेन भावितमहातपसां मुनीनां तिष्ठन्ति तावदखिलानि तपःफलानि ॥

यत्ते निकाशशरणाः पुरुषा न जातु पश्यंत्यसज्जनमुखानि सुखं तदेव

॥५५॥

व्यास उवाच

गृहं परिग्रहः पुंसां गृहस्थाश्रमधर्मिणाम् ॥

इहलोके परे चैव सुखं यच्छति शाश्वतम्

॥५६॥

श्रीशुक उवाच

शीतं हुताशादपि दैवयोगात्सञ्जायते चन्द्रमसोऽपि तापः ॥

परिग्रहात्सौख्यसमुद्भवोऽत्र भूतोऽभवद्भावि न मर्त्यलोके

॥५७॥

व्यास उवाच

सुपुण्यैर्लभ्यते कृच्छ्रान्मानुष्यं भुवि दुर्लभम् ॥

तस्मिँल्लब्धे न किं लब्धं यदि स्याद्गृहधर्मवित्

॥५८॥

श्रीशुकदेव उवाच

यदि स्याज्ज्ञानसंयुक्तो जन्मकालेत्र मानवः ॥

निजावस्थां समालोक्य तज्ज्ञानं हि विलीयते

॥५९॥

व्यास उवाच

मुदितस्यापि पुत्रस्य गर्दभस्यार्भकस्य च ॥

भस्मलोलस्य लोकस्य शब्दोऽपि रटतो मुदे

॥६०॥

श्रीशुक उवाच

रसता सर्पता धूलि लोके त्वशुचिना चिरम् ॥

मुनेऽत्र शिशुना लोकस्तुष्टिं याति स बालिशः

॥६१॥

व्यास उवाच

पुंनामास्ति महारौद्रो नरको यममन्दिरे ॥

पुत्रहीनो व्रजेत्तत्र तेन पुत्रः प्रशस्यते

॥६२॥

श्रीशुक उवाच

यदि स्यात्पुत्रतः स्वर्गः सर्वेषां स्यान्महामुने ॥

शूकराणां शुनां चैव शलभानां विशेषतः

॥६३॥

व्यास उवाच

पितॄणामनृणो मर्त्यो जायते पुत्रदर्शनात् ॥

पौत्रस्यापि च देवानां प्रपौत्रस्य दिवाश्रयः

॥६४॥

शुक उवाच

चिरायुर्ज्जायते गृध्रः संततिं पश्यते निजाम् ॥

क्रमेण संततं किं न स मोक्षं प्रतिपद्यते

॥६५॥

सूत उवाच

एवमुक्त्वा परित्यज्य पितरं स वनं गतः ॥

मातरं च सुदुःखार्तां प्रलपन्तीमनेकधा

॥६६॥

तं दृष्ट्वा दुःखितो व्यासो निराशः पुत्रदर्शने ॥

पुत्रशोकाभिसंतप्तो भार्यया सहितोऽभवत्

॥६७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये व्यासशुकसंवादवर्णनंनाम सप्तचत्वारिंशदुत्तरशततमोध्यायः ॥ १४७ ॥