मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २३०

3
नागरखण्डः · 230

वृकेन्द्रराज्यलंभनवर्णनम्

सूत उवाच

एवं गणत्वमापन्ने ह्यन्धके दानवोत्तमे ॥

तस्य पुत्रो वृकोनाम निरुत्साहो द्विषज्जये

॥१॥

भयेन महता युक्तो हतशेषैश्च दानवैः ॥

प्रविवेश समुद्रांतं सुदुर्गं ब्राह्मणोत्तमाः

॥२॥

ततः शक्रः प्रहृष्टात्मा प्रणम्य वृषभध्वजम् ॥

तस्यादेशं समासाद्य प्रविवेशामरावतीम्

॥३॥

चकार च सुखी राज्यं त्रैलोक्येऽपि द्विजोत्तमाः ॥

यज्ञभागान्पुनर्लेभे यथार्थं च धरातले

॥४॥

एतस्मिन्नेव काले तु ह्यंधकस्य सुतो वृकः ॥

निष्क्रम्य सागरात्तूर्णं जंबुद्वीपं समागतः

॥५॥

हाटकेश्वरजं क्षेत्रं मत्वा पुण्यं सुसिद्धिदम् ॥

पित्रा यत्र तपस्तप्तमंधकेन दुरात्मना

॥६॥

सगुप्तस्तु तपस्तेपेऽयथा वेत्ति न कश्चन ॥

ध्यायमानः सुरश्रेष्ठं भक्त्या कमलसंभवम्

॥७॥

यावद्वर्षसहस्रांतं जलाहारो द्वितीयकम् ॥

तपस्तेपे स दैत्येन्द्रो ध्यायमानः पितामहम्

॥८॥

वायुभक्षस्ततो जातस्तावत्कालं द्विजोत्तमाः ॥

अंगुष्ठाग्रेण भूपृष्ठं स्पर्शमानो जितेन्द्रियः

॥९॥

एवं च पञ्चमे प्राप्ते सहस्रे द्विजसत्तमाः ॥

ब्रह्मा तस्य गतस्तुष्टिं दृष्ट्वा तस्य तपो महत्

॥१०॥

ततोऽब्रवीत्तमागत्य तां गर्तां ब्राह्मणोत्तमाः ॥

भोभो वृक निवर्तस्व तपसोऽस्मात्सुदारुणात्

॥११॥

वरं वरय भद्रं ते यो नित्यं मन सि स्थितः

॥१२॥

वृक उवाच

यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥

जरामरणहीनं मां तत्कुरुष्व पितामह

॥१३॥

श्रीब्रह्मोवाच

मम प्रसादतो वत्स जरामरणवर्जितः ॥

भविष्यसि न सन्देहः सत्यमेतन्मयोदितम्

॥१४॥

एवमुक्त्वा ततो ब्रह्मा तत्रैवांतरधी यत ॥

वृकोऽपि कृतकृत्यस्त्वागतश्च स्वगृहं पितुः

॥१५॥

गिरिं रैवतकं नाम सर्वर्तुकुसुमोज्ज्वलम् ॥

तत्र गत्वा निजामात्यैः समं मन्त्र्य च सत्व रम् ॥

इन्द्रोपरि ततश्चक्रे यानं युद्धपरीप्सया

॥१६॥

इंद्रोऽपि च परिज्ञाय दानवं तं महाबलम् ॥

जरामृत्युपरित्यक्तं प्रभावात्परमेष्ठिनः

॥१७॥

परित्यज्य भयाच्चैव पुरीं चैवामरावतीम् ॥

ब्रह्मलोकं गतस्तूर्णं देवैः सर्वैः समन्वितः

॥१८॥

एतस्मिन्नंतरे प्राप्तो वृकश्च त्रिदशालये ॥

ससैन्यपरिवारेण प्रहृष्टेन समन्वितः

॥१९॥

ततश्चैंद्रपदे तस्मिन्स्वयमेव व्यवस्थितः ॥

शुक्रात्प्राप्याभिषेकं च पुष्पस्नानसमुद्भवम्

॥२०॥

सोऽभिषिक्तस्तु शुक्रेण देवराज्यपदे वृकः ॥

स्थापयामास दैतेयान्देवतानां पदेषु च

॥२१॥

आदित्यानां वसूनां च रुद्राणां मरुतामपि ॥

यज्ञभागकृते विप्राः शुक्रशासनमाश्रिताः

॥२२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्याने वृकेन्द्रराज्यलंभनवर्णनंनाम त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३० ॥