मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ४८

3
नागरखण्डः · 48

तत्रैवास्य समुद्देशे हरिश्चंद्रस्य भूपतेः

सूत उवाच

तत्रैवास्य समुद्देशे हरिश्चंद्रस्य भूपतेः ॥

आश्रमो ऽस्ति सुविख्यातो नानाद्रुमसमावृतः

॥१॥

यत्र तेन तपस्तप्तं संस्थाप्योमामहेश्वरौ ॥

यच्छता विविधं दानं ब्राह्मणेभ्योऽभिवांछितम्

॥२॥

आसीद्राजा हरिश्चंद्रस्त्रिशंकुतनयः पुरा ॥

अयोध्याधिपतिः श्रीमान्सूर्यवंशसमुद्भवः

॥३॥

न दुर्भिक्षं न च व्याधिर्नाकालमरणं ध्रुवम् ॥

तस्मिञ्छासति धर्मेण न च चौरकृतं भयम्

॥४॥

कालवर्षी सदा मेघः सस्यानि प्रचुराणि च ॥

रसवंति च तोयानि सर्वर्तुफलिता द्रुमाः

॥५॥

२ दंडस्तत्राभवद्वास्तौ गृहरोधोऽक्षदेवने ॥

एको दोषाकरश्चंद्रः प्रियदोषाश्च कौशिकाः

॥६॥

स्नेहक्षयश्च दीपेषु विवाहे च करग्रहः ॥

वृत्तभंगस्तथा गद्ये दानोत्थितिर्गजानने

॥७॥

तस्यैवं गुणयुक्तस्य सार्वभौमस्य भूपतेः ॥

एक एव महानासीद्दोषः पुत्रविवर्जितः

॥८॥

ततः पुत्रकृते गत्वा चकार सुमहत्तपः ॥

चमत्कारपुरे क्षेत्रे लिंगं संस्थाप्य भक्तितः

॥९॥

पंचाग्निसाधको ग्रीष्मे वर्षास्वाकाशसंस्थितः ॥

जलाश्रयश्च हेमंते स ध्यायति महेश्वरम्

॥१०॥

ततो वर्षसहस्रांते तस्य तुष्टो महेश्वरः ॥

प्रत्यक्षोऽभूत्समं गौर्या गणसंघैः समावृतः

॥११॥

उवाच वरदोऽस्मीति प्रार्थयस्व यथेप्सितम् ॥

अहं ते संप्रदास्यामि यद्यपि स्यात्सुदुर्लभम्

॥२॥

ततस्तं प्रणिपत्योच्चैः स्तुत्वा सूक्तैः श्रुतैरपि ॥

प्रोवाच विनयोपेतः कृतांजलिपुटः स्थितः

॥१३॥

त्वत्प्रसादात्सुरश्रेष्ठ यत्किंचिद्धरणीतले ॥

तदस्ति मे गृहे सर्वं वांछितं स्वेन चेतसा

॥१४॥

सुरूपाणि कलत्राणि राज्यं निहतकंटकम् ॥

शरीरं रोगनिर्मुक्तं संख्याहीनं तथा धनम्

॥५॥

एकं मे सुमहद्दुःखं यदपत्यं न विद्यते ॥

तस्माद्देहि सुतं देव प्रसन्नो यदि शंकर

॥६॥

श्रीभगवानुवाच

अचिरेण नृपश्रेष्ठ पुत्रस्तव भविष्यति ॥

मत्प्रसादान्न संदेहस्तस्माद्गच्छ द्रुतं गृहम्

॥७॥

सूत उवाच

एतस्मिन्नंतरे गौरी कोपसंरक्तलोचना ॥

भर्त्सयित्वा महादेवं ततः प्रोवाच तं नृपम्

॥८॥

यस्मात्त्वया महामूर्ख न प्रणामः कृतो मम ॥

हरादनंतरं तस्माच्छापं दास्याम्यहं तव

॥१९॥

तव संलप्स्यते पुत्रो यथोक्तः शूलपाणिना ॥

परं तन्मृत्युजं दुःखं त्वं शिशुत्वेपि लप्स्यसे

॥२०॥

एवमुक्त्वा भगवती सार्धं देवेन शंभुना ॥

अदर्शनं ययौ पश्चात्तथान्यैरपि पार्श्वगैः

॥२१॥

सोऽपि राजा वरं लब्ध्वा शापं च तदनंतरम् ॥

न जगाम गृहं भूयश्चकार सुमहत्तपः

॥२२॥

एकासनं समारूढौ कृत्वा गौरी महेश्वरौ ॥

ततश्चाराधयामास समं पुष्पानुलेपनैः

॥२३॥

विशेषेण ददौ दानं ब्राह्मणेभ्यो महीपतिः ॥

भूमिशायी प्रशांतात्मा षष्ठकालकृताशनः

॥२४॥

ततः संवत्सरस्यांते भगवान्वृषभध्वजः ॥

पार्वत्या सहितो भूयस्तस्य संदर्शनं गतः

॥२५॥

ततः स नृपतिस्ताभ्यां युगपद्विधिपूर्वकम् ॥

कृत्वा नतिं ततो वाक्यं विनयादिदमब्रवीत्

॥२६॥

पुरा देवि मयानंदपूरे व्याकुल चेतसा ॥

न नता त्वं न मे कोपं तस्मात्त्वं कर्तुमर्हसि

॥२७॥

देहार्धधारिणी देवि सदा त्वं शूलधारिणः ॥

तदैकस्मिन्नते कस्मान्न नता त्वं वदस्व मे

॥२८॥

यस्तं नमति देवेशं तेन त्वं सर्वदा नता ॥

नतायां त्वयि देवेशो नतः स्यादिति मे मतिः ५२९ ॥

तथापि च पृथक्त्वेन मया त्वं तु नता सह ॥

एकासनं समारूढा तत्समं देवि पूजिता

॥३०॥

तस्मात्कुरु प्रसादं मे यः पुरोक्तः पुरारिणा ॥

सोस्तु वै सफलः सद्यो वरः पुत्रकृते मम

॥३१॥

यया वंशधरः पुत्रो दीर्घायुर्दृढविक्रमः ॥

त्वत्प्रसादाद्भवेद्देवि तथा त्वं कर्तुमर्हसि

॥३२॥

श्रीदेव्युवाच

नान्यथा मे वचो राजञ्जायतेऽत्र कथंचन ॥

तस्माद्बालोऽपि ते पुत्रः पंचत्वं समुपैष्यति

॥३३॥

दर्शयित्वा तु ते दुःखमल्पमृत्युसमुद्भवम् ॥

भूयः संप्राप्स्यति प्राणानचिरान्मे प्रसादतः

॥३४॥

भविष्यति च दीर्घायुस्ततो वंशधरो जयी ॥

सार्वभौमप्रधानश्च दानी यज्वा च धर्मवित्

॥३५॥

तस्माद्राजन्गृहं गत्वा कुरु राज्यमभीप्सितम् ॥

संप्राप्स्यसि सुतं श्रेष्ठं यादृशं कीर्तितं मया

॥३६॥

अन्योऽपि मानवो यो मां रूपेणा नेनसंस्थिताम् ॥

पूजयिष्यति चात्रैव समं देवेन शंभुना

॥३७॥

तस्याहं संप्रदास्यामि पुत्रान्हृदयवांछितान् ॥

तथान्यदपि यत्किंचिदचिरान्नात्र संशयः

॥३८॥

श्रीमहादेव उवाच

भूय एव नृपश्रेष्ठ मत्तः प्रार्थय वांछितम् ॥

न वृथा दर्शनं मे स्यात्सत्यमेतद्ब्रवीमि ते

॥३९॥

हरिश्चंद्र उवाच

कृतकृत्योस्मि देवेश सर्वमस्ति गृहे मम ॥

पुत्रं त्यक्त्वा त्वया सोऽपि दत्तो वंशधरो जयी

॥४०॥

तथापि न तवादेशो व्यर्थः कार्यः कथंचन ॥

एतस्मात्कारणाद्देव याचयिष्यामि वांछितम्

॥४१॥

राजसूयकृतेऽस्माकं सदा बुद्धिः प्रवर्तते ॥

निषेधयंति मां सर्वे मन्त्रिणः सुहृदस्तदा

॥४२॥

सर्वैस्तैर्जायते यज्ञः पार्थिवैः करदीकृतैः ॥

युद्धं विना करं तेऽपि न यच्छन्ति यतो विभो

॥४३॥

ततो युद्धार्थिनं मां ते वारयंति हितैषिणः ॥

कृतोत्साहं मखप्राप्तौ नीतिमार्गसमाश्रिताः

॥४४॥

तस्मात्तव प्रसादेन राजसूयो भवेन्मखः ॥

अविघ्नः सिद्धिमायातु मम नान्यद्वृणोम्यहम्

॥४५॥

सूत उवाच

स तथेति प्रतिज्ञाय जगामादर्शन हरः ॥

सोऽपि लब्धवरो भूपः स्वमेव भवनं गतः

॥४६॥

एवं तेन नरेन्द्रेण पूर्वं तत्र विनिर्मितौ ॥

उमामहेश्वरौ पश्चान्निर्मितावितरैरपि

॥४७॥

यस्ताभ्यां कुरुते पूजां संप्राप्ते पंचमी दिने ॥

फलैः सर्वेषु गात्रेषु यावत्संवत्सरं द्विजाः ॥

सुतं प्राप्नोति सोऽभीष्टं स्ववंशोद्धरणक्षमम्

॥४८॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्य उमामहेश्वरोत्पत्तिमाहात्म्यवर्णनंनामाष्टाचत्वारिंशत्तमोऽध्यायः ॥ ४८ ॥