मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २७१

3
नागरखण्डः · 271

अथान्यदपि तत्रास्ति सुपुण्यं लिंगसप्तकम्

सूत उवाच

अथान्यदपि तत्रास्ति सुपुण्यं लिंगसप्तकम् ॥

येनार्चितेन दृष्टेन पूजितेन विशेषतः

॥१॥

दीर्घायुर्जायते मर्त्यः सर्वरोगविवर्जितः ॥

मार्कण्डेश्वर इत्युक्तस्तत्र देवो महेश्वरः

॥२॥

इन्द्रद्युम्नेश्वरोऽन्यस्तु सर्वपापहरो हरः ॥

पालेश्वरस्तथा चैव सर्वव्याधिविनाशनः

॥३॥

ततो घंटशिवः ख्यातो यो घंटेन प्रतिष्ठितः ॥

कलशेश्वरसंज्ञस्तु वानरेश्वरसंयुतः

॥४॥

ईशान शिव इत्युक्तस्तत्र क्षेत्रेश्वरेश्वरः ॥

पूजितो मानवैर्भक्त्या कामान्यच्छत्यमानुषान्

॥५॥

वांछितान्मनसा सर्वान्कलिकालेऽपि संस्थिते

॥६॥

ऋषय ऊचुः

कोऽयं मार्कंडसंज्ञस्तु येन लिंगं प्रतिष्ठितम् ॥

इन्द्रद्युम्नो महीपालः कतमो वद सूतज

॥७॥

तथा पालकनामा च येनायं स्थापितो हरः ॥

तथा यो घण्टसंज्ञस्तु कस्मिञ्जातः स चान्वये

॥८॥

कलशाख्यस्तु यः ख्यातो वानरेण समन्वितः ॥

ईशानोप्यखिलं ब्रूहि परं नःकौतुकं स्थितम् ॥

यतोऽत्र जायते श्रेयः पुनः पुंसां प्रकीर्तय ॥

यैरेतैः स्थापिता देवाः क्षेत्रेऽस्मिन्मानवोत्तमैः

॥१०॥

तथा तेषां समाचारं प्रभावं चैव सूतज ॥

दानं वापि यथाकालं मंत्रांश्च विस्तराद्वद

॥११॥

सूत उवाच

अहं वः कीर्तयिष्यामि कथामेतां पुरातनीम् ॥

कथितां भर्तृयज्ञेन आनर्ताधिपतेः स्वयम्

॥१२॥

श्रुतयापि यया मर्त्यो दीर्घायुर्जायतेनरः ॥

नापमृत्युमवाप्नोति कथंचित्तत्प्रभावतः

॥१३॥

यो मार्कंड इति ख्यातः प्रथमं परिकीर्तितः।

संभूतिस्तस्य संप्रोक्ता युष्माकं पापनाशिनी

॥१४॥

इंद्रद्युम्नं प्रवक्ष्यामि सांप्रतं मुनिसत्तमाः ॥

यद्वंशो यत्प्रभावश्च सर्वभूपालमानितः ॥

. इंद्रद्युम्नो महीपाल आसीत्पूर्वं द्विजोत्तमाः ॥

ब्राह्मण्यश्च शरण्यश्च साधुलोकप्रपालकः ॥

यज्वा दानपतिर्दक्षः सर्वभूतहिते रतः ॥

न दुर्भिक्षं न च व्याधिर्न च चौरकृतं भयम् ॥

तस्मिञ्छासति धर्मज्ञे आसील्लोकस्य कस्यचित्

॥१७॥

यथैव वर्षतो धारा यथा वा दिवि तारकाः ॥

गंगायां सिकता यद्वत्संख्यया परिवर्जिताः

॥१८॥

तद्वत्तेन कृता यज्ञाः सर्वे संपूर्णदक्षिणाः ॥

अग्निष्टोमोऽतिरात्रश्च उक्थः षोडशिकास्तथा

॥१९॥

सौत्रामण्याऽथ पशवश्चातुर्मास्या द्विजोत्तमाः ॥

वाजपेयाश्वमेधाश्च राजसूया विशेषतः

॥२०॥

पौण्डरीकास्तथैवान्ये श्रद्धापूतेन चेतसा ॥

तेन दानानि दत्तानि तीर्थेषु च विशेषतः ॥

मिष्टान्नानि द्विजेंद्राणां दक्षिणासहितानि च

॥२२॥

न तदस्ति धरापृष्ठे नगरं पत्तनं तथा ॥

तीर्थं वा यत्र नो तस्य विद्यते त्रिदशालयः

॥२३॥

तेन कन्यासहस्राणि अच्युतान्यर्बुदानि च ॥

ब्राहमणेभ्यः प्रदत्तानि ब्राह्मणानां धनार्थिनाम्

॥२४॥

दशमीदिवसे तस्य रात्रौ च गजपृष्ठिगः ॥

दुन्दुभिस्ताड्यमानस्तु बभ्राम सकलं पुरम्

॥२५॥

प्रत्यूषे वैष्णवं भावि पापहारि च वासरम् ॥

उपवासः प्रकर्त्तव्यो मुक्त्वा वृद्धं च बालकम् ॥

अन्यथा निग्रहिष्यामि भोजनं यः करिष्यति

॥२६॥

इंद्रद्युम्नः स राजर्षिस्तदा विष्णोः प्रसादतः ॥

तेनैव स्वशरीरेण ब्रह्मलोकं तदा गतः

॥२७॥

तत्र कल्पसहस्रांते स प्रोक्तो ब्रह्मणा स्वयम् ॥

इंद्रद्युम्न धरां गच्छ न स्थातव्यं त्वयाऽधुना

॥२८॥

इंद्रद्युम्न उवाच

कस्माच्च्यावयसे ब्रह्मन्निजलोकाद्द्रुतं हि माम् ॥

अपापमपि देवेश तथा मे वद कारणम्

॥२९॥

श्रीब्रह्मोवाच

तव कीर्तिसमुच्छेदः संजातोऽद्य धरातले ॥

यावत्कीर्तिर्धरापृष्ठे तावत्स्वर्गे वसेन्नरः

॥३०॥

एतस्मात्कारणाल्लोकाः स्वनामांकानि चक्रिरे ॥

वापीकूपतडागानि देवतायतनानि च

॥३१॥

तस्माद्गच्छ धरापृष्ठं स्वां कीर्तिं नूतनां कुरु ॥

यदि वांछसि लोकेऽस्मिन्मामके वसतिं चिरम्

॥३२॥

अथात्मानं स राजेंद्रो यावत्पश्यति तत्क्षणात् ॥

तावत्प्राप्तं धरापृष्ठे कांपिल्य नगरं प्रति

॥३३॥

अथ पप्रच्छ लोकान्स किमेतन्नगरं स्मृतम् ॥

कोऽयं देशः कोऽत्र राजा किं पुरं नगरं च किम्

॥३४॥

ते तमूचुः परं चैतत्कांपिल्यमिति विश्रुतम् ॥

आनर्तनामा देशोऽयं राजात्र पृथिवीजयः

॥३५॥

को भवान्किमिहायातः किंचित्कार्यं वदस्व नः

॥३६॥

इंद्रद्युम्न उवाच

इंद्रद्युम्नो महीपालः पुरासीद्रोचके पुरे ॥

देशे वैजरुके पूर्वं स देशः क्व च तत्पुरम्

॥३७॥

जना ऊचुः

न वयं तत्पुरं विद्मो न देशं न च भूपतिम् ॥

इन्द्रद्युम्नाभिधानं च यं त्वं पृच्छसि भद्रक

॥३८॥

इंद्रद्युम्न उवाच

चिरायुरस्ति कोऽप्यत्र यस्तं वेत्ति महीपतिम् ॥

देशं वा तत्पुरं वापि तन्मे वदथ मा चिरम्

॥३९॥

जना ऊचुः

सप्तकल्पस्मरो नाम मार्कंडेयो महामुनिः ॥

श्रूयते नैमिषारण्ये तं गत्वा पृच्छ वेत्स्यसि

॥४०॥

अथासौ सत्वरं गत्वा व्योममार्गेण तं मुनिम् ॥

पप्रच्छ प्रणिपत्योच्चैर्नैमिषारण्यमाश्रितम्

॥४१॥

इंद्रद्युम्नेति वै भूपस्त्वया दृष्टः श्रुतोऽथ वा ॥

चिरायुस्त्वं श्रुतोऽस्माभिः पृच्छामस्तेन सन्मुने

॥४२॥

श्रीमार्कंडेय उवाच

सप्तकल्पांतरे भूपो न दृष्टो न मया श्रुतः ॥

इंद्रद्युम्नाभिधानोऽत्र तत्र किं नु वदामि ते

॥४३॥

तस्य तद्वचनं श्रुत्वा निराशः स महीपतिः ॥

वैराग्यं परमं गत्वा मरणे कृतनिश्चयः

॥४४॥

तेन चानीय दारूणि प्रज्वाल्य च हुताशनम् ॥

प्रवेष्टुकामः स प्रोक्त इन्द्रद्युम्नो महीपतिः

॥४५॥

त्वया चात्र न कर्तव्यमहं ते मित्रतां गतः ॥

नाशयिष्यामि ते मृत्युं यद्यपि स्यान्महत्तरम्

॥४६॥

नीरोगोऽसि सुभव्योऽसि कस्मान्मृत्युं प्रवांछसि ॥

वद मे कारणं मृत्योः प्रतीकारं करोमि ते

॥४७॥

इंद्रद्युम्न उवाच

चिरायुर्मे भवान्प्रोक्तः कांपिल्यपुरवासिभिः ॥

तेनाहं तव पार्श्वेऽत्र समायातो महामुने

॥४८॥

इंद्रद्युम्नोद्भवां वार्तां त्वं वदिष्यसि सन्मुने ॥

मत्कीर्तिर्न परिज्ञाता ततो मृत्युं व्रजाम्यहम्

॥४९॥

सूत उवाच

तस्य तं निश्चयं ज्ञात्वा दयावान्स मुनीश्वरः ॥

वृथाश्रमं च तं ज्ञात्वा दाक्षिण्यादिदमब्रवीत्

॥५०॥

यद्येवं मा विशाग्निं त्वमहं ज्ञास्यामि तं नृपम् ॥

नाडीजंघो बको नाम ममास्ति परमः सुहृत्

॥५१॥

चिरंतनश्च सोऽस्माकं नूनं ज्ञास्यति तं नृपम् ॥

तस्मादागच्छ गच्छावस्तस्य पार्श्वे हिमाचले

॥५२॥

साधूनां दर्शनं जातु न वृथा जायते क्वचित्

॥५३॥

एवमुक्त्वा ततस्तौ तु प्रस्थितौ मुनिपार्थिवौ ॥

व्योममार्गेण संतुष्टौ बकं प्रति हिमाचले

॥५४॥

बकोऽपि तं समालोक्य मार्कण्डेयं समागतम् ॥

संमुखः प्रययौ तुष्टः स्वागतेनाभ्यपूजयत्

॥५५॥

धन्योऽहं कृतपुण्योऽहं यस्य मे त्वत्समागमः ॥

भो भो ब्रह्मविदां श्रेष्ठ आतिथ्यं ते करोमि किम्

॥५६॥

श्रीमार्कंडेय उवाच

मत्तोपि त्वं चिरायुश्च यतो मित्रं व्यवस्थितः ॥

इन्द्रद्युम्नो महीपालस्त्वया दृष्टः श्रुतोऽथवा

॥५७॥

एतस्य मम मित्रस्य तेन दृष्टेन कारणम् ॥

अन्यथा जायते मृत्युस्ततोऽहं त्वां समागतः

॥५८॥

बक उवाच

सप्तद्विगुणितान्कल्पान्स्मराम्यहमसंशयम् ॥

न स्मरामि कथामेव इंद्रद्युम्नसमुद्भवाम्

॥५९॥

आस्तां हि दर्शनं तावत्सत्यमेतन्मयोदिम्

॥६०॥

इंद्रद्युम्न उवाच

तपसः किं प्रभावोऽयं दानस्य नियमस्य च ॥

यदायुरीदृशं जातं बकत्वेऽपि वदस्व नः

॥६१॥

बक उवाच

घृतकंबलमाहात्म्याद्देवदेवस्य शूलिनः ॥

ममायुरीदृशं जातं बकत्वं मुनिशापतः

॥६२॥

अहमासं पुरा बालो ब्राह्मणस्य निवेशने ॥

चमत्कारपुरे रम्ये पाराशर्यस्य धीमतः

॥६४॥

नाम्ना च विश्वरूपाख्यो नाम्ना ऽन्येन बक स्मृतः ॥

अतीव चपलत्वेन संयुक्तः पितृवल्लभः

॥६४॥

कस्यचित्त्वथ कालस्य संक्रांतौ मकरस्य भोः ॥

संप्राप्यातीव चापल्याल्लिंगं जागेश्वरं मया ॥

घृतकुम्भे परिक्षिप्तं पूजितं जनकेन यत्

॥६५॥

अथ रात्र्यां व्यतीतायां पृष्टोऽहं जनकेन च ॥

त्वया पुत्र परिक्षिप्तं नूनं जागेश्वरं क्वचित् ॥

तस्माद्वद प्रयच्छामि तेन ते भक्ष्यमुत्तमम्

॥६६॥

ततो मयाज्यकुम्भाच्च तस्मादादाय सत्वरम् ॥

भक्ष्यलौल्यात्पितुर्हस्ते विन्यस्तं घृतसंप्लुतम्

॥६७॥

कस्यचित्त्वथ कालस्य पंचत्वं च समागतः ॥

जातिस्मरस्ततो जातस्तत्प्रभावान्नृपालये

॥६८॥

आनर्ताधिपतेर्हर्म्ये नाम्ना ख्यातस्त्वहं बकः ॥

चमत्कारपुरे देवो हरः संस्थापितो मया

॥६९॥

तत्प्रभावेण विप्रेंद्र प्राप्तः पैतामहं पदम्

॥७०॥

ततो यानि धरापृष्ठे सुलिंगानि स्थितानि च ॥

घृतेनच्छादयाम्येव मकरस्थे दिवाकरे ॥

मया यत्स्थापितं लिंगं चमत्कारपुरे शुभम्

॥७१॥

आराधितं दिवा नक्तं राज्ये संस्थाप्य पुत्रकम् ॥

नियोज्य सर्वतो भृत्यान्धनवस्त्रसमन्वितान्

॥७२॥

ततःकालेन महता तुष्टो मे भगवाञ्छिवः ॥

मत्समीपं समासाद्य वाक्यमेतदुवाच सः

॥७३॥

परितुष्टोऽस्मि भद्रं ते तव पार्थिवसत्तम ॥

घृतकंबलदानेन संख्यया रहितेन च

॥७४॥

तस्माद्वरय भद्रं ते वरं यन्मनसि स्थितम् ॥

अदेयमपि दास्यामि यद्यपि स्यात्सुदुर्लभम्

॥७५॥

ततो मया हरः प्रोक्तो यदि तुष्टोऽसि मे प्रभो।

. कुरुष्व मां गणं देव नान्यत्किंचिद्वृणोम्यहम्

॥७६॥

श्रीभगवानुवाच

बकैहि त्वं महाभाग कैलासं पर्वतोत्तमम् ॥

मया सार्धमनेनैव शरीरेण गणो भव

॥७७॥

अन्योऽपि मर्त्यलोकेत्र यः करिष्यति मानवः ॥

मकरस्थे रवौ मह्यं संक्रांतौ रजनीमुखे।

स नूनं मद्गणो भावी सकृत्कृत्वाऽथ कंबलम्

॥७८॥

त्वं पुनर्मामकं लिंगं समं कुर्वन्भविष्यसि ॥

धर्मसेनेति विख्यातो विकृत्या परिवर्जितः

॥७९॥

एवमुक्त्वा स भगवान्मामादाय ततः परम् ॥

कैलासं पर्वतं गत्वा गणकोटीशतामदात्

॥८०॥

कस्यचित्त्वथ कालस्य भ्रममाणो यदृच्छया ॥

गतोऽहं पर्वतश्रेष्ठं हिमवंतं महागिरिम् ॥

. यत्रास्ते गालवो नाम सदैव तपसि स्थितः ॥

तस्य भार्या विशालाक्षी सर्वलक्षणलक्षिता

॥८२॥

सप्तरक्ता त्रिगंभीरा गूढगुल्फा कृशोदरी ॥

तां दृष्ट्वा मन्मथाविष्टः संजातोऽहं मुनीश्वर

॥८३॥

चिंतितं च मया चित्ते कथमेतां हराम्यहम् ॥

तस्माच्छिष्यत्वमासाद्य भक्तिमस्य करोम्यहम्

॥८४॥

शुश्रूषानिरतो भूत्वा येन प्राप्नोमि भामिनीम्

॥८५॥

ततो बटुकरूपेण संप्राप्तो गालवो मया ॥

संसारस्य विरक्तोऽहं करिष्यामि मह्त्तपः

॥८६॥

दीक्षां यच्छ विभो मह्यं येन शिष्यो भवामि ते

॥८७॥

आहरिष्याम्यहं दर्भांस्तथा सुमनसः सदा ॥

समिधश्च सदैवाहं फलानि जलमेव च

॥८८॥

स मां विनयसंपन्नं ज्ञात्वा ब्राह्मणरूपिणम् ॥

ददौ दीक्षां ततो मह्यं शास्त्रदृष्टेन कर्मणा

॥८९॥

अथ दीक्षां समासाद्य तोषयामि दिनेदिने ॥

तं चैव तस्य पत्नीं तां यथोक्तपरिचर्यया ॥

अशुद्धेनापि चित्तेन छिद्रान्वेषणतत्परः

॥९०॥

अन्यस्मिन्दिवसे प्राप्ते सा स्त्रीधर्मसमन्विता ॥

उटजं दूरतस्त्यक्त्वा रात्रौ सुप्ता मनस्विनी ॥

. सोऽहं रूपं महत्कृत्वा तामादाय तपस्विनीम् ॥

सुखसुप्तां सुविश्रब्धां प्रस्थितो दक्षिणामुखः

॥९२॥

अथासौ संपरित्यक्ता संस्पर्शान्मम निद्रया ॥

चौररूपं परिज्ञाय मां शिष्यं प्ररुरोद ह

॥९३॥

साब्रवीच्च स्वभर्तारं गालवं मुनिसत्तमम् ॥

एष शिष्यो दुराचारो हरते मामितः प्रभो

॥९४॥

तस्माद्रक्ष महाभाग यावद्दूरं न गच्छति

॥९५॥

तच्छ्रुत्वा गालवः प्राह तिष्ठतिष्ठेति चासकृत् ॥

पापाचार सुदुष्टात्मन्गतिस्ते स्तंभिता मया

॥९६॥

तस्य वाक्यात्ततो मह्यं गतिस्तंभो व्यजायत ॥

यद्वल्लिखित एवाहं प्रतिष्ठामि सुनिश्चलः

॥९७॥

ततस्तेन च शप्तोऽहं गालवेन महात्मना ॥

वंचितोऽहं त्वया यस्माद्बको भव सुदुर्मते

॥९८॥

ततः पश्यामि चात्मानं सहसा बकरूपिणम् ॥

बकत्वेऽपि न मे नष्टा या स्मृतिः पूर्वसंभवा ॥

ततः साऽपि च तत्पत्नी सचैलं स्नानमाश्रिता ॥

मत्स्पर्शादुःखितांगी च शापाय समुपस्थिता

॥१००॥

यस्मात्पाप त्वया स्पृष्टा प्रसुप्ताहं रजस्वला ॥

बकधर्मं समाश्रित्य भर्त्ता मे वंचितस्त्वया ॥

अन्यरूपं समास्थाय तस्मात्सत्यं बको भव

॥१०१॥

एवं शप्तस्ततो द्वाभ्यां ताभ्यां वै दुःखसंयुतः ॥

चरणाभ्यां प्रलग्नस्तु गालवस्य महात्मनः

॥१०२॥

गणोऽहं देवदेवस्य त्रिनेत्रस्य महात्मनः ॥

पालकेति च विख्यातो गणकोटिप्रभुः स्थितः

॥१०३॥

सोऽहमत्र समायातः प्रभोः कार्येण केनचित् ॥

तव भार्यां समालोक्य कामदेववशं गतः

॥१०४॥

क्षमापराधं त्वं मह्यमेवं ज्ञात्वा मुनीश्वर ॥

दुर्विनीतः श्रियं प्राप्य विद्यामैश्वर्यमेव च

॥१०५॥

न तिष्ठति चिरं स्थाने यथाहं मदगर्वितः ॥

शिष्यरूपं समास्थाय ततः प्राप्तस्तवांतिकम्

॥१०६॥

अस्या हरणहेतोश्च महासत्या मुनीश्वर ॥

तस्मात्कुरु प्रसादं मे दीनस्य प्रणतस्य च

॥१०७॥

अनुग्रहप्रदानेन क्षमा यस्मात्तपस्विनाम् ॥

कोकिलानां स्वरो रूपं नारीरूपं पतिव्रता ॥

विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम्

॥१०८॥

सूत उवाच

तस्य तत्कृपणं श्रुत्वा सोपि माहेश्वरो मुनिः ॥

ज्ञात्वा तं बांधवस्थाने दयां कृत्वाऽब्रवीद्वचः

॥१०९॥

सत्यवाक्तिष्ठते विप्रश्चमत्कारपुरे शुभे

॥११०॥

भर्त्तृयज्ञ इति ख्यातस्तदा तस्योपदेशतः ॥

बकत्वं यास्यते नूनं मम वाक्यादसंशयम्

॥१११॥

ततः पश्यामि चात्मानं बकत्वेन समाश्रितम्

॥११२॥

एवं मे दीर्घमायुष्यं संजातं शिवभक्तितः ॥

घृतकम्बलमाहात्म्याद्बकत्वं मुनिशापतः

॥११३॥

इंद्रद्युम्न उवाच

एतदर्थं समानीतस्त्वत्सकाशं विहंगम ॥

इंद्रद्युम्नस्य वार्तार्थं मरणे कृतनिश्चयः

॥११४॥

सा त्वया नैव विज्ञाता ममाभाग्यैर्विहंगम ॥

सेवयिष्याम्यहं तस्मात्प्रदीप्तं हव्यवाहनम्

॥११५॥

प्रतिज्ञातं मया पूर्वमेतन्निश्चित्य चेतसि ॥

इंद्रद्युम्ने ह्यविज्ञाते संसेव्यः पावको मया

॥११६॥

तस्माद्देहि ममादेशं मार्कंडेयसमन्वितः ॥

प्रविशामि यथा वह्निं भ्रष्टकीर्तिरहं बक

॥११७॥

मार्कंडेय उवाच

वेत्सि चान्यं नरं कञ्चिद्वयसा चात्मनोऽधिकम् ॥

पृच्छामि येन तं गत्वा कृते ह्यस्य महात्मनः

॥११८॥

श्रद्धया परया युक्तः संप्राप्तोऽयं मया सह ॥

तत्कथं त्यजति प्राणान्सहाये मयि संस्थिते

॥११९॥

अपरं च क्षमं वाक्यं यत्त्वां वच्मि विहंगम ॥

अयं दुःखेन संयुक्तः साधयिष्यति पावकम् ॥

अहमेनमनुद्धृत्य कस्माद्गच्छामि चाश्रमम्

॥१२०॥

सूत उवाच

तयोस्तं निश्चयं ज्ञात्वा बकः परमदुर्मना ॥

सुचिरं चिंतयामास कथं स्यादेतयोः सुखम्

॥१२१॥

ततो राजा मुनिश्चैव दारूण्याहृत्य पावकम् ॥

प्रवेष्टुकामौ तौ दृष्ट्वा बको वचनमब्रवीत्

॥१२२॥

मम वाक्यं कुरु प्राज्ञ यदि जीवितुमिच्छसि ॥

ज्ञातः सोऽद्य मया व्यक्तमिन्द्रद्युम्नं नराधिपम्

॥१२३॥

यो ज्ञास्यति मम ज्येष्ठः सर्वशास्त्रविचक्षणः ॥

तत्त्वमेनं समादाय मरणे कृतनिश्चयम्

॥१२४॥

निश्वसन्तं यथा नागं बाष्पव्याकुललोचनम् ॥

समागच्छ मया सार्धं कैलासं पर्वतं प्रति

॥१२५॥

यत्रास्ति दयितो मह्यमुलूकश्चिरजीवभाक् ॥

स नूनं ज्ञास्यते तं हि मा वृथा मरणं कृथाः

॥१२६॥

ततोऽसौ तेन संयुक्तो बकेन सुमहात्मना ॥

मार्कंडेयेन संप्राप्तः कैलासं पर्वतोत्तमम्

॥१२७॥

सोऽपि दृष्ट्वा बकं प्राप्तं मित्रं परमसंमतम् ॥

समागच्छदसौ हृष्टः स्वागतेनाभ्यनन्दयत्

॥१२८॥

अथ तं चैव विश्रान्तं समालिङ्ग्य मुहुर्मुहुः ॥

प्राकारवर्णनामासौ वाक्यमेतदुवाच ह

॥१२९॥

स्वागतं ते द्विजश्रेष्ठ भूप सुस्वागतं च ते ॥

सख्येऽद्य यच्च ते कार्यं वदागमनकारणम्

॥१३०॥

कावेतौ पुरुषौ प्राप्तौ त्वया सार्धं ममांतिकम् ॥

दिव्यरूपौ महाभागौ तेजसा परिवारितौ

॥१३१॥

बक उवाच

एष मार्कंडसंज्ञोऽत्र प्रसिद्धो भुवनत्रये ॥

महेश्वरप्रसादेन संसिद्धिं परमां गतः ॥

द्वितीयोऽसौ सुहृच्चास्य कश्चिन्नो वेद्मि तत्त्वतः ॥

मार्कंडेन समायातः सुहृदा व ममांतिकम्

॥१३२॥

यदि जानासि तं भूपमिन्द्रद्युम्नं महामते ॥

तत्त्वं कीर्तय येनासौ मरणाद्विनिवर्तते

॥१३५॥

चिरायुस्त्वं मया ज्ञातो ह्यतः प्राप्तोऽस्मि तेंऽतिकम्

॥१३६॥

उलूक उवाच

अष्टाविंशत्प्रमाणेन कल्पा जातस्य मे स्थिताः ॥

न दृष्टो न श्रुतः कश्चिदिंद्रद्युम्नो महीपतिः

॥१३७॥

इंद्रद्युम्न उवाच

तव कस्मादुलूकत्वं शीघ्रं तन्मे प्रकीर्तय ॥

एतन्मे कौतुकं भावि यत्ते ह्यायुरनन्तकम् ॥

उलूकत्वं च संजातं रौद्रं लोकविगर्हितम्

॥१३८॥

उलूक उवाच

शृणु तेऽहं प्रवक्ष्यामि दीर्घायुर्मे यथा स्थितम् ॥

महेश्वरप्रसादेन बिल्वपत्रार्चनान्मया ॥

उलूकत्वं मया प्राप्तं भृगोः शापान्महात्मनः

॥१३९॥

अहमासं पुरा विप्रः सर्वविद्यासु पारगः ॥

चमत्कारपुरे श्रेष्ठे नाम्ना ख्यातस्तु घंटकः ॥

ब्रह्मचारी दमोपेतो हरपूजार्चने रतः

॥१४०॥

अखंडितैर्बिल्वपत्रैरग्रजातैस्त्रिपत्रकैः ॥

त्रिकालं पूजितः शंभुर्लक्षमात्रैः सदा मया

॥१४१॥

ततो वर्षसह्स्रांते तुष्टो मे भगवान्हरः ॥

प्रोवाच दर्शनं गत्वा मेघगंभीरया गिरा

॥१४२॥

अहं तुष्टोऽस्मि ते वत्स वरं वरय सुव्रत ॥

अखंडितैर्बिल्वपत्रैस्त्रिकाले यत्त्वयार्चितः

॥१४३॥

बिल्वस्य प्रसवाग्रेण त्रिपत्रेण प्रजायते ॥

एकेनापि यथातुष्टिस्तथान्येषां न कोटिभिः

॥१४४॥

पुष्पाणामपि भद्रं ते सुगंधानामपि ध्रुवम् ॥

सखे मया प्रणम्योच्चैः स प्रोक्तः शशिशेखरः

॥१४५॥

यदि तुष्टोसि मे देव यदि देयो वरो मम ॥

तन्मां कुरु जगन्नाथ जरामरणवर्जितम्

॥१४६॥

स तथेति प्रतिज्ञाय महादेवो महेश्वरः ॥

कैलासं प्रति देवेशः क्षणाच्चादर्शनं गतः

॥१४७॥

ततोहं परितुष्टोथ वरं प्राप्य महेश्वरात् ॥

कृतकृत्यमिवात्मानं चिंतयामि प्रहर्षितः

॥१४८॥

एतस्मिन्नेव काले तु भार्गवो मुनिसत्तमः ॥

कुशलः सर्वशास्त्रेषु वेदवेदांग पारगः

॥१४९॥

तस्य भार्याऽभवत्साध्वी नाम्ना ख्याता सुदर्शना ॥

प्राणेभ्योऽपि प्रिया तस्य गालवस्य मुनेः सुता

॥१५०॥

तस्य कन्या समभवद्रूपेणाप्रतिमा भुवि ॥

सा मया सहसा दृष्टा क्रीडमाना यथेच्छया

॥१५१॥

मध्यक्षामा सुकेशी च बिंबोष्ठी दीर्घलोचना ॥

तामहं वीक्षयित्वा तु कामदेववशं गतः

॥१५२॥

ततः पृष्टा मया कस्य कन्येयं चारुलोचना ॥

विभक्तसर्वावयवा देवकन्येव राजते

॥१५३॥

सखीभिः कीर्तिता मह्यं भार्गवस्य मुनेः सुता ॥

एषा चाद्यापि कन्यात्वे वर्तते चारुहासिनी

॥१५४॥

ततोऽहं भार्गवं गत्वा विनयेन समन्वितः ॥

ययाचे कन्यकां ता च कृतांजलिपुटः स्थितः ॥

सवर्णं मां परिज्ञाय सोऽपि भार्गवनंदनः ॥

दत्तवांस्तां महाभाग विरूपस्यापि कन्यकाम्

॥१५६॥

अथ सा कन्यका ज्ञात्वा पित्रा दत्तास्मि धर्मतः ॥

विरूपाय ततो गत्वा मातरं वाक्यमब्रवीत्

॥५७॥

सुलज्जा साऽतिदुःखार्ता पश्यांब जनकेन च ॥

विरूपाय प्रदत्तास्मि नाहं जीवितुमुत्सहे

॥१५८॥

विषं वा भक्षयिष्यामि प्रवेक्ष्यामि हुताशनम् ॥

तस्यास्तद्वचनं श्रुत्वा निषिद्धः स द्विजस्तया

॥१५९॥

कस्मान्नाथ प्रदत्तासौ विरूपाय त्वया विभो ॥

कन्यकेयं सुरूपाढ्या सर्वलक्षणसंयुता

॥१६०॥

एतच्छ्रुत्वा तु वचनं भार्गवो मुनिसत्तमः ॥

ततस्तां गर्हयित्वासौ धिङ्नारी पुरुषायते

॥१६१॥

अनेन प्रार्थिता कन्या मया चास्मै प्रदीयते ॥

तत्किं निषेधयसि मां दीयमानां सुतामिमाम्

॥१६२॥

इत्युक्त्वा स प्रसुष्वाप पत्न्याथ कन्यया समम्

॥१६३॥

ततोऽर्द्धरात्रे चागत्य मया सुप्ता च भार्गवी ॥

हृत्वा स्वभवने नीता निशि सुप्ते जने तदा

॥१६४॥

नियुक्ता कामधर्मेण ह्यनिच्छंती बलान्मया ॥

विप्रः प्रातर्जजागार पिता तस्यास्ततः परम्

॥१६५॥

क्वासौ सा दुहिता केन हृता नष्टा मदीयिका ॥

अथासौ वीक्षितुं बाह्ये बभ्राम स्ववनांतिकम्

॥१६६॥

पदसंहतिमार्गेण मुनिभिर्बहुभिर्वृतः ॥

तेन दृष्टाऽथ सा कन्या कृतकौतुकमंगला

॥१६७॥

रुदंती सस्वनं तत्र लज्जमाना ह्यधोमुखी ॥

ततः कोपपरीतात्मा मां प्रोवाच स भार्गवः

॥१६८॥

निशाचरस्य धर्मेण यस्मादूढा सुता मम ॥

निशाचरो भवानस्तु कर्मणानेन सांप्रतम्

॥१६९॥

घंटक उवाच

निर्दोषं मां द्विजश्रेष्ठ कस्मात्त्वं शपसि द्रुतम् ॥

त्वयैषा मे स्वयं दत्ता तेन रात्रौ हृता मया

॥१७०॥

यो दत्वा कन्यकां पूर्वं पश्चाद्यच्छेन्न दुर्मतिः।

स याति नरकं घोरं यावदाभूतसंप्लवम्

॥१७१॥

अथासौ चिंतयामास सत्यमेतेन जल्पितम् ॥

पश्चात्तापसमोपेतो वाक्यमेतदुवाच ह

॥१७२॥

सत्यमेतत्त्वया प्रोक्तं न मे वचनमन्यथा ॥

उलूकरूपसंयुक्तो भविष्यसि न संशयः

॥१७३॥

उत्पत्स्यते यदा चात्र भर्तृयज्ञो महामुनिः ॥

तस्योपदेशमासाद्य भूयः प्राप्स्यसि स्वां तनुम्

॥१७४॥

ततः कौशिकरूपं तु पश्याम्यात्मानमेव च ॥

तथापि न स्मृतिर्नष्टा मम या पूर्वसंभवा

॥१७५॥

अथ या तत्सुता चोढा मया तस्मिन्गिरौ तदा ॥

सापि मां संनिरीक्ष्याथ तद्रूपं दुःखसंयुता ॥

प्रविष्टा हव्यवाहं सा विधवात्वमनिच्छती

॥१७६॥

एवं मे कौशिकत्वं हि संजातं तु महाद्युते ॥

भार्गवस्य तु शापेन कन्यार्थे यत्तवोदितम्

॥१७७॥

अखंडबिल्वपत्रेण पूजितो यन्महेश्वरः ॥

चिरायुस्तेनसंजातं सत्यमेतन्मयोदितम्

॥१७८॥

सत्यं कथय यत्कृत्यं गृहायातस्य किं तव ॥

प्रकरोमि महाभाग यद्यपि स्यात्सुदुर्लभम्

॥१७९॥

इन्द्रद्युम्न उवाच

इन्द्रद्युम्नस्य ज्ञानाय प्राप्तोऽहं यत्तवांतिकम् ॥

नाडीजंघेन चानीतो मरणे कृतनिश्चयः

॥१८०॥

यदि नो ज्ञास्यति भवांस्तं कीर्त्या च कुलेन च ॥

प्रविशामि ततो नूनं प्रदीप्तं हव्यवाहनम्

॥१८१॥

नो चेत्कीर्तय मे कञ्चिदन्यं तु चिरजीविनम् ॥

पृच्छामि तेन तं गत्वा येन वेत्ति न वा च सः

॥१८२॥

बक उवाच

युक्तमुक्तमनेनाद्य तत्कुरुष्व वदास्य भोः ॥

यदि जानासि कंचित्वमात्मनश्चिरजीविनम्

॥१८३॥

नो चेदहमपि क्षिप्रं प्रविशामि हुताशनम् ॥

मार्कंडेनापि सहितः सांप्रतं तव पश्यतः

॥१८४॥

एवम् ज्ञात्वा महाभाग चिन्तयस्व चिरंतनम् ॥

कंचिद्भूमितलेऽन्यत्र यतस्त्वं चिरजीवधृक्

॥१८५॥

आशया परया प्राप्तस्तवाहं किल मंदिरे ॥

पुमानेष विशेषेण मार्कंडेयः प्रियो मम

॥१८६॥

संत्यत्र पर्वतश्रेष्ठाः शतशोऽथ सहस्रशः ॥

येषु सन्ति महाभागास्तापसाश्चिरजीविनः ॥

नान्यथा जीवितं चास्य कथंचित्संभविष्यति

॥१८७॥

इंद्रद्युम्नस्य राजर्षेर्हितं परमकं भवेत् ॥

तथावयोर्द्वयोश्चापि तस्माच्चिंतय सत्वरम्

॥१८८॥

तस्य तं निश्चयं ज्ञात्वा मरणार्थं महीपतेः ॥

स उलूकः कृपां गत्वा ततो वचनमब्रवीत्

॥१८९॥

यद्येवं तु महाभाग मर्तुकामोऽसि सांप्रतम् ॥

तदागच्छ मया सार्धं गन्धमादनपर्वतम्

॥१९०॥

तत्र संतिष्ठते गृध्रः स च मे परमः सुहृत् ॥

चिरंतनस्तथा सम्यक्स ते ज्ञास्यति तं नृपम् ॥

कथयिष्यत्यसंदिग्धं मम वाक्यादसंशयम्

॥१९१॥

तस्य तद्वचनं श्रुत्वा मार्कंडेयादिभिस्त्रिभिः ॥

प्रोक्तः सर्वैर्महाभाग मा त्वं प्रविश पावकम्

॥१९२॥

वयं यास्यामहे सर्वे त्वया सार्धं च तत्र हि ॥

कदाचित्सोऽपि जानाति इंद्रद्युम्नं महीपतिम्

॥१९३॥

तेषां तद्वचनं श्रुत्वा आशया परया युतः ॥

स राजा सह तैः सर्वैः प्रययौ गंधमादनम्

॥१९४॥

गृध्रराजोऽपि तान्दृष्ट्वा सर्वानेव कृतांजलिः ॥

उलूकं पुरतो दृष्ट्वा प्रहृष्टः सन्मुखो ययौ

॥१९५॥

ततोऽब्रवीत्प्रहृष्टात्मा स्वागतं ते द्विजोत्तम ॥

चिरकालात्प्रदृष्टोऽसि क एतेऽन्येऽत्र ये स्थिताः

॥१९६॥

उलूक उवाच

एष मे परमं मित्रं नाडीजंघो बकः स्मृतः ॥

एतस्यापि तु मार्कण्डः संस्थितः परमः सुहृत्

॥१९७॥

असौ त्रैलोक्यविख्यातः सप्तकल्पस्मरो भुवि ॥

एतस्यापि सुहृत्कश्चिन्नैनं जानामि सत्वरम्

॥१९८॥

म्रियमाणो मया ह्येष समानी तस्तवांतिकम् ॥

अयं जीवति विज्ञात इंद्रद्युम्ने नरेश्वरे ॥

नो चेत्प्रविशति क्षिप्रं प्रदीप्तं हव्यवाहनम्

॥१९९॥

स त्वं जानासि चेद्ब्रूहि इन्द्रद्युम्नं महीपतिम् ॥

चिरंतनो मयापि त्वं तेन प्रष्टुं समागतः

॥२००॥

गृध्र उवाच

इन्द्रद्युम्नेति विख्यातं राजानं न स्मराम्यहम् ॥

न दृष्टो न श्रुतश्चापि इन्द्रद्युम्नो महीपतिः

॥२०१॥

तस्य तद्वचनं श्रुत्वा सोऽपि राजा सुदुर्मनाः ॥

मनसा चिन्तयामास मरणे कृतनिश्चयः

॥२०२॥

ततस्तु कौतुकाविष्टस्तं पप्रच्छ द्विजोत्तमम् ॥

कर्मणा केन संप्राप्तमायुष्यं चेदृशं वद

॥२०३॥

ततः संभावयिष्यामि श्रुत्वा तेऽहं विभावसुम्

॥२०४॥

गृध्र उवाच

अहमासं चमत्कारपुरे मर्कटकः किल ॥

उपत्यकायां तत्रैव रक्तशृंगस्य भूभृतः

॥२०५॥

तत्रैवास्ति महच्छंभोर्मंदिरं मंदरोपमम्।

चित्रेश्वराभिधानं च सर्वपातकनाशनम्

॥२०६॥

वसंते तत्र संप्राप्ते पौरजानपदैस्तथा ॥

आगत्य चैव सुमहानुत्सवो विहितोऽभवत्

॥२०७॥

लिंगस्य सविधै रम्ये सर्वर्तुफलितद्रुमे ॥

कानने कामिनीलोककांते जनमनोहरे ॥

लिंगमारोपितं चारु तरोरांदोलके मुदा

॥२०८॥

कृत्वा दमनकेनार्चां स्थाप्यांदोले सुयंत्रिते ॥

ययुस्ते स्वगृहं पश्चादर्चयित्वा त्रिलोचनम्

॥२०९॥

ततोऽहं रजनीवक्त्रे तां दोलां सुमनोहराम् ॥

कौतुकाविष्टहृदयो दोलयामि मुहुर्मुहुः

॥२१०॥

एवं संदोलयानस्य मम प्राप्ता नरास्तदा ॥

कैश्चित्तैस्त्रासितो हत्वा लगुडैः सर्वतोदिशम्

॥२११॥

ततः पंचत्वमापन्नस्तत्रैवायतने द्रुतम् ॥

ततो जातिस्मरो भूत्वा संजातो नृपमंदिरे

॥२१२॥

कोटीश्वरस्यविख्यातो नाम्ना चैव कुशध्वजः ॥

पितृपैतामहं राज्यं मया प्राप्तं ततः क्रमात्

॥२१३॥

कोटीशे समनुप्राप्ते परलोकं स्वकर्मणा ॥

जागेश्वरं महाभागं दोलयामि यथेच्छया

॥२१४॥

शिवसिद्धांतजैर्मंत्रैर्गुरुणा संनिवेदितैः ॥

ततः कालेन महता तुष्टो देवो हरो मम ॥

भवतो वरदश्चास्मि वाक्यमेतदुवाच ह

॥२१५॥

कुशध्वज प्रतुष्टोऽस्मि श्रद्धया परया तव ॥

वरं वृणीष्व भद्रं ते यः सदा मनसि स्थितः

॥२१६॥

ततो मया प्रणम्योच्चैः स प्रोक्तो भगवान्हरः

॥२१७॥

यदि तुष्टोसि मे देव तन्मां कुरु निजं गणम् ॥

त्रैलोक्यराज्यमपि मे नान्यत्संप्रति रोचते

॥२१८॥

एवमुक्तो मया देवो विमाने मां निधाय सः ॥

शिवलोकं महापुण्यं सहसा मां समानयत्

॥२१९॥

ततः प्रसादतश्चाहं भवान्याश्च हरस्य च ॥

क्रीडामि स्वेच्छया तत्र गणमध्ये व्यवस्थितः

॥२२०॥

कस्यचित्त्वथ कालस्य विमानवरमाश्रितः ॥

स्वेच्छयाभ्रममाणस्तु प्राप्तोऽत्रैव महागिरौ

॥२२१॥

वसंतसमये प्राप्ते प्रवृत्ते दक्षिणानिले ॥

अग्निवेश्यसुता दृष्टा विवस्त्रा जलम ध्यगा

॥२२२॥

आलिभिर्बहुभिर्युक्ता क्रीडमाना यथेच्छया ॥

मुष्टिग्राह्या तु मध्ये सा बिंबोष्ठी वारिजेक्षणा

॥२२३॥

बिल्वस्तनी शशांकास्या सर्वलक्षणलक्षिता ॥

ततोऽहं मन्मथाविष्टः समभूवं हि तत्क्षणात्

॥२२४॥

अवतीर्य विमानाग्र्याद्गृहीताथ करे मया ॥

प्रकुर्वाणाथ करुणं पक्षिणीकुररी यथा

॥२२५॥

ततः कन्या मुनींद्राणां याः स्थितास्तत्र वारिणि ॥

रुदंत्यः संप्रयातास्ता अग्निवेश्यस्य संनिधौ

॥२२६॥

नीयते त्वत्सुता ब्रह्मन्विमानवरमाश्रिता ॥

वैमानिकेन केनापि क्रन्दमाना निरर्गलम्

॥२२७॥

तच्छ्रुत्वा कुपितः सोऽथ व्योममार्गावलोकनः ॥

स्वाश्रमात्संप्रयातः स भर्त्समानो मुहुर्मुहुः

॥२२९॥

तिष्ठतिष्ठेति च प्रोच्य स्तंभयामास सर्वतः ॥

तपसोग्रेण विप्रस्य विमानं मम संस्थितम्

॥२२९॥

अब्रवीच्च ततो मां स कोपेन महताऽन्वितः ॥

यस्मात्पाप त्वया कन्या क्रीडती विहृताधुना

॥२३०॥

अकामा मांसपेशीव यथा गृध्रेण दुर्मते ॥

तस्माद्गृध्रो भवत्वाशु मम वाक्यादसंशयम्

॥२३१॥

एवमुक्तस्ततस्तेन लज्जयाऽहं परिप्लुतः ॥

निवेद्य कन्यकां तस्मै प्रणिपत्य मुहुर्मुहुः

॥२३२॥

ततः प्रोक्तो मया विप्रस्त्वग्निवेश्यो महातपाः ॥

न मया ते सुता ज्ञाता न कोपयितुमर्हसि

॥२३३॥

गृध्रत्वं मे यथा न स्यात्तथाकुरु मुनीश्वर

॥२३४॥

ततोऽहं तेन च प्रोक्तो न मिथ्यावचनं मम ॥

कथंचिज्जायते तस्माद्गृध्रत्वं प्रभविष्यति

॥२३५॥

आनर्तस्योपदेशेन यदा यास्यसि भोऽधम ॥

भर्तृयज्ञं महाभागमुपदेशकृते तदा

॥२३६॥

तस्माच्च निष्कृतिं प्राप्य गृध्रत्वं ते प्रयास्यति ॥

स मयाऽन्वेषमाणेन न दृष्टो नैव च श्रुतः ।

निर्विण्णो गृध्रभावेन शापांतो न च मेऽभवत्

॥२३७॥

गृध्र उवाच

एतत्ते सर्वमाख्यातं गृधत्वस्य च कारणम् ॥

आयुष्यं च यथा जातं मम संख्याविवर्जितम्

॥२३८॥

इन्द्रद्युम्न उवाच

अनुज्ञां देहि मे शीघ्रं प्रविशामि हुताशनम् ॥

येन वैराग्यमापन्नो न हि जीवितुमुत्सहे

॥२३९॥

एवमुक्तः स तेनाथ चिंतयामास चेतसि ॥

ममांतिकं समायात एवं मित्रसमन्वितः ॥

तत्करोमि यथाशक्त्या स्वोपकारं सुदुर्लभम्

॥२४॥

ततः प्रोवाच तं प्रीत्या दाक्षिण्यं परमं गतः ॥

मा साधय चाग्निं भोः शृणु तावद्वचो मम

॥२४१॥

अहं ते कीर्तयिष्यामि मत्तो योऽपि चिरंतनः

॥२४२॥

यो ज्ञास्यति न संदेह इंद्रद्युम्नं महीपतिम्

॥२४२॥

तदागच्छ मया सार्धं तत्समीपं महात्मनः ॥

सहायैः सहितः सर्वैर्मया सार्धं तथैव च

॥२४३॥

इंद्रद्युम्न उवाच

कस्तवाप्यधिकोऽप्यस्ति जीवितव्येन सद्द्विज ॥

एतन्मे कौतुकं भूरि तस्माद्वद महामते

॥२४४॥

गृध्र उवाच

अस्ति मंथरकोनाम कमठश्चिरजीवितः ॥

मानसे सरसि ख्यात इन्द्रद्युम्नं स वेत्स्यति

॥२४५॥

तस्य तद्वचनं श्रुत्वा मार्कंडाद्याश्च ते त्रयः ॥

तमूचुः पार्थिवश्रेष्ठं मरणे कृतनिश्चयम्

॥२४६॥

युक्तमुक्तं महाभाग गृधराजेन धीमता ॥

तत्र यास्यामहे सर्वे यत्रासौ कमठः स्थितः

॥२४७॥

अनिर्वेदः श्रियो मूलं यतः शंसंति पंडिताः ॥

नीतिशास्त्रविदः सर्वे तस्मादागच्छ गम्यताम्

॥२४८॥

सूत उवाच

तेषां तद्वचनं श्रुत्वाकृच्छ्रान्निर्वर्त्य पार्थिवः ॥

मरणाद्ब्राह्मणश्रेष्ठा वैराग्यं परमं गतः

॥२४९॥

अथ ते प्रस्थिताः सर्वे गंधमादनपर्वतात् ॥

पंचापि च समादिश्य मानसं सर उत्तमम् ॥

अथ प्राप्ताः क्रमेणैव गच्छमाना विहायसा

॥२५०॥

मानसं तत्सरो रम्यं कूर्मस्तोयाद्विनिर्गतः ॥

निदाघे सेवमानस्तु संतिष्ठति यदृच्छया

॥२५१॥

स च तांश्चतुरो दृष्ट्वा सुचिरं च निरीक्ष्य तान् ॥

परिज्ञाय ततः सर्वान्प्रनष्टः सलिलं प्रति

॥२५२॥

अथ तं कौशिकः प्राह गच्छमानं पराङ्मुखम् ॥

भोभो मित्राय मां दृष्ट्वा संजातोऽसि पराङ्मुखः

॥२५३॥

सुनीचोऽपि गृहं प्राप्तो भवेत्पूज्य तमः सताम्

॥२५४॥

अथासौ तोयमध्यस्थः शिरोमात्रं बहिर्गतः ॥

प्रत्युवाचाथ तं गृध्रं विनयाद्द्विजसत्तमाः

॥२५५॥

नाहं पराङ्मुखो जात स्त्वां दृष्ट्वाऽनंतरावुभौ ॥

पंचमोऽयं समभ्येति यो युष्माकं महापुमान्

॥२५६॥

भयात्तस्य प्रणष्टोऽहमिंद्रद्युम्नस्य भूपतेः ॥

अनेन तु प्रदग्धा मे पुरा पृष्ठिर्मखाग्निना ॥

सततं यजमानेन रोचके सत्पुरोत्तमे

॥२५७॥

एतदीयं पुनः स्मृत्वा भयं मे सुमहत्स्थितम् ॥

इंद्रद्युम्नस्य राजर्षेः कीर्ति संश्रयणं महत्

॥२५८॥

इत्येवमुक्ते वचने कमठेन तदा दिवः ॥

देवदूतः समागच्छच्छासनात्परमेष्ठिनः

॥२५९॥

देवदूत उवाच

आगच्छागच्छ राजर्षे सांप्रतं ब्रह्मणोंऽतिकम् ॥

उक्तोऽहं ब्रह्मणा राजन्कीर्तिश्चास्य पृथग्विधा

॥२६०॥

यदा प्रकाशतां याति स्वल्पापि जगती तले ॥

तदाऽऽनेयो द्रुतं राजा मम लोके सुदुर्लभे [

॥२६१॥

तस्मादागच्छ गच्छामो विमानारोहणं कुरु ॥

नयामि येन तत्पार्श्वं ब्रह्मणोऽव्यक्तजन्मनः

॥२६२॥

इंद्रद्युम्न उवाच

यद्येते सुहृदो मह्यं बककौशिककच्छपाः ॥

मार्कंडेयेन सहिता आगच्छंति मया सह

॥२६३॥

आगच्छामि त्वया सार्धं तदहं ब्रह्मणोंऽतिकम् ॥

अन्यथा नागमिष्यामि सत्यमेतन्मयोदितम्

॥२६४॥

देवदूत उवाच

एते हरगणाः सर्वे शापभ्रष्टा क्षितिं गताः ॥

शापांते हरपार्श्वे तु यो यास्यंत्यसंशयम्

॥२६५॥

तस्मादागच्छ गच्छामो मुक्त्वात्रैतान्द्रुतं नृप ॥

न चैषां रोचते स्वर्गो मुक्त्वा देवं महेश्वरम्

॥२६६॥

इंद्रद्युम्न उवाच

यद्येवं गच्छ ते भद्रं नाहं गंता त्रिविष्टपम् ॥

तथातथा यतिष्यामि भविष्यामि यथा गणः

॥२६७॥

तत्रस्थस्य ध्रुवं भावि नित्यं च पतनाद्भयम् ॥

एवमुक्तः स तेनाथ समादाय विमानकम्

॥२६८॥

ब्रह्मलोकं गतो दूतो वैलक्ष्यं परमं गतः ॥

इंद्रद्युम्नोपि प्रपच्छ तं कूर्मं विनयान्वितः

॥२६९॥

आख्याहि कूर्म स्वं कर्म यदीदृक्त्वं चिरंतनः ।

कर्मणा केन तत्प्राप्तं कूर्मत्वं शंस मे द्रुतम्

॥२७०॥

कूर्म उवाच

अहमासं पुरा विप्रो बालभावे व्यवस्थितः ॥

चमत्कारपुरे रम्ये शांडिल्यो नाम विश्रुतः

॥२७१॥

बालक्रीडासु सर्वासु क्रीडमानो यदृच्छया ॥

पक्वेष्टिकमयं शंभोः क्रीडता निर्मितं गृहम् ॥

तत्र जागेश्वरं लिंगं हृत्वाऽथ विनिवेशितम्

॥२७२॥

ततोऽहं भक्तिसंयुक्तः पूजयामि दिनेदिने ॥

क्रीडमानो विना मंत्रैः शिशुभिः परिवारितः

॥२७३॥

कस्यचित्त्वथ कालस्य मरणे समुपस्थिते ।

जातिस्मरो ह्यहं विप्रो जातो वै वैदिशे पुरे

॥२७४॥

ततो मेऽभ्यधिका जाता भक्तिर्देवं हरं प्रति ॥

कृत्त्वा भिक्षाटनं नित्यं याचयित्वा धनं बहु

॥२७६॥

कृत्वा प्रासादमात्रं तु लिंगं संस्थापितं मया ॥

पूजयामि ततो भक्त्या देवं पशुपतिं हरम्

॥२७६॥

ब्रह्मविद्यासमोपेतो भिक्षान्नकृतभोजनः ॥

ब्रह्मचर्यसमोपेतस्त्रिकालं च जपञ्छिवम्

॥२७७॥

ततस्तेन प्रभावेन संजा तोऽहं भवांतरे ॥

सार्वभौमो महीपालो जातिस्मरणसंयुतः

॥२७८॥

ततः संख्याविहीनाश्च प्रासादाः कारिता मया ॥

त्रिनेत्रस्य महाराज कैलास शिखरोपमाः

॥२७९॥

तथा निरूपिता पूजा बहुपुष्पसमुद्भवा ॥

नान्यत्किंचित्करोम्यत्र धर्म दानादिकं नृप

॥२८०॥

ततः कालेन महता तुष्टो मे शशिशेखरः ॥

ततः प्रोवाच राजर्षे प्रहसञ्छ्लक्ष्णया गिरा

॥२८१॥

जयदत्त प्रतुष्टोऽस्मि तव पार्थिवसत्तम ॥

भक्त्याऽनया द्रुतं ब्रूहि किं ते यच्छामि वांछितम्

॥२८२॥

प्रणिपत्य ततोऽष्टांगं स्तुत्वा चैव पृथिग्विधम् ॥

मया प्रोक्तो हरो राजन्कुरु मामजरामरम् ॥

स तथेति प्रतिज्ञाय गतोंऽतर्धानमेव हि

॥२८३॥

अप्रमेयगतिर्देवश्चतुर्दशजगत्पतिः ॥

ततोऽहं तुष्टिसंयुक्तो जरामरणवर्जितः ॥

विचरामि महीपृष्ठे स्वेच्छया शत्रु वर्जितः

॥२८४॥

ततः कालेन महता गतेन नृपसत्तम ॥

बहुकामाग्निसंतप्तः शिवभक्तिविवर्जितः

॥२८५॥

यांयां पश्यामि रूपाढ्यां परनारीं मनोरमाम् ॥

तांतां निरीक्ष्य सुचिरं धर्षयामि ततः परम्

॥२८६॥

धर्मराजभयत्यक्तः पार्थिवत्वं समाश्रितः

॥२८७॥

एतस्मिन्नंतरे राजन्मम पापेन कर्मणा ॥

हाहाकारस्ततो जातः समग्रे धरणीतले

॥२८८॥

एतस्मिन्नंतरे प्राप्तो धर्मराजः शिवांतिकम् ॥

अब्रवीत्प्रणिपत्योच्चैर्दुःखित स्तदनंतरम्

॥२८९॥

त्वया देव महीपालो जयदत्तो महीतले ॥

यो निर्मितः प्रतुष्टेन जरामरणवर्जितः

॥२९॥

स सतीनां सतीत्वं च बलान्नाशयते कुधीः ॥

सर्वो भूपभयाल्लोकः सर्वधर्मबहिष्कृतः

॥२९१॥

संजातो विबुधश्रेष्ठ न स्वभावात्कथंचन ॥

तस्यैकमपि मे नास्ति भयं सत्यं ब्रवीमि ते

॥२९२॥

तस्माद्वारय तं शीघ्रं यावद्धर्मो न नश्यति ॥

मर्त्यलोकादशेषेण सतीनां धर्षणेन च

॥२९३॥

एवमुक्तस्ततो देवः कोपेन महतान्वितः ॥

शशाप मां समानीय वेपमानं कृताञ्जलिम्

॥२९४॥

यस्माद्दुष्टसमाचार कृतं कर्म विगर्हितम् ॥

तस्मान्मच्छाप निर्दग्धः कमठो वै भविष्यसि

॥२९५॥

ततो मया सुदीनेन प्रार्थितः परमेश्वरः ॥

शापांतं मे कुरुष्वेश कुरुष्व च दयां मम

॥२९६॥

ततस्तेन पुनः प्रोक्तं कल्पांते षष्टिसंज्ञिते ॥

स्वशरीरं पुनः प्राप्य मद्गणस्त्वं भविष्यसि

॥२९७॥

एतस्मिन्नंतरे कूर्मः संजातोऽहं महीपते ॥

समुद्रसलिलं प्राप्य संस्थितो दुःखितोऽनिशम्

॥२९८॥

कस्यचित्त्वथकालस्य राजंस्त्वं भूतले स्थितः ॥

यजनार्थं समानीतः समुद्रसलिलस्त्वया

॥२९९॥

स्थापितो भूमिपृष्ठे तु मंत्रै संस्तंभितस्तथा ॥

ममोपरि ततो यज्ञाः कृताः शतसहस्रशः

॥३००॥

क्रियमाणैश्च यैर्दग्धा मम पृष्ठिः समंततः ॥

दह्यतोऽपि महाराज तेन यज्ञाग्निना तदा ॥

प्रसादनान्महेशस्य न मे प्राणात्ययो ऽभवत्

॥३०१॥

केवलं जायते दाहो यथा पापं पुरा कृतम् ॥

अनुभूतं च तत्सर्वं हरकोपादसंशयम्

॥३०२॥

अथ प्राप्ते दिवं चैव त्वयि पार्थिवसत्तम ॥

एकार्णवे तु संजाते जलपूर्णे धरातले ॥

संप्राप्तः प्लवमानस्तु ततोऽहं मानसं सरः

॥३०३॥

षड्पंचाशत्प्रमाणेन कल्पा मम च संस्थिताः ॥

चतुर्भिरपरैर्मोक्षः कूर्मत्वात्संभविष्यति

॥३०४॥

एतत्ते सर्वमाख्यातं दीर्घायुष्ट्वस्य कारणम् ॥

हरप्रसादकरणाद्बहुपुष्पार्चनाद्विभोः

॥३०५॥

कूर्मत्वं च यथा जातं कामदेवस्य कोपतः ॥

स त्वं वद महाभाग गृहायातस्य किं तव ॥

करोमि सांप्रतं कृत्यं शत्रोरपि हृदि स्थितम्

॥३०६॥

त्वया मे सुचिरं कालं दग्धा पृष्ठिर्मखाग्निना ॥

अद्यापि च प्रपश्यामि तां ज्वलंतीमिव स्थिताम्

॥३०७॥

एतस्मात्कारणान्नष्टस्त्वां दृष्ट्वाहं महीपते ॥

कस्मात्त्वं न गतः स्वर्गं विमानेऽपि समागते ॥

एतस्मात्कारणाद्धर्मं प्रकुर्वंति नराधिपाः

॥३०८॥

इन्द्रद्युम्न उवाच

स्वर्गस्थाने च लोकानां नित्यं च पतना द्भयम् ॥

तन्न यास्याम्यहं तत्र यतिष्यामि विमुक्तये

॥३०९॥

स त्वं करोषि चेत्कृत्यं गृहायातस्य मे मखे ॥

चिरंतनं कथय मे यद्यस्ति तव सौहृदम्

॥३१०॥

कूर्म उवाच

लोमशो नाम विप्रर्षिः स मत्तोऽस्ति चिरंतनः ॥

श्रूयते स मया दृष्टो नदीतीरं समाश्रितः

॥३११॥

इन्द्रद्युम्न उवाच

तदागच्छत गच्छामो यतः सर्वे द्रुतं स्वयम् ॥

पृच्छामो बहुकालस्य जीवितस्य च कारणम्

॥३१२॥

अथ ते सहिताः पञ्च व्योममार्गेण संस्थिताः ॥

अथ ते ददृशुस्तत्र लोमशं च निराश्रयम्

॥३१३॥

स्वाध्यायनिरतं दांतं जपहोमपरायणम् ॥

सव्य हस्ते तृणौघेन छायार्थं विधृतेन च

॥३१४॥

दधतं चाक्षमालां च दक्षिणेन करेण हि ॥

ते तं दृष्ट्वा महात्मानं कृत्वा तस्य प्रदक्षिणाम् ॥

उपविष्टास्ततः सर्वे स्वागतेनाभिनन्दिताः

॥३१५॥

पृष्टास्तेन ततश्चैव के यूयं किमिहागताः ॥

विश्रब्धं कथ्यतां मह्यं येन सर्वं करोम्यहम्

॥३१६॥

कूर्म उवाच

मार्कंडो नाम विप्रर्षिः सप्तकल्पस्मरो ह्ययम् ॥

इन्द्रद्युम्नेन चानीतो भूभुजानेन सन्मुने

॥३१७॥

बकस्यास्य समीपे तु नाडीजंघस्य धीमतः ॥

चिरायुरिति विज्ञाय आत्मनश्चायुरुत्तमम् ॥

इन्द्रद्युम्नस्य वार्तार्थं द्विगुणायुषमात्मनः

॥३१८॥

अथ तेन न विज्ञातो यदा स पृथिवीपतिः ॥

तदा द्वावपि चायातावुलूकस्यास्य संनिधौ

॥३१९॥

द्विगुणास्तत्प्रमाणेन कल्पाश्चास्य महात्मनः ॥

वर्तंते नैव विज्ञातो नृपो ह्येतेन सद्द्विज

॥३२०॥

ततस्त्रयोऽपि चानीता गृध्रराजस्य चान्तिकम्

॥३२१॥

षट्पञ्चाशत्प्रमाणेन कल्पाश्चास्य महात्मनः ॥

वर्तन्ते नैव विज्ञातो नृपो ह्येतेन सद्द्विज

॥३२२॥

चत्वारोऽपि समानीता एतेनैव ममान्तिकम् ॥

चिरायुषं च मां ज्ञात्वा मित्रभावेन ते द्विज

॥३२३॥

मयाप्यसौ परिज्ञातो दूरादेव समागतः ॥

इन्द्रद्युम्नो ध्रुवं ह्येष दग्धा पृष्ठिः पुरा मम

॥३२४॥

येन यज्ञाग्निना मंत्रै स्तंभयित्वा क्षितेरधः ॥

ततोऽहं तद्भयान्नष्टो गृध्राद्यैश्च निवारितः

॥३२५॥

उपालंभैस्तु बहुभिः प्रणया ज्जलमाविशत् ॥

मयोक्तोऽथ स भूयोऽपि नाहं तव पराङ्मुखः

॥३२६॥

इन्द्रद्युम्नेन मे पृष्ठिर्येन दग्धा मखाग्निना ॥

एतस्मिन्नन्तरे स्वर्गाद्देवदूतो महामनाः ॥

विमानवरमारूढः प्राप्तश्चास्य महात्मनः

॥३२७॥

कीर्तिलोपाच्युतः स्वर्गादयमासीन्महीपतिः ॥

ततो विमानमायातमुक्तमात्रे मया दिवः

॥३२८॥

अथासौ न गतः स्वर्गं विनाऽस्माभिर्द्विजोत्तम ॥

मार्कंडेयं परित्यज्य तिर्यग्योनिगतैस्त्रिभिः

॥३२९॥

पृच्छतोऽस्य मया प्रोक्तमायुष्यं चात्मनः पुनः ॥

षण्णवतिप्रमाणेन कल्पा मे जीवतो गताः

॥३३०॥

पृष्टोऽहं पूर्वमेवात्र संस्थितस्तव पार्श्वतः ॥

चिरंतनतमो ब्रूहि मया त्वं तु निवेदितः

॥३३१॥

एतस्मात्कारणात्प्राप्ता वयं सर्वे तवांतिकम् ॥

तस्माद्यत्पृच्छते भूप एष त्वां तत्प्रकीर्तय

॥३३२॥

भर्तृयज्ञ उवाच

लोमशोऽप्यथ तं प्राह विश्रब्धं पृच्छ पार्थिव ॥

अवश्यं कथयिष्यामि यन्मां त्वं परिपृच्छसि

॥३३३॥

इंद्रद्युम्न उवाच

कस्मात्त्वं ग्रीष्मकालेऽपि मध्यं प्राप्ते दिवाकरे ॥

निवासार्थं गृहं रम्यं किमर्थं न करिष्यसि

॥३३४॥

लोमश उवाच

कस्यार्थे क्रियते गेहमनित्यं जीवितं यतः ॥

यदि स्याच्छाश्वतो देहस्तदर्थं क्रियते च तत्

॥३३५॥

इन्द्रद्युम्न उवाच

सर्वेषामेव लोकानां चिरायुः श्रूयते भवान् ॥

तेनाहमपि संप्राप्तो भवद्दर्शनकाम्यया

॥३३६॥

लोमश उवाच

कल्पे कल्पे तु संप्राप्ते रोमकं मम नश्यति ॥

अभावे सर्वरोम्णां च ततो नाशो भविष्यति

॥३३७॥

पश्य त्वं मच्छरीरेऽस्मिन्प्रकाशं रोमवर्जितम् ॥

न करोमि गृहं तेन कारणेन महामते

॥३३८॥

इन्द्रद्युम्न उवाच

किं त्वया विहितं कर्म येनेदृग्जीवितं स्थितम् ॥

किं दानस्यप्रभावोऽयं तपसो नियमस्य वा

॥३३९॥

लोमश उवाच

अहमासं पुरा शूद्रो दरिद्रेण परिप्लुतः ॥

भ्रमामि मेदिनीपृष्ठ उदरस्य कृते सदा

॥३४॥

कर्मयोगेन महता संप्राप्तो हाटकेश्वरम् ॥

क्षुत्क्षामस्तु पिपासार्तो यत्रैतल्लिंगमुत्तमम् ॥

अवधूतं ततो लिंगं मया दृष्ट्वा स्वयंभु तत्

॥३४१॥

स्नापितं तोयमादाय शीतमेतत्सुनिर्मलम् ॥

ततस्तु कमलैरेतैर्मया पूजा विनिर्मिता

॥३४२॥

अथ पूजां विनिर्वर्त्य यावन्मार्गसमाश्रितः ॥

क्षु त्क्षामकण्ठस्य ततः प्राणा नष्टास्तदा मम

॥३४३॥

अथाहं ब्राह्मणगृहे जातो जातिस्मरस्ततः ॥

सर्वं स्मरामि भूपाल देवदेवस्यपूजनात्

॥३४४॥

ततो मूकत्वमापन्नो नैव जल्पामि किंचन ॥

ईशान इति मे नाम पिता चक्रे प्रहर्षितः

॥३४५॥

ईशानेन यतो दत्तः पूर्वमाराधितेन च ॥

वैराग्यं परमं प्राप्तो इष्ट्वा संसारसंस्थितिम्

॥३४६॥

पिता मे बहुवात्सल्याद्भेषजानि प्रयोजयेत् ॥

वाचार्थं मंत्रवादांश्च तथा चैवोपयाचितम् ॥

ब्राह्मणान्पृच्छते नित्यं दिवारात्रिमतंद्रितः

॥३४७॥

ततो मे जायते हास्यं निजचित्ते नराधिप ॥

दृष्ट्वा संसारसंसक्तिं पितुर्मातुश्च भूरिशः

॥३४८॥

ततश्च यौवनं प्राप्तः क्रमेण नृपसत्तम ॥

यदा तदा निशि त्यक्त्वा तावुभौ चात्र संगतः

॥३४९॥

ततो हृष्टमना नित्यं पूजयामि समाहितः ॥

ईशानं परया भक्त्या संस्नाप्य सलिलेन च

॥३५॥

ब्राह्मणीतीर्थजातेन त्रिकालं नृपसत्तम ॥

शिलोंछवृत्तिमासाद्य प्राणयात्रां समाचरन् ॥

नीवारैर्बदरैः शाकैश्चिर्भटैः फलपत्रकैः

॥३५१॥

ततो मे भगवान्रुद्रः सर्वदेवेश्वरो हरः ॥

अब्रवीद्दर्शनं गत्वा मेघगम्भीरया गिरा

॥३५२॥

परितुष्टोऽस्मि ते वत्स वरं वरय सुवते ॥

अदेयमपि दास्यामि यद्यपि स्यात्सुदुर्लभम्

॥३५३॥

ततस्तं प्रणिपत्योच्चैः स्तुत्वा वाक्यैः पृथग्विधैः ॥

मया प्रोक्तं कुरु विभो जरामरण वर्जितम्

॥३५४॥

श्रीभगवानुवाच

अमरत्वं यतो नास्ति मर्त्यलोकेऽत्र कर्हिचित् ॥

मर्यादां कुरु तस्मात्त्वं जीवितस्य स्वकस्य वै

॥३५५॥

ततो मे भगवानुक्तः कल्पांते समुपस्थिते ॥

रोम्ण एकस्य मे नाशो जायतां त्रिदशेश्वर

॥३५६॥

यदा च सर्वरोम्णां मे विनाशः संप्रजायते ॥

तदा मम गणत्वं च जायतां तावकं विभो

॥३५७॥

एवं भविष्यतीत्युक्तं परं लिंग सदा मम ॥

स्नाप्यं जलेन चैतेन ब्राह्मणीसंभवेन च

॥३९८॥

ब्रह्माद्यैः पूजनीय च त्रिकालं द्विजसत्तम ॥

ममकैवासरं यावत्तव चायुर्भविष्यति

॥३५९॥

अन्योऽपि यो नरो भक्त्या पूजयिष्यति मामिह ॥

स्नापयिष्यति सद्भक्त्या विपाप्मा स भविष्यति

॥३६०॥

नापमृत्युर्भवेत्तस्य कदाचिद्द्विजसत्तम ॥

सकृत्संपूजिते ऽप्येवं ब्रह्माद्यैर्मत्कलेवरे

॥३६१॥

सकृत्पिबति यस्तोयं ब्रह्मतीर्थसमुद्भवम् ॥

सर्वपापविशुद्धात्मा तत्क्षणाज्जायते हि सः

॥३६२॥

एवमुक्त्वाथ देवेशस्ततश्चादर्शनं गतः

॥३६३॥

अहं तु संस्थितश्चात्र ततः प्रभृति पार्थिव ॥

पूजयानश्च सद्भक्त्या लिंगमेतत्सदैव हि

॥३६४॥

एतस्मात्कारणाज्जातं ममायुरतिविस्तृतम् ॥

शंकरस्य प्रसादेन नान्यदस्तीह कारणम्

॥३६५॥

इन्द्रद्युम्न उवाच

अहमप्यर्चयिष्यामि लिंगमेत त्त्वया सह ॥

नान्यत्र वा गमिष्यामि ममैवं हृदि निश्चयः

॥३६६॥

लोमश उवाच

एवं कुरु महाभाग त्वमवाप्स्यसि वांछितम् ॥

हरभक्तस्य लोकस्य वांछितं नास्ति दुलर्भम्

॥३६७॥

नाडीजंघो गृहं यातु मार्कंडगृधकौशिकाः ॥

कच्छपेन समायुक्तस्त्वं हि तिष्ठ ममा श्रमे

॥३६८॥

ततः प्रोचुश्च ते सर्वे न वयं तु नरेश्वर ॥

त्वां विना संप्रयास्यामो भूय एव निजालयम् ।

लिंगमाराधयिष्यामो यदेतद्भवता र्चितम्

॥३६९॥

एवमुक्त्वा तु ते सर्वे लोमशस्य वराश्रमे ॥

तस्थुः संपूजयामासुस्त्रिकालं लिंगमेव तत्

॥३७०॥

संस्नाप्य ब्राह्मणीतोयैः पद्मा द्यैः पूजयंति च

॥३७१॥

कस्यचित्त्वथ कालस्य नारदो मुनिसत्तमः ॥

तीर्थयात्राप्रसंगेन संप्राप्तस्तत्र यत्र ते

॥३७२॥

अथ ? नारदं दृष्ट्वा कृत्वा चैवार्हणक्रियाम् ॥

विश्रांतं च ततो ज्ञात्वा पप्रच्छुर्विनयान्विताः

॥३७३॥

शापभ्रष्टा वयं सर्वे यतः संवर्तदर्शनात् ॥

बकाद्याश्चैव चत्वारः कूर्मांताश्च महामुने

॥३७४॥

न स विज्ञायते क्वापि कस्मिन्स्थाने व्यवस्थितः ॥

किंरूपः किंप्रमाणश्च किमाचारः क्व संस्थितः

॥३७५॥

स त्वं यदि विजानासि यत्र तं संस्थितं मुनिम् ॥

तद्वदस्व महाभाग न किंचित्तेऽस्त्यगोचरम्

॥३७६॥

श्रीनारद उवाच

अहं जानामि तं सम्यक्संवर्तं मुनिसत्तमम् ॥

गुप्ताचारेण तिष्ठंतं नान्यो वेत्ति कथंचनम्

॥३७७॥

वाराणास्यां स्थितो नित्यं सोऽवधूतो महामुनिः ॥

विवस्त्रो मलदिग्धांगः सदारण्यं समाश्रितः

॥३७८॥

भिक्षार्थं कुतपे काले समागच्छति तां पुरीम् ॥

पाणिपात्रकृताहारो गृहैः कैश्चित्सदैव हि

॥३७९॥

भूयोपि याति सायाह्ने किंचिदेव वनांतरम् ॥

तस्यां पुर्यां तथारूपाः शतशोऽथ सहस्रशः

॥३८०॥

तिष्ठंति तापसश्रेष्ठास्तस्य वक्ष्यामि लक्षणम् ॥

भवद्भिः स यथा ज्ञेयो मम वाक्यादसंशयम्

॥३८१॥

वाराणस्याः प्रतोल्यां च स्थापनीयं सुयत्नतः ः।

कुणपं चैव गुप्तं च यथा नो वेत्ति कश्चन

॥३८२॥

यास्यंति तापसाः सर्वे तमतिक्रम्य भूरिशः ॥

संवर्तो दिव्यदृष्टिस्तु शल्यं नातिक्रमिष्यति

॥३८३॥

निवर्तनं तु यश्चक्रे भूभागात्कुणपाश्रयात् ॥

स संवर्तः परिज्ञेयः प्रष्टव्यश्च ततः परम्

॥३८४॥

यदि पृच्छति केनाहं भवतां संनिवेदितः ॥

नारदेन ततो वाच्यं स त्वां जानाति वै सदा

॥३८५॥

यदि पृच्छति भूयः स नारदः क्व स तिष्ठति

॥३८६॥

ततो वाच्यो निवेद्य त्वां प्रतिष्टो हव्यवाहनम्

॥३८७॥

तच्छ्रुत्वा नारदवचः सर्वे वै लोमशादयः ॥

वाराणसीं पुरीं प्राप्तास्तस्य दर्शनलालसाः

॥३८८॥

प्रतोल्यां कुणपं स्थाप्य गुप्तं लोकैरलक्षितम् ॥

स्वयं चैव स्थिता दूरं प्रेक्षमाणाः प्रयत्नतः

॥३८९॥

ततस्तु कुतपे काले संवर्तस्तु समागतः ॥

यादृग्रूपः पुरा प्रोक्तो नारदेन महात्मना

॥३९०॥

स दृष्ट्वा कुणपं तत्र दिव्यदृष्ट्या महामुनिः ॥

निवृत्तः क्षुत्पिपासार्तो नैव शल्यमलंघयत्

॥३९१॥

अथ ते तं समुद्दिश्य पृष्ठतोऽनुययुस्तदा ॥

तिष्ठतिष्ठेति जल्पंतः प्रसादः क्रियतामिति ।

सोऽपि निर्भर्त्सयन्नेतान्निवर्तध्वमिति ब्रुवन् ॥

मा गच्छत मत्समीपमिति प्रोच्य पलायितम्

॥३९३॥

अथ दूरतरं गत्वा स प्रोवाच क्षुधान्वितः

॥३९४॥

केनादिष्टोऽस्मि युष्माकं स शीघ्रं मे निवेद्यताम् ॥

शापाग्नौ येन तं पापं भस्मसात्प्रकरोम्यहम्

॥३९५॥

त ऊचुः

नारदेन समाख्यातो भवानत्र स्थितो हि नः ॥

कथयित्वा ततो वह्नौ संप्रविष्टः स तत्क्षणात्

॥३९६॥

संवर्त उवाच

अहं तदेव कर्ता च तस्य दुष्टस्य सांप्रतम् ॥

निर्दिष्टो येन युष्माकं गुप्ताचारं समाश्रितः

॥३९७॥

त ऊचुः. ॥

भगवन्नारदेनोक्तस्त्वमस्माकं महामुने ॥

चिरादन्वेष्यमाणानां नान्यस्त्वां वेत्ति कश्चन

॥३९८॥

तावन्निवेद्य चास्माकं प्रविष्टो हव्यवाहनम् ॥

तत्क्षणादेव विप्रेंद्र न विद्मस्तत्र कारणम्

॥३९९॥

संवर्त उवाच

अहमप्यतिसंक्रुद्धः शापात्कर्तुं समुद्यतः

॥४०॥

एतदेवहि तस्माच्च स्वयमेव कृतं च यत् ॥

० तस्माद्वदथ मे शीघ्रं कस्माद्यूयं समागताः

॥४०१॥

चिरं स्थास्यामि नात्राहं भ्रमिष्यामि पुरीं प्रति ॥

प्राणयात्राकृते भिक्षां करिष्यामि स्वयं यतः

॥४०२॥

विशल्यः क्रियतां मार्गः कुणपं ह्रियतां च यत् ॥

नोचेच्छापं प्रदास्यामि यद्येवं न करिष्यथ

॥४०३॥

तथाहं नैव वक्तव्यः कस्यचिच्चात्र संस्थितः ।

अन्वेषयति मां नित्यं मरुत्तः पृथिवीपतिः

॥४०४॥

यज्ञार्थं नैव तं भूपं याजयिष्ये कथंचन ॥

धिषणेन परित्यक्तो गुरुणा स महीपतिः

॥४०५॥

गुरुपुत्रं च मां ज्ञात्वा ततोऽन्वेषयते हि माम्

॥४०६॥

त ऊचुः

शापभ्रष्टा वयं सर्वे चत्वारोऽपि बकादयः ॥

पक्षित्वं चैव संप्राप्ता ब्रह्मशापेन सन्मुने

॥४०७॥

महेश्वरगणाश्चैव वयं त्रैलोक्यवंदिताः ॥

तिर्यग्योनिं समानीता वैराग्यं परमं गताः

॥४०८॥

शापांतस्तु समादिष्टस्तैर्विप्रैः स्त्रीसमु द्भवः ।

तवोपदेशतस्तेन बकाद्याः शरणं गताः

॥४०९॥

तस्मात्त्राहि महाभाग पक्षित्वात्सांप्रतं विभो

॥४१०॥

निर्विण्णाश्चिरकालं च पक्षित्वस्य निषेवणात् ॥

एतच्च कारणं नान्यत्तव संगसमुद्भवम्

॥४१३॥

संवर्त उवाच

यद्येवं गम्यतां शीघ्रं चमत्कारपुरं प्रति ॥

भर्तृ यज्ञः स्थितोऽप्यत्र सर्वसंदेहहारकः

॥४१२॥

स वै दास्यति सर्वेषामुपदेशं सुशोभनम् ॥

तेन प्राप्स्यथ संदेहं पूर्वीयं च यथास्थितम्

॥४१३॥

स पूर्वं याज्ञवल्क्योऽभूत्सर्वशास्त्रार्थपारगः ॥

ततो भवांतरेऽन्यस्मिन्कात्यायन इति स्मृतः

॥४१४॥

ततो देहांतरं प्राप्य ख्यातो वररुचिर्द्विजः ॥

ततो देहांतरेऽन्यस्मिन्वेश्यापुत्रो बभूव ह

॥४१५॥

आराधिता ब्रह्मसुता देवी वाग्रूपिणी सदा ॥

न च तुष्टा स्वयं देवी कारणं वीक्ष्य किंचन

॥४१६॥

ब्राह्मणेन प्रजातस्तु देहांतं प्राप्य किंचन ॥

तस्य वक्त्रं समापन्ना स्वयमेव सरस्वती

॥४१७॥

पूर्वमाराधिता नित्यं न सा त्यजति कर्हिचित् ॥

तस्याश्चर्यमभूच्चान्यद्यज्ञे वेश्यासुतस्य हि

॥४१९॥

ब्रह्मसूत्रं समभ्येति स्कंधे निर्याति गच्छति

॥४१९॥

पूर्वेषामेव लोकानां यज्ञकर्मसु संस्थितान् ॥

स संदेहान्हरत्येव यथा नान्योऽत्र कश्चन

॥४२०॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा प्रणिपत्य मुहुर्मुहुः ॥

गतास्ते कुणपं यत्र संवर्तेन प्रणोदिताः

॥४२१॥

तच्चाकृष्य ततः सर्वे चमत्कारपुरं गताः ॥

वास्तुस्थानपदे तीर्थे तं दृष्ट्वा तत्र संस्थितम्

॥४२२॥

प्रणिपत्य ततः प्रोचुः सर्वे विनयसंस्थिताः ॥

ब्रह्मशापेन निर्दग्धा वयं चत्वार एव हि

॥४२३॥

पक्षित्वं समनुप्राप्तास्त्रयः कूर्मत्वमन्यकः ॥

य एते च त्रयोऽस्माकं स्थिताः पार्श्वे महत्तराः

॥४२४॥

मार्कंडः कथितो ह्येष इंद्रद्युम्नस्तथा परः ॥

तृतीयो लोमशो नाम विख्यातः सुमहातपाः

॥४२५॥

जीवितव्यस्य निर्विण्णास्त्रय एव च सांप्रतम् ॥

उपदेशप्रदानेन प्रसादं कर्तुमर्हसि

॥४२६॥

सूत उवाच

तेषां तद्वचनं श्रुत्वा भर्तृयज्ञो महामुनिः ॥

अब्रवीत्सुचिरं ध्यात्वा ज्ञात्वा दिव्येन चक्षुषा

॥४२७॥

यूयं सप्तैव लिंगानि स्थापयध्वं समागताः ॥

हाटकेश्वरजे क्षेत्रे. नाम्ना चैवांतिके निभोः

॥४२८॥

ततो दानानि सप्तैव तेषामग्रे प्रयच्छत ॥

कुलपर्वतसंज्ञानि सर्वपापहराणि च

॥४२९॥

ततः प्राप्स्यथ चाभीष्टं वपुर्दिव्यं मनोरमम् ॥

गणत्वं देवदेवस्य त्रिने त्रस्य महात्मनः

॥४३०॥

त ऊचुः

प्रकीर्तय विभो दानं तेषां यच्छामहे यथा ॥

प्रमाणं च विधानं च विस्तरेण महामुने

॥४३१॥

भर्तृयज्ञ उवाच

देयो हेममयो मेरुः कैलासो रजतोद्भवः ॥

कार्प्पासेन हिमाद्रिस्तु गुडजो गंधमादनः

॥४३२॥

सुवेलस्तु तिलैर्देयो विंध्यः शर्करया तथा ॥

लवणेन तथा शृंगी यथोक्तविधिना ततः

॥४३३॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा संस्थाप्य विधिपूर्वकम् ॥

सप्तलिंगानि तैः पश्चात्प्रदत्ताः कुलपर्वताः

॥४३४॥

इंद्रद्युम्नेश्वरस्याग्रे इंद्रद्युम्नः प्रतापवान् ॥

मेरुं हेममयं कृत्वा भर्तृयज्ञमते स्थितः

॥४३५॥

मार्कंडेश्वरदेवस्य मार्कंडेन च धीमता ॥

कैलासो राजतो दत्तो भक्तिपूर्वं द्विजोत्तमाः

॥४३६॥

कार्पासो हिमवान्दत्तः पालकेन द्विजातये ॥

गंधमादनसंज्ञस्तु प्रदत्तो गुडजः पुरः

॥४३७॥

घंटकेश्वरदेवस्य घंटकेन द्विजोत्तमाः ॥

कच्छपेन तु संदत्तः सुवेलः पर्वतोत्तमः

॥४३८॥

कच्छपेश्वरदेवस्य पुरस्तिलमयस्तथा ॥

शार्करस्तु तदा शैलः प्रदत्तो भक्तिपूर्वकम्

॥४३९॥

शैल ईशानसंज्ञेन निजदेवस्य चाऽग्रतः ॥

वानरेश्वर देवस्य पुरतो द्विजसत्तमाः

॥४४०॥

गृध्रेणाथ प्रदत्तस्तु लवणाख्यो महागिरिः ॥

शृंगी नाम महाभागः श्रद्धापूतेन चेतसा

॥४४१॥

तत्राश्चर्यमभूद्विप्रा दत्तमात्रैर्नगोत्तमैः ॥

पक्षित्वं निर्गतं तेषां कूर्मत्वमितरस्य च

॥४४२॥

एतस्मिन्नेव काले तु सर्वे ते तत्प्रभावतः ॥

दिव्यमाल्यांबरधरा दिव्यगंधानुलेपनाः ॥

संजाता ब्राह्मणश्रेष्ठा ये च तत्संमुखे स्थिताः

॥४४३॥

विमानानि च सर्वेषां समायातानि तत्क्षणात् ।

१ भर्तृयज्ञमनुप्राप्य प्रणिपत्य च तान्द्विजान् ॥

कैलासं पर्वतं प्राप्ता विमानवरमाश्रिताः

॥४४४॥

एतद्वः सर्वमाख्यातं यथा तल्लिंगसप्तकम् ॥

हाटकेश्वरजे क्षेत्रे संजातं पापनाशनम्

॥४४५॥

अन्योऽपि यः पुनस्तेषां लिंगानां भक्तिसंयुतः ॥

कुलपर्वतदानं च कुर्यात्सोऽपि शिवं व्रजेत्

॥४४८॥

तानि लिंगानि यो मर्त्यः प्रातरुत्थाय वीक्षते ॥

अज्ञानविहितात्पापात्सोऽपि मुक्तिमवाप्नुयात्

॥४४७॥

यश्चैतान्पर्वतान्सप्त क्रमेणात्र प्रयच्छति ॥

द्विजातिभ्यः स्वलिंगानां पुरतस्त्रिदिवं व्रजेत्

॥४४८॥

स्थित्वा कल्पांतरं तत्र संसेव्य च वराप्सराः ॥

दिव्यान्भोगांश्च संसेव्य यदा भूमौ प्रजायते ॥

चक्रवर्तित्वमासाद्य सार्वभौमः प्रजायते

॥४४९॥

एकेन तु प्रदत्तेन जायते पापसंक्षयः ॥

द्वाभ्यां पुत्राश्च पौत्राश्च वांछितानि फलानि च ॥

त्रिभिः संजायते राजा चतुर्भिर्मंडलेश्वरः ॥

भारतस्य च खण्डस्य स्वामी भवति पंचभिः

॥४५१॥

जंबुद्वीपाधिपः षङ्भिश्चक्रवर्ती च सप्तभिः ॥

विधिवत्पर्वतैर्दत्तैरेत दाह पितामहः

॥४५२॥

नरः स्याद्ब्राह्मणश्रेष्ठाः सदाजन्मनिजन्मनि ॥

न दुःखितो दरिद्रो वा व्याधितो वा प्रजायते

॥४५३॥

सौभाग्यसुखसंयुक्तः सुदेहो रत्नवान्भवेत् ॥

सर्वराज्यविनिर्मुक्तः प्रतापी विजितेन्द्रियः

॥४५४॥

तस्मात्सर्वप्रयत्नेन भूमिपालैर्विशेषतः ॥

एतं च पर्वता देया उद्दिश्य निजदेवताः

॥४५५॥

इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सप्तलिंगोत्पत्ति माहात्म्यवृत्तान्तवर्णनंनामैकसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७१ ॥