मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १७

3
नागरखण्डः · 17

विदूरथमृगयावर्णनम्

ऋषय ऊचुः

चमत्कारपुरोत्पत्तिः श्रुता त्वत्तो महामते ॥

तत्क्षेत्रस्य प्रमाणं यत्तदस्माकं प्रकीर्तय ॥

यानि तत्र च पुण्यानि तीर्थान्यायतनानि च ॥

सहितानि प्रभावेण तानि सर्वाणि कीर्तय

॥२॥

सूत उवाच

पञ्चक्रोशप्रमाणेन क्षेत्रं ब्राह्मणसत्तमाः ॥

आयामव्यासतश्चैव चमत्कारपुरोत्तमम्

॥३॥

प्राच्यां तस्य गयाशीर्षं पश्चिमेन हरेः पदम् ॥

दक्षिणोत्तरयोश्चैव गोकर्णेश्वरसंज्ञितौ

॥४॥

हाटकेश्वर संज्ञं तु पूर्वमासीद्द्विजोत्तमाः ॥

तत्क्षेत्रं प्रथितं लोके सर्वपातकनाशनम्

॥५॥

यतः प्रभृति विप्रेभ्यो दत्तं तेन महात्मना ॥

चमत्कारेण तत्स्थानं नाम्ना ख्यातिं ततो गतम्

॥६॥

ब्राह्मणा ऊचुः

यदेतद्भवता प्रोक्तं तस्य पूर्वे गयाशिरः ॥

माहात्म्यं तस्य नो ब्रूहि सूतपुत्र सविस्तरम्

॥७॥

सूत उवाच

आसीद्विदूरथोनाम हैहयाधिपतिः पुरा ॥

यो वै दानपतिर्दक्षः शत्रुपक्षक्षयावहः

॥८॥

स कदाचिन्मृगान्हंतुं नृपः सेनावृतो ययौ ॥

नानावृक्षलताकीर्णं वनं श्वापदसंकुलम्

॥९॥

स जघान मृगांस्तत्र शरैराशीविषोपमैः ॥

महिषांश्चवराहांश्च तरक्षूञ्च्छम्बरान्रुरून्

॥१०॥

सिंहान्व्याघ्रान्गजान्मत्ताञ्च्छतशोऽथ सहस्रशः ॥

अथ तेन मृगो विद्धः शरेणाऽऽनतपर्वणा

॥११॥

न पपात धरापृष्ठे सशरो दुद्रुवे द्रुतम् ॥

ततः स कौतुकाविष्टस्तस्य पृष्ठे हयोत्तमम् ॥

प्रेरयामास वेगेन मनोमारुतवेगधृक्

॥१२॥

ततः सैन्यं समुत्सज्य मृगं लिप्सुर्महीपतिः ॥

अन्यद्वनांतरं प्राप्तो रौद्रं चित्तभयावहम्

॥१३॥

कण्टकीबदरीप्रायं शाल्मलीवनसंकुलम् ॥

तथान्यैः कण्टकाकीर्णै रूक्षै र्वृक्षैः समन्वितम्

॥१४॥

तत्र रूक्षाऽखिला भूमिर्निर्जला तमसा वृता ॥

चीरिकोलूकगृधाढ्या शीर्षच्छायाविवर्जिता

॥१५॥

ग्रीष्मे मध्यगते सूर्ये मृगाकृष्टः स पार्थिवः ॥

दूराध्वानं जगामाऽथ प्रासपाणिर्वराश्वगः

॥१६॥

तेन तस्यानुगा भृत्याः सर्वे सुश्रांतवाहनाः ॥

क्षुत्पिपासाकुलाः श्रांताः स्थाने स्थाने समाश्रिताः

॥१७॥

सिंहव्याघ्रैस्तथा चान्यैः पतिता नष्टचेतनाः ॥

भक्ष्यंते चेतयन्तोऽपि तथाऽन्ये चलनाक्षमाः

॥१८॥

ततः सोऽपि महीपालः क्षुत्पिपासासमाकुलः ॥

दृष्ट्वा तद्व्यसनं प्राप्तमात्मनः सेवकैः समम्

॥१९॥

कांतारस्यांतमन्विच्छन्प्रेरयामास तं हयम् ॥

जात्यं सर्वगुणोपेतं कशाघातैः प्रताडयन्

॥२०॥

ततः स नृपतिस्तेन वायुवेगेन वाजिना ॥

नीतो दूरं दुर्गमार्गं सर्वजंतुविवर्जितम्

॥२१॥

एवं तस्य नरेन्द्रस्य कांदिशीकेऽनवस्थिते ॥

सोऽश्वोऽपतद्धरापृष्ठे सोऽप्यधस्तात्तुरंगमात्

॥२२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विदूरथमृगयावर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥