मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २२५

3
नागरखण्डः · 225

सपिंडीकरणविधिवर्णनम्

आनर्त उवाच

एकोद्दिष्टविधिं ब्रूहि मम त्वं वदतां वर ॥

पार्वणं तु यथा प्रोक्तं विस्तरेण महामते

॥१॥

भर्तृयज्ञ उवाच

त्रीणि संचयनादर्वाक्तानि त्वं शृणु सांप्रतम् ॥

यस्मिन्स्थाने भवेन्मृत्युस्तत्र श्राद्धं तु कारयेत्

॥२॥

एकोद्दिष्टं ततो मार्गे विश्रामो यत्र कारितः ॥

ततः संचयनस्थाने तृतीयं श्राद्धमिष्यते

॥३॥

प्रथमेऽह्नि द्वितीयेह्नि पञ्चमे सप्तमे तथा ॥

नवमे दशमे चैव नव श्राद्धानि तानि च

॥४॥

वैतरिण्याश्च संप्राप्तौ प्रेतस्तृप्तिमवाप्नुयात् ॥

एकोद्दिष्टं दैवहीनमेकार्घैकपवित्रकम्

॥५॥

आवाहनपरित्यक्तं कार्यं पार्थिवसत्तम ॥

तृप्तिप्रश्नस्तथा कार्यः स्वदितं च सकृत्ततः

॥६॥

अभिरम्यतामिति मन्त्रेण ब्राह्मणस्य विसर्जनम् ॥

अच्छिन्नाग्रमभिन्नाग्रं कुर्याद्दर्भतृणद्वयम् ॥

पवित्रं तद्विजानीयादेकोद्दिष्टे विधीयते

॥७॥

सर्वत्रैव पितः प्रोक्तं पिता तर्पणकर्मणि ॥

पित्र्ये संकल्पकाले च पितुरक्षय्यदापने

॥८॥

गोत्रं स्वरांतं सर्वत्र गोत्रे तर्पणकर्मणि ॥

गोत्राय कल्पनविधौ गोत्रस्याक्षय्यदापने

॥९॥

शर्मन्नर्घ्यादिकर्तव्ये शर्मा तर्पणकर्मणि ॥

शर्मणे सस्यदाने च शर्मणोऽक्षय्यके विधौ

॥१०॥

मातर्मात्रे तथा मातुरासने कल्पनेऽक्षये ॥

गोत्रे गोत्रायै गोत्रायाः प्रथमाद्या विभक्तयः

॥११॥

देवि देव्यै तथा देव्या एवं मातुश्च कीर्तयेत् ॥

प्रथमा च चतुर्थी च षष्ठी स्याच्छ्राद्धसिद्धये

॥१२॥

विभक्तिरहितं श्राद्धं क्रियते वा विपर्ययात् ॥

अकृतं तद्विजानीयात्पितृणां नोपतिष्ठति

॥१३॥

तस्मात्सर्वप्रयत्नेन ब्राह्मणेन विजानता ॥

विभक्तिभिर्यथोक्ताभिः श्राद्धे कार्यो विधिः सदा

॥१४॥

ततः सपिंडीकरणं वत्सरा दूर्ध्वतः स्थितम् ॥

वृद्धिर्वाऽऽगामिनी चेत्स्यात्तदार्वागपि कारयेत्

॥१५॥

पार्वणोक्तविधानेन त्रिदैवत्यमदैविकम् ॥

प्रेतमुद्दिश्य कर्तव्यमेको द्दिष्टं च पार्थिव

॥१६॥

एकेनैव तु पाकेन मम चैतन्मतं स्मृतम् ॥

अर्घपात्रं समादाय यत्प्रेतार्थं प्रकल्पितम्

॥१७॥

पितृपात्रेषु त्रिष्वेव त्रिधा तच्च परिक्षिपेत् ॥

एवं पिंडं त्रिधा कृत्वा पितृपिंडेषु च त्रिषु

॥१८॥

ये समानेति मन्त्राभ्यां न स्यात्प्रेतस्ततः परम् ॥

अवनेजनं ततः कृत्वा पितृपूर्वं यथाक्रमम्

॥१९॥

गन्धधूपादिकं सर्वं पुनरेव प्रदापयेत् ॥

पितृपूर्वं समुच्चार्य वर्जयेच्च चतुर्थकम्

॥२०॥

केचिच्चतुर्थं कुर्वंति प्रेतं च स्वपितुस्ततः ॥

पितुः पूर्वं भवेच्छ्राद्धं परं नैतन्मतं मम

॥२१॥

सपिण्डीकरणादूर्ध्वमेकोद्दिष्टं न कारयेत् ॥

क्षयाहं च परित्यज्य शस्त्राहत चतुर्दशीम्

॥२२॥

यः सपिण्डीकृतं प्रेतं पृथक्पिण्डे नियोजयेत् ॥

अकृतं तद्विजानीयात्पितृहा चोपजायते

॥२३॥

पिता यस्य तु निर्वृत्तो जीवते च पितामहः ॥

पितुः स नाम संकीर्त्य कीर्तयेत्प्रपितामहम्

॥२४॥

पितामहस्तु प्रत्यक्षं भुक्त्वा गृह्णाति पिण्डकम् ॥

पितामहक्षयाहे च पार्वणं श्राद्धमिष्यते

॥२५॥

जनकं स्वं परित्यज्य कथंचिन्नास्य दीयते ॥

तस्याकृतेन श्राद्धेन न स्वल्पं पितृतो भयम्

॥२६॥

अमावास्यासु सर्वासु मृते पितरि पार्वणम् ॥

नभस्यापरपक्षस्य मध्ये चैतदुदाहृतम्

॥२७॥

यावत्सपिंडता नैव न तावच्छ्राद्धमाचरेत्

॥२८॥

जनके मृत्युमापन्ने श्राद्धपक्षे समागते ॥

पितामहादेः कर्तव्यं श्राद्धं यन्नैकपिंडता

॥२९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सपिंडीकरणविधिवर्णनंनाम पञ्चविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२५ ॥