मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २५८

3
नागरखण्डः · 258

प्रवृत्तायां शैलपुत्र्यां महत्तपसि दारुणे

गालव उवाच

प्रवृत्तायां शैलपुत्र्यां महत्तपसि दारुणे ॥

कन्दर्पेण पराभूतो विचचार महीं हरः

॥१॥

वृक्षच्छायासु तीर्थेषु नदीषु च नदेषु च ॥

जलेन सिंचत्स्ववपुः सर्वत्रापि महेश्वरः

॥२॥

तथापि कामाकुलितो न लेभे शर्म कर्हिचित् ॥

एकदा यमुनां दृष्ट्वा जलकल्लोलमालिनीम्

॥३॥

विगाहितुं मनश्चक्रे तापार्तिं शमयन्निव ॥

कृष्णं बभूव तन्नीरं हरकायाग्निवह्निना

॥४॥

दग्धं विगाहनेनाशु मषीप्रायं तदा बभौ १।

साऽपि दिव्यवपुः पूर्वं श्यामा भूत्वा हराद्यतः

॥५॥

स्तुत्वा नत्वा महेशानमुवाच पुनरेव सा ॥

प्रसादं कुरु देवेश वशगास्मि सदा तव

॥६॥

ईश्वर उवाच

अस्मिंस्तीर्थवरेपुण्ये यः स्नास्यति नरो भुवि ॥

तस्य पापसहस्राणि यास्यंति विलयं ध्रुवम् १

॥७॥

हरतीर्थमिति ख्यातं पुण्यं लोके भविष्यति ॥

इत्युक्त्वा तां प्रणम्याथ तत्रैवांतरधीयत

॥८॥

तस्यास्तीरे महेशोऽपि कृत्वा रूपं मनोहरम् ॥

कामालयं वाद्यहस्तं कृतपुंड्रं जटाधरम्

॥९॥

स्वेच्छया मुनिगेहेषु दर्शयत्यंगचापलम् ॥

क्वचिद्गायति गीतानि क्वचिन्नृत्यति छन्दतः

॥१०॥

स च क्रुद्ध्यति हसति स्त्रीणां मध्यगतः क्वचित् ॥

एवं विचरतस्तस्य ऋषिपत्न्यः समंततः

॥११॥

पत्युः शुश्रूषणं गेहे त्यक्त्वा कार्याण्यपि क्षणात् ॥

तमेव मनसा चक्रुः पतिरूपेण मोहिताः

॥१२॥

भ्रमंत्यश्चैव हास्यानि चक्रुस्ता अपि योषितः ॥

ततस्तु मुनयो दृष्ट्वा तासां दुःशीलभावनाम्

॥१३॥

चुक्रुधुर्मुनयः सर्वे रूपं तस्य मनोहरम् ॥

गृह्यतां हन्यतामेष कोऽयं दुष्ट उपागतः

॥१४॥

इति ते गृह्य काष्ठानि यदोपस्थे ययुस्तदा ॥

पलायितः स बहुधा भयात्तेषां महात्मनाम्

॥१५॥

यो जीवकलया विश्वं व्याप्य तिष्ठति देहिनाम् ॥

न ज्ञायते न च ग्राह्यो न भेद्यश्चापि जायते

॥१६॥

न शेकुस्ते यदा सर्वे ग्रहीतुं तं महेश्वरम् ॥

तदा शिवं प्रकुपिता शेपुरित्थं द्विजातयः

॥१७॥

यस्माल्लिंगार्थमागत्य ह्याश्रमांश्चोरवत्कृतम् ॥

परदारापहरणं तल्लिङ्गं पततां भुवि

॥१८॥

सद्य एव हि शापं त्वं दुष्टं प्राप्नुहि तापस ॥

एवमुक्ते स शापाग्निर्वज्ररूपधरो महान्

॥१९॥

तल्लिगं धूर्जटेश्छित्त्वा पातयामास भूतले ॥

रुधिरौघपरिव्याप्तो मुमोह भगवान्विभुः

॥२०॥

वेदनार्त्तोज्ज्वलवपुर्महाशापाभिभूतधीः ॥

तं तथा पतितं दृष्ट्वा त आजग्मुर्महर्षयः

॥२१॥

आकाशे सर्वभूतानि त्रेसुर्विश्वं चचाल ह ॥

देवाश्च व्याकुला जाता महाभयमुपागताः

॥२२॥

ज्ञात्वा विप्रा महेशानं पीडिता हृदयेऽभवन् ॥

शुशुचुर्भृशदुःखार्ता दैवं हि बलवत्तरम्

॥२३॥

किं कृतं भगवानेष देवैरपि स सेव्यते ॥

साक्षी सर्वस्य जगतोऽस्माभिर्नैवोपलक्षितः

॥२४॥

वयं मूढधियः पापाः परमज्ञानदुर्बलाः ॥

कथमस्माभिर्यस्यात्मा श्रुतश्च न निवेदितः

॥२५॥

मयेदृशो गृहस्थाय ह्यात्माऽयं न निवेदितः ॥

निर्विकारो निर्विषयो निरीहो निरुपद्रवः

॥२६॥

निर्ममो निरहंकारो यः शंभुर्नोपलक्षितः ॥

यस्य लोका इमे सर्वे देहे तिष्ठंति मध्यगाः

॥२७॥

स एष जगतां स्वामी हरोऽस्माभिर्न वीक्षितः ॥

इत्युक्त्वा ते ह्युपविष्टा यावत्तत्र समागताः

॥२८॥

तान्दृष्ट्वा सहसा त्रस्तः पुनरेव महेश्वरः ॥

विप्रशापभयान्नष्टस्त्रिपुरारिर्दिवं ययौ

॥२९॥

सुरभिं गां च गोलोके तां तुष्टाव सुसंयतः १।

सृष्टिस्थिति विनाशानां कर्त्र्यै मात्रे नमोनमः

॥३०॥

या त्वं रसमयैर्भावैराप्यायसि भूतलम् ॥

देवानां च तथासंघान्पितॄणामपि वै गणान् ॥

सर्वै र्ज्ञाता रसाभिज्ञैर्मधुरास्वाददायिनी ॥

त्वया विश्वमिदं सर्वं बलस्नेहसमन्वितम्

॥३२॥

त्वं माता सर्वरुद्राणां वसूनां दुहिता तथा ॥

आदित्यानां स्वसा चैव तुष्टा वांच्छितसिद्धिदा

॥३३॥

त्वं धृतिस्त्वं तथा पुष्टिस्त्वं स्वाहा त्वं स्वधा तथा ॥

ऋद्धिः सिद्धिस्तथा लक्ष्मीर्धृतिः कीर्ति स्तथा मतिः

॥३४॥

कांतिर्लज्जा महामाया श्रद्धा सर्वार्थसाधिनी ॥

त्वया विरहितं किंचिन्नास्ति त्रिभुवनेष्वपि

॥३५॥

वह्नेस्तृप्तिप्रदात्री च देवादीनाम् च तृप्तिदा ॥

त्वया सर्वमिदं व्याप्तं जगत्स्थावरजंगमम्

॥३६॥

पादास्ते वेदाश्चत्वारः समुद्राः स्तनतां ययुः ॥

चंद्रार्कौ लोचने यस्या रोमाग्रेषु च देवताः

॥३७॥

शृङ्गयोः पर्वताः सर्वे कर्णयोर्वायवस्तथा ॥

नाभौ चैवामृतं देवि पातालानि खुरास्तथा

॥३८॥

स्कन्धे च भगवान्ब्रह्मा मस्तकस्थः सदाशिवः ॥

हृद्देशे च स्थितो विष्णुः पुच्छाग्रे पन्नगास्तथा

॥३९॥

शकृत्स्था वसवः सर्वे साध्या मूत्रस्थितास्तव ॥

सर्वे यज्ञा ह्यस्थिदेशे किन्नरा गुह्यसंस्थिताः

॥४०॥

पितॄणां च गणाः सर्वे पुरःस्था भांति सर्वदा ॥

सर्वे यक्षा भालदेशे किन्नराश्च कपोलयोः

॥४१॥

सर्वदेवमयी त्वं हि सर्वभूतविवृद्धिदा ॥

सर्वलोकहिता नित्यं मम देहहिता भव

॥४२॥

प्रणतस्तव देवेशि पूजये त्वां सदाऽनघे ॥

स्तौमि विश्वार्तिहन्त्रीं त्वां प्रसन्ना वरदा भव

॥४३॥

विप्रशापाग्निना दग्धं शरीरं मम शोभने ॥

स्वतेजसा पुनः कर्त्तुमर्हस्यमृतसंभवे

॥४४॥

इत्युक्त्वा ता परिक्रम्य तस्या देहे लयं गतः ॥

साऽपि गर्भे दधाराथ सुरभिस्तदनन्तरम्

॥४५॥

कालातिक्रमयोगेन सर्वव्याकुलतां ययौ ॥

यस्मिन्प्रनष्टे देवेशे विप्रशापभयावृते

॥४६॥

देवा महार्तिं प्रययुश्चचाल पृथिवी तथा ॥

चंद्रार्कौ निष्प्रभौ चैव वायुरुच्चण्ड एव च

॥४७॥

समुद्राः क्षोभमग मंस्तस्मिन्काले द्विजोत्तम

॥४८॥

यस्मिञ्जगत्स्थावरजंगमादिकं काले लयं प्राप्य पुनः प्ररोहति ॥

तस्मिन्प्रनष्टे द्विजशापपीडिते जयद्धतप्राय मवर्तत क्षणात्

॥४९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये हरशापो नामाष्टपंचाशदुत्तरद्विशततमोऽध्यायः ॥ २५८ ॥