मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २०

3
नागरखण्डः · 20

बालमंडनतीर्थमाहात्म्यवर्णनम्

सूत उवाच

तत्र दाशरथी रामो वनवासाय दीक्षितः ॥

भ्रममाणो धरापृष्ठे सीतालक्ष्मणसंयुतः

॥१॥

समाऽऽयातो द्विजश्रेष्ठा यत्र सा पितृकूपिका ॥

तृषार्तश्च श्रमार्तश्च निषसाद धरातले

॥२॥

एतस्मिन्नंतरे प्राप्तो भगवान्दिननायकः ॥

अस्ताचलं जपापुष्पसन्निभो द्विजसत्तमाः

॥३॥

ततः प्लक्षनगाधस्तात्पर्णान्यास्तीर्य भूतले ॥

सायंतनं विधिं कृत्वा सुष्वाप रघुनन्दनः

॥४॥

अथाऽवलोकयामास स्वप्ने दशरथं नृपम् ॥

यद्वत्पूर्वं प्रियाऽऽलापसंसक्तं हृष्टमानसम्

॥५॥

ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥

विप्रानाहूय तत्सर्वं कथयामास राघवः

॥६॥

अद्य स्वप्ने मया विप्राः प्रियालापपरः पिता ॥

अतिहृष्टमना दृष्टः श्वेतमाल्यानुलेपनः

॥७॥

तत्कीदृक्परिणामोऽस्य स्वप्नस्य द्विजसत्तमाः ॥

भविष्यति प्रजल्पध्वं परं कौतूहलं यतः

॥८॥

ब्राह्मणा ऊचुः

पितरः श्राद्धकामा ये वृद्धिं पश्यंति वा नृप ॥

ते स्वप्ने दर्शनं यांति पुत्राणामिति नः श्रुतम्

॥९॥

तदस्यां कूपिकायां च स्वयमेव गया स्थिता ॥

तेन त्वया पिता दृष्टः स्वप्ने श्राद्धस्य वांछकः

॥१०॥

तस्मात्कुरु रघुश्रेष्ठ श्राद्धमत्र यथोदितम् ॥

नीवारैः शाक मूलैश्च तथाऽरण्योद्भवैस्तिलैः

॥११॥

अथैवामन्त्रयामास तान्विप्रान्रघुसत्तमः ॥

श्राद्धेषु श्रद्धया युक्तः प्रसादः क्रियतामिति

॥१२॥

बाढमित्येव ते चोक्त्वा स्नानार्थं द्विजसत्तमाः ॥

गताः सर्वे सुसंहृष्टा स्वकीयानाश्रमान्प्रति व १३ ॥

अथ तेषु प्रयातेषु ब्राह्मणेषु रघूत्तमः ॥

प्रोवाच लक्ष्मणं पार्श्वे विनयावनतं स्थितम्

॥१४॥

शाकमूलफलान्याशु श्राद्धार्थं समुपानय ॥

सौमित्रानय वैदेही स्वयं पचति भामिनी

॥१५॥

तच्छ्रुत्वा लक्ष्मणस्तूर्णं जगामाऽरण्यमेव हि ॥

श्राद्धार्थमानिनायाऽऽशु फलानि विविधानि च

॥१६॥

धात्रीफलानि चाऽऽम्राणि चिर्भटानीं गुदानि च ॥

करीराणि कपित्थानि तथैवाऽन्यानि भूरिशः

॥१७॥

ततश्च पाचयामास तदर्थे जनकोद्भवा ॥

रामादेशात्स्वयं साध्वी विनयेन समन्विता

॥१८॥

ततश्च कुतपे प्राप्ते काले ते द्विजसत्तमाः ॥

कृताह्निकाः समायाता रामभक्तिसमन्विताः

॥१९॥

एतस्मिन्नंतरे सीता प्लक्षवृक्षांतरे स्थिता ॥

आत्मानं गोपयामास यथा वेत्ति न राघवः ॥

६.२०.२० स तां सीतेति सीतेति व्याहृत्याथ मुहुर्मुहुः ॥

स्त्रीधर्मिणीति मत्वा तु लक्ष्मणं चेदमब्रवीत्

॥२१॥

वत्स लक्ष्मण शुश्रूषां विप्राणां श्राद्धसंभवाम् ॥

पादप्रक्षालनाद्यां त्वं यथावत्कर्तुमर्हसि

॥२२॥

बाढमित्येव संप्रोक्तो लक्ष्मणः शुभलक्षणः ॥

चक्रे सर्वं तथा कर्म यथा नारी विचक्षणा

॥२३॥

ततो निर्वर्तिते श्राद्धे ब्राह्मणेषु गतेष्वथ ॥

जनकस्य सुता साध्वी तत्क्षणात्समुपस्थिता

॥२४॥

तां दृष्ट्वा राघवः सीतां कोपसंरक्तलोचनः ॥

प्रोवाच परुषैर्वाक्यैर्भर्त्समानो मुहुर्मुहुः

॥२५॥

आयातेषु द्विजातेषु श्राद्धकाल उपस्थिते ॥

क्व गता वद पापे त्वं मां परित्यज्य दूरतः

॥२६॥

नैतद्युक्तं कुलस्त्रीणां विशेषादत्र कानने ॥

विहर्तुं दूरतः शून्ये तस्मात्त्याज्याऽसि मैथिलि

॥२७॥

तस्य तद्वचनं श्रुत्वा भीता सा जनकोद्भवा ॥

उवाच वेपमानांगी प्रस्खलंत्या गिरा ततः

॥२८॥

न मामर्हसि कार्येऽस्मिन्गर्हितुं रघुसत्तम ॥

यस्मादहमतिक्रान्ता स्थानादस्माच्छ्रणुष्व तत्

॥२९॥

पिता तव मया दृष्टः साक्षाद्दशरथः स्वयम् ॥

ब्राह्मणस्य शरीरस्थो द्वितीयश्च पितामहः

॥३०॥

पितुः पितामहोऽन्यस्य तृतीयस्य रघूत्तम ॥

त्रयाणां च तथान्येषां त्रयोऽन्ये नृपसंनिभाः

॥३१॥

ब्राह्मणानां मया दृष्टाः शरीरस्थाः सुहर्षिताः ॥

मातामहानहं मन्ये तानपि त्रीनहं स्फुटम्

॥३२॥

ततो ऽहं लज्जया नष्टा दृष्ट्वा श्वशुरसंगमान् ॥

येन भुक्तानि भोज्यानि पुरा मृष्टान्यनेकशः

॥३३॥

तथा खाद्यानि लेह्यानि चोष्याणि च विशेषतः ॥

पिता तव कथं सोऽद्य कषायाणि कटूनि च ॥

भक्षयिष्यति दत्तानि स्वहस्तेन मया विभो

॥३४॥

एतस्मात्कारणान्नष्टा त्वत्समीपादहं विभो ॥

श्राद्धकालेऽपि संप्राप्ते सत्येनात्मानमालभे

॥३५८॥

तच्छ्रुत्वा संप्रहृष्टात्मा रामो राजीवलोचनः ॥

साधुसाध्विति तां प्राह परिष्वज्य मुहुर्मुहुः

॥३६॥

ततो भुक्त्वा स्वयं रामो लक्ष्मणेन समन्वितः ॥

सायाह्ने समनुप्राप्ते संध्याकार्यं विधाय च

॥३७॥

प्रोवाच लक्ष्मणं वत्स पर्णान्यास्तीर्य भूतले ॥

शय्यां कुरु समानीय पादशौचाय सज्जलम्

॥३८॥

ततः कोपपरीतात्मा सौमित्रिः प्राह राघवम् ॥

नाहं शय्यां करिष्यामि पादप्रक्षालनं न च

॥३९॥

तथाऽन्यदपि यत्किंचित्कर्म स्वल्पमपि प्रभो ॥

त्वां वा त्यक्त्वा गमिष्यामि कुत्रचित्पीडितो भृशम्

॥४०॥

प्रेष्यत्वेन रघुश्रेष्ठ सत्यमेतन्मयोदितम् ॥

सीतायाः किं समादेश्यं न किंचित्संप्रयच्छसि ॥

अपि स्वल्पतरं राम मया त्वं किं करिष्यसि

॥४१॥

तस्य तद्वचनं श्रुत्वा विकृतं चापि राघवः ॥

तूष्णीं बभूव मेधावी हास्यं कृत्वा मनाक्ततः

॥४२॥

ततः स्वयं समुत्थाय कृत्वा स्वा स्तरकं शुभम् ॥

सीतया क्षालितांघ्रिस्तु सुष्वाप तदनंतरम्

॥४३॥

लक्ष्मणोऽपि विदूरस्थः कोपसंरक्तलोचनः ॥

वृक्षमूलं समाश्रित्य सुप्तश्चित्ते व्यचिंतयत्

॥४४॥

हत्वैनं राघवं सुप्तं सीतां पत्नीं विधाय च ॥

किं गच्छामि निजं स्थानं विदेशं वाऽपिदूरतः

॥४५॥

एवं चिंतयतस्तस्य बहुधा लक्ष्मणस्य सा ॥

व्यतिक्रांता निशा विप्राः कृच्छ्रेण महता ततः

॥४६॥

न तस्य निश्चयो जज्ञे तस्मिन्कृत्ये कथंचन ॥

कोपात्प्रणष्टनिद्रस्य सोष्णं निःश्वसतो मुहुः

॥४७॥

ततः प्रभाते विमले कृतपूर्वाह्णिकक्रियः ॥

रामः सीतां समादाय प्रस्थितो दक्षिणां दिशम्

॥४८॥

लक्ष्मणोऽपि धनुः सज्यं कृत्वा संधाय सायकम् ॥

अनुव्रजति पृष्ठस्थस्तस्य च्छिद्रं विलोकयन्

॥४९॥

ततो गोकर्णमासाद्य प्रणम्य च महेश्वरम् ॥

प्रतस्थे राघवो यावत्सौमित्रिस्तावदागतः

॥५०॥

बाष्पपर्याकुलाक्षश्च व्रीडयाऽधोमुखः स्थितः ॥

प्रणम्य शिरसा रामं ततः प्राह सुदुः खितः

॥५१॥

कुरु मे निग्रहं नाथ स्वामिद्रोहसमुद्भवम् ॥

अतिपापस्य दुष्टस्य कृतघ्नस्य रघूत्तम

॥५२॥

उत्तराणि विरुद्धानि तव दत्तानि भूरिशः ॥

मया विनाऽपराधेन वधोपायश्च चिंतितः

॥५३॥

ततश्च तं परिष्वज्य रामोऽपि निजबांधवम् ॥

बाष्पक्लिन्नमुखः प्राह क्षांतं वत्स मया तव

॥५४॥

न ते त्वन्यः प्रियः कश्चिन्मां मुक्त्वा वेद्म्यहं स्फुटम् ॥

तस्मादागच्छ गच्छामो मार्गं वेलाधिका भवेत्

॥५५॥

लक्ष्मण उवाच

यदि मे निग्रहं नाथ न करिष्यसि सांप्रतम् ॥

प्राणत्यागं करिष्यामि वह्नावात्मविशुद्धये

॥५६॥

रामलक्ष्मणयोरेवं वदतोस्तत्र कानने ॥

आजगाम मुनिश्रेष्ठो मार्कंड इति यः स्मृतः

॥५७॥

ततः प्रणम्य तं रामः सीतालक्ष्मणसंयुतः ॥

प्रोवाच स्वागतं तेस्तु कुतः प्राप्तोऽसि सन्मुने

॥५८॥

मार्कंडेय उवाच

प्रभासादहमायातः सांप्रतं रघुनंदन ॥

स्वमाश्रमं गमिष्यामि क्षेत्रेऽत्रैव व्यवस्थितम्

॥५९॥

मया राघव तत्राऽस्ति स्थापितः प्रपितामहः ॥

तस्याऽद्य दिवसे यात्रा बहुश्रेयःप्रदा स्मृता

॥६०॥

तस्मात्त्वमपि तत्रैव तूर्णमेव मया सह ॥

ममाश्रमपदे स्थित्वा पश्य देवं पितामहम्

॥६१॥

येन स्याः सर्वशत्रूणामगम्यस्त्वं रघूद्वह ॥

ज्येष्ठपञ्चदशीयोगे ज्येष्ठपुत्रः समाहितः

॥६२॥

यस्तत्र कुरुते स्नानं तस्य मृत्युभयं कुतः ॥

साऽद्य पंचदशी राम ज्येष्ठमाससमुद्भवा ॥

ज्येष्ठानक्षत्रसंयुक्ता तस्मात्स्नातुं त्वमर्हसि

॥६३॥

ततः संप्रस्थितं रामं दृष्ट्वा प्रोवाच लक्ष्मणः ॥

कुरु मे निग्रहं तावद्गच्छ तीर्थं ततः प्रभो

॥६४॥

राम उवाच

स्थितेऽस्मिन्मुनिशार्दूले समीपे वत्स लक्ष्मण ॥

अनर्हा निष्कृतिः कर्तुं तस्मादेनं प्रयाचय

॥६५॥

लक्ष्मण उवाच

स्वामिद्रोहे कृते ब्रह्मन्प्रायश्चित्तं यदीक्ष्यते ॥

तन्मे देहि स्फुटं येन कायशुद्धिः प्रजायते

॥६६॥

मार्कंडेय उवाच

ममाऽऽश्रमसमीपेऽस्ति सुतीर्थं बालमंडनम् ॥

स्वामिद्रोहरताः स्नाता मुच्यंते तत्र पातकैः

॥६७॥

तत्र शक्रो विपाप्माभूद्धत्वा गर्भं दितेः पुरा ॥

विश्वस्ताया विशेषेण मातुः काकुत्स्थसत्तम ॥

तस्मात्तत्र द्रुतं गत्वा स्नानं कुरु महामते

॥६८॥

ततः प्रमुच्यसे पापात्स्वामिद्रोहसमुद्भवात् ॥

अपरं नास्ति ते दोषो मनसा पातकं कृतम्

॥६९॥

मनस्तापेन शुध्येत मतमेतन्मनीषिणाम् ॥

त्वया तु मनसा द्रोहः कृतो रामकृते यतः

॥७०॥

ईदृक्षान्मनसस्तापात्तस्माच्छुद्धोऽसि लक्ष्मण ॥

अपरं शृणु मे वाक्यं नास्ति दोषस्तवा नघ

॥७१॥

ईदृक्क्षेत्रप्रभावोऽयं सौभ्रात्रेण विवर्जितः ॥

पंचक्रोशात्मके क्षेत्रे ये वसन्त्यत्र लक्ष्मण

॥७२॥

अपि स्वल्पं न सौभ्रात्रं तेषां संजायते क्वचित्

॥७३॥

तावत्स्नेहपरो मर्त्यस्तावद्वदति कोमलम् ॥

चमत्कारोद्भवं क्षेत्रं यावन्न स्पृशतेंऽघ्रिभिः

॥७४॥

येऽन्येपि निवसंत्यत्र पशवः पक्षिणो मृगाः ॥

तेऽपि सौहार्द्दनिर्मुक्ताः सस्पर्द्धा इतरेतरम्

॥७५॥

कस्यचित्केनचित्सार्धं सौहार्दं नैव विद्यते ॥

तस्मान्नैवास्ति ते दोष ईदृक्क्षे त्रस्य संस्थितिः

॥७६॥

तथापि यदि ते काचिच्छंका चित्ते व्यवस्थिता ॥

तत्स्नानं कुरु गत्वा तु तस्मिंस्तीर्थे सुशोभने

॥७७॥

यत्र शक्रो विपाप्माऽभूद्द्रोहं कृत्वा सुदारुणम् ॥

विश्वस्ताया दितेः पूर्वं गर्भपातसमुद्रवम्

॥७८॥

एवमुक्तस्तु सौमित्रिर्गत्वा तत्र द्विजोत्तमाः ॥

तीर्थे स्नानाच्च संपन्नो विशुद्धः शक्रसेविते ॥

रामोऽपि तत्र गत्वाशु मार्कंडेयवराश्रमे

॥७९॥

स्नानं कृत्वा यथान्यायं ददर्शाऽथ पितामहम् ॥

जगामाऽथ दिशं याम्यां सीतालक्ष्मणसंयुतः

॥८०॥

तत्प्रभावाज्जघानाऽथ खरादीन्राक्षसोत्तमान् ॥

तथा वै रावणं रौद्रं मेघनादसमन्वितम्

॥८३॥

इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रामकृतयाम्यदिशाप्रयाणे बालमंडनतीर्थमाहात्म्य वर्णनंनाम विंशोऽध्यायः ॥ २० ॥