मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १७६

3
नागरखण्डः · 176

कंसारेश्वरोत्पत्तिमाहात्म्यवर्णनम्

सूत उवाच

दृष्ट्वा प्रतिष्ठितं लिंगं याज्ञवल्क्येन धीमता ॥

स्वमातुः शुद्धिहेतोः स तन्नाम्ना लिंगमुत्तमम्

॥१॥

स्थापयामास विप्रेंद्राः श्रद्धया परया युतः ॥

ततश्चानीय विप्रेंद्रं मध्यगं नागरोद्भवम् ॥

गर्तातीर्थसमुद्भूतमाहिताग्निं प्रयाजिनम् ॥

यथैतन्नगरस्थानं तथा त्वमपि दीक्षितः

॥३॥

अष्टषष्टिषु गोत्राणां नायकत्वे व्यवस्थितः ॥

तव वाक्येन सर्वाणि गोत्राणि द्विजसत्तम

॥४॥

वर्तयिष्यंति कृत्येषु यावच्चन्द्रार्कतारकाः ॥

गोवर्धन त्वया चिंता कार्या चास्य समुद्भवा

॥५॥

लिंगस्य पूजनार्थाय प्रेरणीयाश्च नागराः ॥

पूजया तस्य लिंगस्य वृद्धिं यास्यति तेऽन्वयः

॥६॥

अपूजया विनाशं च यास्यत्यत्र न संशयः ॥

तव वंशोद्भवा ये च पूजयित्वा प्रभक्तितः

॥७॥

एतल्लिंगं करिष्यंति कृत्यानि विविधानिच ॥

तानि सिद्धिं प्रयास्यंति प्रसादादस्य दीक्षित

॥८॥

गोवर्धन उवाच

अहमर्चां करिष्यामि लिंगस्यास्य सदा द्विज ॥

भक्तिं च प्रकरिष्यामि हेतोरस्य हेतोरस्य कृते द्विज ॥

पूजार्थं चैव ये चान्ये मम वंशसमुद्रवाः

॥९॥

पिप्पलाद उवाच

गोवर्धन द्रुतं विप्रांस्तत्र चानय नागरान् ॥

तेषां मतेन देवस्य नाममात्रं करोम्यहम्

॥१०॥

ततश्चानाययामास विप्रांश्चैव विचक्षणान् ॥

श्रुताध्ययनसंपन्नान्यज्ञकर्मपरायणान्

॥११॥

तानब्रवीत्प्रणम्योच्चैः पिप्पलादो महामुनिः ॥

मम माता मृता पूर्वं कंसारीति च नामतः

॥१२॥

तस्या उद्देशतो लिंगं मयैतत्संप्रतिष्ठितम् ॥

युष्मद्वाक्यात्प्रसिद्धिं च प्रयातु द्विजसत्तमाः

॥१३॥

अष्टम्यां च चतुर्दश्यां यश्चैतत्स्नापयिष्यति ॥

याज्ञवल्क्येश्वरोत्थं च स वै श्रेयो ह्यवाप्स्यति

॥१४॥

सूत उवाच

अथ तैर्ब्राह्मणैः सर्वैस्तस्य नाम प्रतिष्ठितम् ॥

कंसारीश्वर इत्येवं गौरवात्तस्य सन्मु नेः

॥१५॥

एतद्वः सर्वमाख्यातं यत्पृष्ठोऽस्मि द्विजोत्तमाः ॥

कंसारीश्वरसंज्ञस्तु यथा जातस्तु पापहा ॥

स्थापितः पिप्पलादेन स्वयं चैव महात्मना

॥१६॥

यश्चैतत्पुण्यमाख्यानं तस्य देवस्य संनिधौ ॥

संपठेच्छृणुयाद्वापि सम्यक्छक्तिसमन्वितः

॥१७॥

मनसा चिंतितं पापं परदारकृतं च यत् ॥

तस्य तन्नाशमायाति पिप्पलाद वचो यथा

॥१८॥

यस्तस्य पुरतो भक्त्या नीलरुद्रा न्सदा जपेत् ॥

प्राणरुद्रान्विशेषेण भवरुद्रसमन्वितान्

॥१९॥

ब्रह्महत्योद्भवं चैव अपि तस्य प्रणश्यति ॥

परचक्रभये जाते ह्यना वृष्टिभये तथा

॥२०॥

अथर्ववेदे साद्यंते पठिते तस्य चाग्रतः ॥

शत्रुर्विलयमभ्येति वृष्टिः सञ्जायते द्रुतम्

॥२१॥

राजदौःस्थ्ये समुत्पन्ने राजा भवति धार्मिकः ॥

सर्वरोगविनिर्मुक्तः प्रजापालनतत्परः

॥२२॥

उपसर्गभये जाते तस्य दोषः प्रशाम्यति ॥

शनैः शनैरसंदिग्धं पिप्पलादवचो यथा

॥२३॥

किं वा ते बहुनोक्तेन यत्किंचिद्व्यसनं महत् ॥

तत्तस्य व्यसनं किंचिदथर्वणः प्रकी र्तनात्

॥२४॥

अस्य देवस्य पुरतो याति नाशं च वै द्रुतम्

॥२५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कंसारेश्वरोत्पत्तिमाहात्म्यवर्णनंनाम षट्सप्तत्युत्तरशततमोऽध्यायः ॥ १७६ ॥