पलाशो हरिरूपेण सेव्यते हि पुराविदैः
वाण्युवाच
पलाशो हरिरूपेण सेव्यते हि पुराविदैः ॥
बहुभिर्ह्युपचारैस्तु ब्रह्मवृक्षस्य सेवनम्
॥१॥सर्वकामप्रदं प्रोक्तं महापातकनाशनम् ॥
त्रीणि पत्राणि पालाशे मध्यमं विष्णुशापितम्
॥२॥वामे ब्रह्मा दक्षिणे च हर एकः प्रकीर्तितः ॥
पलाशपात्रे यो भुंक्ते नित्यमेव नरोत्तमः
॥३॥अश्वमेधसहस्रस्य फलं प्राप्नोत्यसंशयम् ॥
चातुर्मास्ये विशेषेण भोक्तुर्मोक्षप्रदं भवेत्
॥४॥पयसा वाथ दुग्धेन रविवारेऽनिशं यदि ॥
चातुर्मास्येऽर्चितो यैस्तु ते यांति परमंपदम्
॥५॥दृश्यते यदि पालाशः प्रातरुत्थाय मानवैः ॥
नरकानाशु निर्धूय गम्यते परमं पदम्
॥६॥पालाशः सर्वदेवानामाधारो धर्मसाधनम् ॥
यत्र लोभस्तु तस्य स्यात्तत्र पूज्यो महातरुः
॥७॥यथा सर्वेषु वर्णेषु विप्रो मुख्यतमो भवेत् ॥
मध्ये सर्वतरूणां च ब्रह्मवृक्षो महोत्तमः
॥८॥यस्य मूले हरो नित्यं स्कंधे शूलधरःस्वयम् ॥
शाखासु भगवान्रुद्रः पुष्पेषु त्रिपुरांतकः
॥९॥शिवः पत्रेषु वसति फले गणपतिस्तथा ॥
गंगापतिस्त्वचायां तु मज्जायां भगवा न्भवः
॥१०॥ईश्वरस्तु प्रशाखासु सर्वोऽयं हरवल्लभः ॥
हरः कर्पूरधवलो यथावद्वर्णितः सदा
॥११॥तथा ह्ययं ब्रह्मरूपः सितवर्णो महाभगः ॥
चिंतितो रिपुनाशाय पापसंशोषणाय च
॥१२॥मनोरथप्रदानाय जायते नात्र संशयः ॥
गुरुवारे समायाते चातुर्मास्ये तथैव च
॥१३॥पूजितश्च स्तुतो ध्यातः सर्वदुःखविनाशकः
॥१४॥देवस्तुत्यो देवबीजं परं यन्मूर्तं ब्रह्म ब्रह्मवृक्षत्वमाप्तम् ॥
नित्यं सेव्यः श्रद्धया स्थाणुरूपश्चातुर्मास्ये सेवितः पापहा स्यात्
॥१५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने पालाशमहिमवर्णनंनामाष्टचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४८ ॥