मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २०१

3
नागरखण्डः · 201

कृतांजलिपुटा भूत्वा स्तुतिं कृत्वा वचोऽब्रुवन्

विश्वामित्र उवाच

अथ ते ब्राह्मणाः सर्वे भर्तृयज्ञं महामतिम् ॥

कृतांजलिपुटा भूत्वा स्तुतिं कृत्वा वचोऽब्रुवन्

॥१॥

यदेतद्भवता प्रोक्तं शोधितो यो भवेद्द्विजः ॥

श्राद्धस्य कन्यकायाश्च सोमपानस्य सोऽर्हति

॥२॥

कथं शुद्धिः प्रकर्तव्या तस्य सर्वं ब्रवीहि नः ॥

नागरस्य समस्तस्य देशांतरगतस्य च

॥३॥

देशांतरप्रजातस्य तत्र जातस्य वा पुनः ॥

अज्ञातपितृवर्गस्य सामा न्यं पदमिच्छतः

॥४॥

एतन्नः सर्वमाचक्ष्व विस्तरेण महामते

॥५॥

विश्वामित्र उवाच

तेषां तद्वचनं श्रुत्वा ब्राह्मणानां नृपोत्तम ॥

अब्रवीद्भर्तृयज्ञस्तु स्वाभिप्रायं सुसंमतम्

॥६॥

भर्तृयज्ञ उवाच

प्रश्नभारो महानेष भवद्भिः समुदाहृतः ॥

तथापि कथयिष्यामि नमस्कृत्य स्वयंभुवम्

॥७॥

अज्ञातपितृवंशो यो दूरादपि समागतः ॥

सामान्यं वांछते पद्यं नागरोऽस्मीति कीर्तयन्

॥८॥

तस्य शुद्धिः प्रदा तव्या मुख्यैः शांतैः शुभैर्द्विजैः ॥

गर्तातीर्थोद्भवं विप्रं कृत्वा चैव पुरःसरम्

॥९॥

विशुद्धिं याचमानस्य यदि यच्छंति नो द्विजाः ॥

कामाद्वा यदि वा क्रोधात्प्रद्वेषाद्वा च्युतेर्भयात्

॥१०॥

ब्रह्महत्योद्भवं पापं सर्वेषां तत्र जायते ॥

तस्मादभ्यागतो यस्तु दूरादपि विशेषतः

॥११॥

तस्य शुद्धिः प्रदातव्या प्रयत्नेन द्विजोत्तमैः ॥

शुद्धिं तु त्रिविधां प्राप्तो मम वाक्यसमुद्भवाम्

॥१२॥

स शुद्धो नागरो ज्ञेयो जातो देशांतरेष्वपि ॥

पूर्वं विशोधयेद्वंशं ततो मातृकुलं स्मृतम्

॥१३॥

ततः शीलं त्रिभिः शुद्धः सामान्यं पदमर्हति

॥१४॥

सर्वेषामपि विप्राणां वर्षांते समुपस्थिते ॥

शुद्धिः कार्या प्रयत्नेन स्वस्थानस्य विशुद्धये

॥१५॥

तदर्थं शरदश्चांते शुभर्त्तौ ब्राह्मणोत्तमाः ॥

चातुश्चरणसंपन्नाः संस्थाप्याः षोडशैव तु

॥१६॥

ब्राह्मणाः पुरतः सर्वे शांता दांता जितेंद्रियाः ॥

गर्त्तातीर्थोद्भवं विप्रं तेषां मध्ये निवेशयेत्

॥१७॥

तदग्रे पीठिका देयाश्चतस्रो लक्षणान्विताः ॥

यावत्कार्त्तिकपर्यंतं चातुश्चरणकल्पिताः

॥१८॥

प्रथमा बह्वृचस्यार्थे याजुषस्य तथाऽपरा ॥

सामगस्य तथैवान्या तथाऽऽद्यस्य चतुर्थिका

॥१९॥

मुद्रिकार्थं तथैवान्या पंचमी परिकीर्तिता ॥

श्रीसूक्तं पावमानं च शाकुनं विष्णुदैवतम्

॥२०॥

पारावतं तथा सूक्तं जीवसूक्तेन संयुतम् ॥

बह्वृचः कीर्तयेत्तत्र शांतिकं च तथापरम्

॥२१॥

शांतिकं शिवसंकल्पमृषिकल्पं चतुर्विधम् ॥

मंडलंब्राह्मणं चैव गायत्रीब्राह्मणं तथा

॥२२॥

तथा पुरुषसूक्तं च मधुब्राह्मणमेव च ॥

अध्वर्युः कीर्तयेत्तत्र रुद्रान्पंचांगसंयुतान्

॥२३॥

देवव्रतं च गायत्रं सोमसूर्यव्रते तथा ॥

एकविंशतिपर्यंतं तथान्यच्च रथंतरम्

॥२४॥

सौव्रतं संहिता विष्णोर्ज्येष्ठसाम तथैव च ॥

सामवेदोक्तरुद्रांश्च भारुंडैः सामभिर्युतान्

॥२५॥

छंदोगः कीर्तयेत्तत्र यच्चान्यच्छांतिकं भवेत् ॥

गर्भोपनिषदं चैव स्कंदसूक्तं तथापरम्

॥२६॥

नीलरुद्रैः समोपेतान्प्राणरुद्रांस्तथापरान् ॥

नवरुद्रांश्च क्षुरिकानाद्यस्तत्र प्रकीर्तयेत्

॥२७॥

ततः पुण्याहघोषेण गीतवादित्रनिस्वनैः ॥

शुक्लमाल्यांबरधरः शुक्लचंदनचर्चितः २८ ॥

शुद्धिकामो व्रजेत्तत्र यत्र ते ब्राह्मणाः स्थिताः ॥

प्रणम्य शिरसा तेषां ततोवाच्यस्तु मध्यगः

॥२९॥

मदर्थं प्रार्थय त्वं हि सर्वानेतान्द्विजोत्तमान् ॥

यतः शुद्धिं प्रयच्छंति प्रसादं कर्तुमर्हसि

॥३०॥

ततस्तु प्रार्थयेद्विप्रांस्तदर्थं च विशुद्धये ॥

गर्तातीर्थोद्भवो विप्रो विनयावनतः स्थितः

॥३१॥

गोचर्मणि समालग्नः शुद्धिकामस्य तस्य च ॥

प्रष्टव्यास्तु ततस्तेन सर्व एव द्विजोत्तमाः

॥३२॥

एष शुद्धिकृते प्राप्तः सुदूरान्नागरो द्विजः ॥

अस्य शुद्धिः प्रदातव्या युष्माकं रोचते यदि

॥३३॥

अथ तैर्वेदसूक्तेन निषेधो वा प्रवर्तनम् ॥

वक्तव्यं वचसा नैव मम वाक्यमिदं स्थितम्

॥३४॥

ततश्च बहुलान्दृष्ट्वा ऋगध्वर्यूंस्ततः परम् ॥

छादोग्यांश्च तथाद्यांश्च क्रमेण तु द्विजोत्तमाः

॥३५॥

यदि तेषां मनस्तुष्टिर्जायते द्विजसत्तमाः ॥

ततः सूक्तानि वाक्यानि सौम्यानि सुशुभानि च ॥

वारुणानि तथैंद्राणि मांगल्यप्रभवाणि च

॥३६॥

श्रेष्ठानि मंत्रलिंगानि वृद्धितुष्टिकराणि च ॥

यदि नो मानसी तुष्टि स्तेषां चैव प्रजायते

॥३७॥

तदा रौद्राणि याम्यानि नैर्ऋत्यानि विशेषतः ॥

आग्नेयानि त्वनिष्टानि तथा नाशकराणि च

॥३८॥

अथ ये तत्र मूर्खाः स्युर्न वेदपठने रताः ॥

पुष्पदानं तु वक्तव्यं तैः संतुष्टैर्द्विजोत्तमैः

॥३९॥

सीत्कारः कुपितैः कार्यः संतोषेण विवर्जितैः ॥

एवं सर्वेषु कृत्येषु न च कार्यो विनिर्णयः

॥४०॥

प्राकृतैर्वचनैश्चैव यथा कुर्वंति मानवाः ॥

तथैव निर्णयस्यांते मध्यगेन विपश्चिता

॥४१॥

देयं तालत्रयं सम्यक्सर्वेषां निर्णयोद्भवे

॥४२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागर प्रश्ननिर्णयवर्णनंनामैकोत्तरद्विशततमोऽध्यायः ॥ २०१ ॥