मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १६६

3
नागरखण्डः · 166

परशुरामोत्पत्तिवर्णनम्

सूत उवाच

ऋचीकोऽपि समादाय पुरुषैराप्तकारिभिः ॥

तानश्वान्प्रजगामाथ यत्र गाधिर्व्यवस्थितः

॥१॥

तस्मै निवेदयामास कन्यार्थं तान्हयोत्तमान् ॥

गाधिस्तु तान्प्रगृह्याथ योग्यान्वाजिमखस्य च

॥२॥

एकैकं परमं तेषां स जगामाथ पार्थिवः ॥

ततस्तां प्रददौ तस्मै कन्यां त्रैलोक्यसुन्दरीम्

॥३॥

विप्राग्निसाक्षिसंभूतां गृह्योक्तविधिना न्वितः ॥

ततो विवाहे निर्वृत्त ऋचीको मुनिसत्तमः

॥४॥

तस्याः संवेशने चैव निष्कामः समपद्यत ॥

अथाब्रवीन्निजां भार्यां निष्कामः संस्थितो मुनिः

॥५॥

अहं यास्यामि सुश्रोणि काननं तपसः कृते ॥

त्वं प्रार्थय वरं कंचिद्येनाभीष्टं ददामि ते

॥६॥

सा श्रुत्वा तस्य तद्वाक्यं निष्कामस्य प्रजल्पितम् ॥

वाष्पपूर्णेक्षणा दीना जगाम जननीं प्रति

॥७॥

प्रोवाच वचनं तस्य सा निष्कामपते स्तदा ॥

वरदानं तथा तेन यथोक्तं द्विजसत्तमाः

॥८॥

अथ श्रुत्वैव सा माता यथा तज्जल्पितं तया ॥

सुतया ब्राह्मणश्रेष्ठास्ततो वचनमब्रवीत्

॥९॥

यद्ययं पुत्रि ते भर्ता वरं यच्छति वांछितम् ॥

तत्प्रार्थय सुतं तस्माद्ब्राह्मण्येन समन्वितम्

॥१०॥

मदर्थं चैकपुत्रं च निःशेषक्षात्त्रतेजसा ॥

संयुक्तं याचय शुभे विपुत्राऽहं यतः स्थिता

॥११॥

सा श्रुत्वा जननीवाक्यमृचीकं प्राप्य सुव्रता ॥

अब्रवीज्जननी वाक्यं सर्वं विस्तरतो द्विजाः

॥१२॥

स तस्याश्च वचः श्रुत्वा चकाराथ चरुद्वयम् ॥

पुत्रेष्टिं विधिवत्कृत्वा नमस्कृत्य स्वयंभुवम्

॥१३॥

एकस्मिन्योजयामास ब्राह्म्यं तेजोऽखिलं च सः ॥

क्षात्रं तेजस्तथान्यस्मिन्सकलं द्विजसत्तमाः

॥१४॥

भार्यायै प्रददौ पूर्वं ब्राह्म्यं च चरुमुत्त मम् ॥

अब्रवीत्प्राशयित्वैनमश्वत्थालिंगनं कुरु

॥१५॥

ततः प्राप्स्यसि सत्पुत्रं ब्राह्म्यतेजःसमन्वितम् ॥

द्वितीयश्चरुको यश्च तं त्वं मात्रे निवे दय

॥१६॥

अब्रवीच्च ततस्तां तु ऋचीको मुनिसत्तमः ॥

त्वमेनं चरुकं प्राश्य न्यग्रोधालिंगनं कुरु

॥१७॥

ततः प्राप्स्यसि सत्पुत्रं संयुक्तं क्षात्रतेजसा ॥

निःशेषेण महाभागे न मे स्याद्वचनं वृथा

॥१८॥

एवमुक्त्वा ऋचीकस्तु स विसृज्य च तेजसी ॥

सुहृष्टो ब्राह्मणश्रेष्ठः स्वयं च महितोऽभवत्

॥१९॥

ते चैव तु गृहे गत्वा प्रहृष्टेनांतरात्मना ॥

ऊचतुश्च मिथस्ते च सत्यमेतद्भविष्यति

॥२०॥

ततो माता सुतां प्राह आत्मार्थे सकलो जनः ॥

विशेषं कुरुते कृत्ये सामान्ये च व्यवस्थिते

॥२१॥

तत्तवार्थं कृतोऽनेन यश्चरुश्चारुलोचने ॥

यस्तस्मिन्विहितोऽनेन मन्त्रग्रामो भविष्यति ॥

विशेषेण महाभागे सत्यमेतन्मयोदितम्

॥२२॥

तस्माच्च चरुकं मह्यं त्वं गृहाण शुचिस्मिते ॥

आत्मीयं मम यच्छस्व वृक्षाभ्यां च विपर्ययः ॥

क्रियतां च महाभागे येन मे स्यात्सुतोत्तमः

॥२३॥

राज्यकर्मणि दक्षश्च शूरः परबलार्दनः ॥

त्वदीयो द्विजमात्रोऽपि तव तुष्टिं करिष्यति

॥२४॥

अथ सा विजने प्रोक्ता तया मात्रा यशस्विनी ॥

अकरोद्व्यत्ययं वृक्षे चरौ च द्विजसत्तमाः

॥२५॥

ततः पुंस वने स्नाते ते शुभे चारुलोचने ॥

दधाते गर्भमेवाथ भर्तुः संयोगतः क्षणात्

॥२६॥

ततस्तु गर्भमासाद्य सा च त्रैलोक्यसुन्दरी ॥

क्षात्त्रेण तेजसा युक्ता तत्क्षणात्समपद्यत ॥

मनो राज्ये ततश्चक्रे हस्त्यश्वारोहणोद्भवे

॥२७॥

युद्धवार्त्तास्तथा चक्रे देवासुरगणोद्भवाः ॥

शृणोति च तथा नित्यं विलासेषु मनो दधे ॥

अनुष्ठानं ततश्चक्रे मनोराज्यसमुद्भवम्

॥२८॥

पितुर्गृहात्समानीय जात्यानश्वांस्तथा गजान् ॥

रक्तानि चैव वस्त्राणि काश्मीराद्यं विलेपनम् ॥

१ तद्दृष्ट्वा चेष्टितं तस्या राज्यार्हं बहुभोगधृक् ॥

ब्राह्मणार्हैः परित्यक्तं समाचारैश्च कृत्स्नशः

॥३०॥

अब्रवीच्च ततः क्रुद्धो धिक्पापे किमिदं कृतम् ॥

व्यत्ययो विहितो नूनं चरुकस्य नगस्य च

॥३१॥

त्वया पापे प्रपश्यामि येनेदृक्तव चेष्टितम् ।

१ क्षत्रियार्हं द्विजाचारैः सकलैः परिवर्जितम्

॥३२॥

चीरवल्कलसंत्यक्तं स्नानजाप्यविवर्जितम् ॥

संयुक्तं विविधैर्गन्धैर्मृगनाभिपुरःसरैः

॥३३॥

तव माता शमस्था सा जपहोमपरायणा ॥

तीर्थयात्रापरा चैव वेदश्रवणलालसा

॥३४॥

तस्मात्ते क्षत्रियः पुत्रो भविष्यति न संशयः

॥३५॥

मातुश्च ब्राह्मणश्रेष्ठो ब्रह्मचर्यकथापरः ॥

भविष्यति सुतश्चिह्नैर्गर्भलक्षणसंभवैः

॥३६॥

यस्मादुदीरितः पूर्वं श्लोकोऽयं शास्त्रचिन्तकैः ॥

यादृशा दोहदाः सन्ति सगर्भाणां च योषिताम्

॥३७॥

तादृगेव स्वभावेन तासां पुत्रोऽत्र जायते ॥

सैवमुक्ता भयत्रस्ता वेपमाना कृतांजलिः

॥३८॥

बाष्पपूर्णेक्षणा दीना वाक्यमेतदुवाच ह ॥

सत्यमेतत्प्रभो वाक्यं यत्त्वया समुदाहृतम्

॥३९॥

अतीतानागतं वेत्ति विना लिंगैर्भवानिह ॥

तस्मात्कुरु प्रसादं मे यथा स्याद्ब्राह्मणः सुतः ॥

क्षत्रियस्य तु पुत्रस्य भवान्नार्हः कथंचन

॥४०॥

ऋचीक उवाच

यत्किंचिद्ब्रह्मतेजः स्यात्तन्न्यस्तं ते चरौ मया ॥

क्षात्त्रं तेजश्च ते मातुर्व्यत्ययं च कथंचन ॥

करोमि वाधमो लोके शास्त्र स्य च व्यतिक्रमम्

॥४१॥

पत्न्युवाच

यद्येवं भृगुशार्दूल मम पौत्रोऽत्र यो भवेत् ॥

क्षात्त्रं तेजोऽखिलं तस्य गात्रे भूया त्त्वयाऽऽहृतम्

॥४२॥

पुत्रस्तु ब्राह्मणश्रेष्ठो भूयादभ्यधिकस्तव

॥४३॥

ऋचीक उवाच

एवं भवतु मद्वाक्यात्पुत्रस्ते ब्राह्मणः शुभे ॥

पौत्रः सुदुर्द्धरः संख्ये संयुक्तः क्षात्त्रतेजसा

॥४४॥

ततः सत्यं वरं लब्ध्वा प्रसन्नवदना सती ॥

मातुर्निवेदयामास तत्सर्वं कांत जल्पितम्

॥४५॥

ततः सा दशमे मासि संप्राप्ते गुरुदैवते ॥

नक्षत्रे जनयामास पुत्रं बालार्कसन्निभम्

॥४६॥

ब्राह्म्या लक्ष्म्या समोपेतं निधानं तपसां शुचि ॥

जमदग्निरिति ख्यातो योऽसौ त्रैलोक्यविश्रुतः ॥

तस्य पुत्रोभवत्ख्यातो रामोनाम महायशाः

॥४७॥

एकविंशतिदा येन धरा निःक्षत्रिया कृता ॥

क्षात्त्रतेजःप्रभावेन पितामहप्रसादतः

॥४८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये परशुरामोत्पत्तिवर्णनंनाम षट्षष्ट्युत्तरशततमोऽध्यायः ॥ १६६ ॥