तथान्योऽपि हि तत्रास्ति देवो मिष्टान्नदायकः
सूतउवाच
तथान्योऽपि हि तत्रास्ति देवो मिष्टान्नदायकः ॥
यस्य संदर्शनादेव मिष्टान्नं लभते नरः
॥१॥आसीत्पूर्वं नृपो नाम्ना वसुसेन इति स्मृतः ॥
आनर्त्ताधिपतिः ख्यातो बृहत्कल्पे द्विजोत्तमाः
॥२॥अत्यैश्वर्यसमायुक्तो गजवाजिरथान्वितः ॥
जितारिपक्षस्तेजस्वी दाता भोगी जितेंद्रियः
॥३॥स संक्रांतौ व्यतीपाते ग्रहणे रवि सोमयोः ॥
पर्वकालेषु चान्येषु विविधेषु सुभक्तितः
॥४॥प्रयच्छति द्विजातिभ्यो रत्नानि विविधानि च ॥
इंद्रनीलमहानीलविद्रुमस्फटिकादि च
॥५॥माणिक्यमौक्तिकान्येव विद्रुमाणि विशेषतः ॥
हस्त्यश्वरथयानानि वस्त्राणि विविधानि च
॥६॥न कस्यचित्प्रदद्यात्स सस्यं ब्राह्मणसत्तमाः ॥
अतीव सुलभं मत्वा तथा तोयं विशेषतः
॥७॥ततो राज्यं चिरं कृत्वा दृष्ट्वा पुत्रोद्भवान्सुतान् ॥
कालधर्ममनुप्राप्तः कस्मिंश्चित्कालपर्यये
॥८॥ततश्च मंत्रिभिस्तस्य सत्यसेन इति स्मृतः ॥
अभिषिक्तः सुतो राज्ये वीर्योदार्यसमन्वितः
॥९॥वसुसेनोऽपि संप्राप्य स्वर्गं दानप्रभावतः ॥
दिव्यांबरधरो भूत्वा दिव्यरत्नैर्विभूषितः
॥१०॥सेव्यमानोऽप्सरोभिश्च विमानवरमाश्रितः ॥
बभ्राम सर्वलोकेषु स्वेच्छया क्षुत्समावृतः
॥११॥पिपासाकुलचित्तश्च मुखेन परिशुष्यता ॥
न कंचिद्ददृशे तत्र भुंजानमपरं दिवि ॥
न च पानसमासक्तं न सस्यं सलिलं न च
॥१३॥ततो गत्वा सहस्राक्षमुवाच द्विजसत्तमाः ॥
क्षुत्तृषावृतदेहस्तु लज्जयाऽधोमुखः स्थितः
॥१४॥नैवात्र दृश्यते कश्चित्क्षुत्तृषापरिपीडितः ॥
मां मुक्त्वा विबुधश्रेष्ठ तत्किमेतद्वदस्वमे
॥१५॥एष मे स्वर्गरूपेण नरकः समुपस्थितः ॥
किमेतैर्भूषणैर्वस्त्रैर्विमानादिभिरेव च
॥१६॥क्षुधा संपीड्यमानस्य स्वर्गमेतच्छचीपते ॥
अग्नितुल्यं समुद्दिष्टं मम चित्तेऽपि वर्तते
॥१७॥तस्मात्कुरु प्रसादं मे यथा क्षुन्न प्रबाधते ॥
नोचेत्क्षिप सुरश्रेष्ठ रौरवे नरके द्रुतम्
॥१८॥इंद्रउवाच
अनर्होसि महीपाल नरकस्य त्वमेव हि ॥
त्वया दानानि दत्तानि संख्याहीनानि सर्वदा
॥१९॥परं किं तु क्वचिन्नान्नं दत्तं राजन्न चोदकम् ॥
न किंचिदपि संचिंत्य यतः सुलभमेव हि
॥२॥तोयं सान्नं सदा दद्यादन्नं चैव सदक्षिणम् ॥
य इच्छेच्छाश्वतीं तृप्तिमिह लोके परत्र च
॥२१॥तस्मात्त्वं हि क्षुधाविष्टः स्वर्गे चैव महीपते ॥
भूषितो भूषणैः श्रेष्ठैर्विमानवरमाश्रितः
॥२२॥राजोवाच
अस्ति कश्चिदुपायोऽत्र देवौ वा मानुषोऽपि वा ॥
क्षुत्पिपासेऽतितीव्रे मे विनाशं येन गच्छतः
॥२३॥इन्द्र उवाच
यदि कश्चित्सुतस्तुभ्यं विप्रेभ्यः सततं जलम् ॥
ददाति च सदा सस्यं तत्ते तृप्तिः प्रजायते
॥२४॥नान्यथा पार्थिवश्रेष्ठ एकस्मिन्नपि वासरे ॥
अदत्तस्य तव प्राप्तिः सत्यमेतन्मयोदितम्
॥२५॥सोऽपि भूमिपतेः पुत्रस्तव यच्छति नोदकम् ॥
न च सस्यं द्विजातिभ्यस्त्वन्मार्गमनुसंचरन्
॥२६॥एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तमः ॥
ब्रह्मलोकात्स्थितौ यत्र तौ भूमिपसुरेश्वरौ
॥२७॥ततः शक्रः समुत्थाय तस्मै तुष्टिसमन्वितः ॥
अर्घं दत्त्वा विधानेन सादरं चेदमब्रवीत् ।
ाr २८ ॥
कुतः प्राप्तोऽसि विप्रेंद्र प्रस्थितः क्व च सांप्रतम् ॥
केन कार्येण चेद्गुह्यं न तेऽस्ति वद सांप्रतम्
॥२९॥नारद उवाच
ब्रह्मलोकादहं प्राप्तः प्रस्थितस्तु धरातले ॥
तीर्थयात्राकृते शक्र नान्यदस्तीह कारणम्
॥३०॥सूत उवाच
तच्छ्रुत्वा स नृपो हृष्टस्तमुवाच मुनीश्वरम् ॥
प्रसादः क्रियतां मह्यं दीनस्य मुनिपुंगव
॥३१॥त्वया भूमितले वाच्यो मम पुत्रो महीपतिः ॥
आनर्त्ताधिपतिः ख्यातः सत्यसेन इति प्रभो
॥३२॥तव तातो मया दृष्टः शक्रस्य सदनं प्रति ॥
क्षुत्पिपासापरीतांगो दीनात्मा देवमध्यगः
॥३३॥तस्मात्पुत्रोऽसि चेन्मह्यं त्वं सत्यं परिरक्षसि ॥
तन्मन्नाम्ना प्रयच्छोच्चैः सस्यानि सलिलानि च
॥३४॥स तथेति प्रतिज्ञाय नारदो मुनिसत्तमः ॥
अनुज्ञाप्य सहस्राक्षं प्रस्थितो भूतलं प्रति
॥३५॥ततः क्रमेण तीर्थानि भ्रममाणः स सद्द्विजः ॥
आनर्त्तविषयं प्राप्य सत्यसेनमुपाद्रवत्
॥३६॥अथ संपूजितस्तेन सम्यग्भूपतिना मुनिः ॥
पितुः संदेशमाचख्यौ विजने तस्य सादरम्
॥३७॥तच्छ्रुत्वा शोकसंतप्तः सत्यसेनो महीपतिः ॥
तं विसृज्य मुनिश्रेष्ठं पूजयित्वा विधानतः
॥३८॥ततो जनकमुद्दिश्य मिष्टान्नेन सुभक्तितः ॥
सहस्रं ब्राह्मणेंद्राणां भोजयामास नित्यशः
॥३९॥प्रपादानं तथा चक्रे ग्रीष्मकाले विशेषतः ॥
त्यक्त्वान्याः सकला याश्च क्रिया धर्मसमुद्भवाः ॥
एवं तस्य महीपस्य वर्तमानस्य च द्विजाः ॥
अनावृष्टिरभूद्रौद्रा सर्वसस्यक्षयावहा
॥४१॥यावद्द्वादशवर्षाणि न जलं त्रिदशाधिपः ॥
मुमोच धरणीपृष्ठे सर्वे लोकाः क्षुधार्दिताः
॥४२॥अत्राभावात्ततो भूयो न सस्यं संप्रयच्छति ॥
ब्राह्मणेभ्यः समुद्दिश्य पितरं स्वं यथा पुरा
॥४३॥ततः स क्षुत्परीतांगः पिता तस्य महीपतेः ॥
स्वप्ने प्रोवाच तं पुत्रमतीव मलिनांबरः
॥४४॥त्वया पुत्रेण पुत्राहं क्षुत्पिपासासमाकुलः ॥
स्वर्गस्थोऽपि हि तिष्ठामि तस्मादन्नं प्रयच्छ वै ॥
मन्नाम्ना तोयसंयुक्तं यदि त्वं मत्समुद्भवः
॥४५॥ततः शोकसमायुक्तः स नृपः स्वप्नदर्शनात् ॥
अन्नाभावात्समं मंत्रं मंत्रिभिः स तदाकरोत्
॥४६॥अहमाराधयिष्यामि सस्यार्थे वृषभध्वजम् ॥
राज्ये रक्षा विधातव्या भवद्भिः सादरं सदा
॥४७॥ततोऽत्रैव समागत्य स्थापयित्वा महेश्वरम् ॥
सम्यगाराधयामास व्रतैश्च नियमैस्तथा
॥४८॥अथ तस्य गतस्तुष्टिं वर्षांते भगवाञ्छिवः ॥
अब्रवीद्वरदोऽस्मीति प्रार्थयस्व यथेप्सितम्
॥४९॥राजोवाच
अन्नार्थं देवदेवेश मयायं विहितो विधिः ॥
तस्मात्त्वं यच्छ मे शीघ्रमसंख्यं वृषवाहन
॥५॥तथा संजायता वृष्टिः समस्ते धरणीतले ॥
येन सस्यानि जायंते सलिलानि च सांप्रतम्
॥५१॥जायतां मम तातस्य स्वर्गस्थस्य महात्मनः ॥
प्रसादात्तव संतृप्तिरक्षया सुरसत्तम
॥५२॥श्रीभगवानुवाच
भविता न चिराद्वृष्टिः प्रभूता धरणीतले ॥
भविष्यंति तथान्नानि यानि कानि महीतले
॥५३॥तस्मात्त्वं गच्छ राजेंद्र स्वगृहं प्रति सांप्रतम् ॥
मम वाक्यादसंदिग्धमेतदेव भविष्यति
॥५४॥तच्चैतन्मामकं लिंगं यत्त्वया स्थापितं नृप ॥
प्रातरुत्थाय यः कश्चित्सम्यक्तद्वीक्षयिष्यति
॥५५॥मिष्टान्नममृतस्वादु स हि नूनमवाप्स्यति ॥
मम वाक्यान्नृपश्रेष्ठ सदा जन्मनिजन्मनि
॥५६॥स एवं भगवानुक्त्वा ततश्चादर्शनं गतः ॥
सोऽपि राजा निजं स्थानं हर्षेण महतान्वितः ॥
आजगाम चकाराथ राज्यं निहतकंटकम्
॥५७॥सूत उवाच
अद्यापि कलिकालेऽत्र संप्राप्ते दारुणे युगे ॥
यस्तं मिष्टान्नदं पश्येत्प्रातरुत्थाय भक्तितः
॥५८॥स मिष्टान्नमवाप्नोति यदि कामयते द्विजाः ॥
निष्कामो वा समभ्येति स्थानं देवस्य शूलिनः
॥५९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मिष्टान्नदेश्वरमाहात्म्यवर्णनंनामैकचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४१ ॥