मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ३८

3
नागरखण्डः · 38

तत्रैव स्थापितं लिंगं धुन्धुमारेण भूभुजा

सूत उवाच

तत्रैव स्थापितं लिंगं धुन्धुमारेण भूभुजा ॥

सर्वरत्नमयं कृत्वा प्रासादं सुमनोहरम्

॥१॥

तत्र कृत्वाऽऽश्रमं श्रेष्ठं तपस्तेपे सुदारुणम् ॥

यत्प्रभावादयं देवस्तस्मिँल्लिङ्गे व्यवस्थितः

॥२॥

तस्य संनिहिता वापी कृता तेन महात्मना ॥

सुनिर्मलजलापूर्णा सर्वतीर्थोपमा शुभा

॥३॥

धुन्धुमारेश्वरं पश्येत्तत्र स्नात्वा नरोत्तमः ॥

न स पश्यति दुर्गाणि नरकाणि यमालये

॥४॥

ऋषय ऊचुः

धुंधुमारो महीपालः कस्मिन्वंशे बभूव सः ॥

कस्मिन्काले तपस्तप्तं तेनात्र सुमहात्मना

॥५॥

सूत उवाच

सूर्यवंशसमुद्भूतो बृहदश्वसुतो बली ॥

ख्यातः कुवलयाश्वेति धंधुमारस्तथैव सः

॥६॥

तेन धुन्धुर्महादैत्यो निहतो मरुजांगले ॥

धुन्धुमारः स्मृतस्तेन विख्यातो भुवनत्रये

॥७॥

चमत्कारपुरं क्षेत्रं स गत्वा पावनं महत् ॥

तपस्तेपे वयोंऽते च ध्यायमानो महेश्वरम्

॥८॥

संस्थाप्य सुमहल्लिंगं प्रासादे रत्नमंडिते ॥

बलिपूजोपहाराद्यैः पुष्पधूपानुलेपनैः

॥९॥

ततस्तस्य महादेवः स्वयमेव महेश्वरः ॥

प्रत्यक्षोऽभूद्वृषारूढो गौर्या सह तथा गणैः

॥१०॥

उवाच वरदोऽस्मीति प्रार्थयस्व यथेप्सितम् ॥

सर्वं तेऽहं प्रदास्यामि यद्यपि स्यात्सुदुर्लभम्

॥११॥

धुन्धुमार उवाच

यदि देयो वरोऽस्माकं त्वया सर्वसुरेश्वर ॥

संनिधानं प्रकर्तव्यं लिंगेऽस्मिन्वृषभध्वज

॥१२॥

श्रीभगवानुवाच

चैत्रे शुक्लचतुर्दश्यां सांनिध्यं नृपसत्तम ॥

अहं सदा करिष्यामि गौर्या सार्धं न संशयः

॥१३॥

तत्र वाप्यां नरः स्नात्वा यो मां संपूजयिष्यति ॥

लिंगेऽस्मिन्संस्थितं भूप मम लोकं स यास्यति

॥१४॥

सूत उवाच

एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥

सोऽपि राजा प्रहृष्टा त्मा स्थितस्तत्रैव मुक्तिभाक्

॥१५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धुन्धुमारेश्वरमाहात्म्यवर्णनंनामाष्टात्रिंशो अध्यायः ॥ ३८ ॥