धृतराष्ट्रादिकृतहाटकेश्वरक्षेत्रदर्शनवर्णनम्
सूत उवाच
तत्रैव स्थापितं लिंगं धृतराष्ट्रेण भूभुजा ॥
दुर्योधनेन चालोक्य सर्वपापैः प्रमुच्यते
॥१॥ऋषय ऊचुः
कस्मिन्काले नरेन्द्रेण धृतराष्ट्रेण भूभुजा ॥
तत्र संस्थापितं लिगं वद त्वं रौमहर्षणे
॥२॥सूत उवाच
आसीद्भानुमतीनाम बलभद्रसुता पुरा ॥
सर्वलक्षणसंपन्ना रूपौ दार्यगुणान्विता
॥३॥तां ददावथ पत्न्यर्थे धार्तराष्ट्राय धीमते ॥
दुर्योधनाय संमन्त्र्य विष्णुना सह यादवः
॥४॥अथ नागपुरात्सर्वे भीष्म द्रोणादयश्च ये ॥
कौरवाः प्रस्थितास्तूर्णं पुरीं द्वारवतीं प्रति
॥५॥तथा पांडुसुताः पंच परिवारसमन्विताः ॥
सौभ्रात्रं मन्यमानास्ते दुर्योधनसमन्वि ताः ॥
जग्मुर्द्वारवतीं हृष्टाः सैन्येन महतान्विताः
॥६॥अथ क्रमेण गच्छंतस्ते सर्वे कुरुपाण्डवाः ॥
आनर्तविषयं प्राप्ता धनधान्यसमाकुलम्
॥७॥सर्वपापहरं पुण्यं यत्र तत्क्षेत्रमुत्तमम् ॥
हाटकेश्वरदेवस्य विख्यातं भुवनत्रये
॥८॥अथ प्राह विशुद्धात्मा वृद्धः कुरुपितामहः ॥
धृतराष्ट्रं महीपालं सपुत्रं प्रहसन्निव
॥९॥भीष्म उवाच
एतद्वत्स पुरा दृष्टं मया क्षेत्रमनुत्तमम् ॥
हाटकेश्वरदेवस्य सर्वपातकनाशनम्
॥१०॥अत्राहं चैव नि र्मुक्तः स्त्रीहत्योद्भवपातकात् ॥
तस्मादत्रैव राजेंद्र तिष्ठामः पंचवासरान्
॥११॥येन सर्वाणि पश्यामस्तीर्थान्यायतनानि च ॥
यान्यत्र संति पुण्यानि मुनीनां भावितात्मनाम्
॥१२॥अथ तद्वचनाद्राजा धृतराष्ट्रोंऽबिकासुतः ॥
शतसंख्यैः सुतैः सार्धं कौतूहलसमन्वितः
॥१३॥जगाम सत्वरं तत्र यत्र तत्क्षेत्रमुत्तमम् ॥
तपस्विगणसंकीर्णं युक्तं चैवाश्रमैः शुभैः
॥१४॥ब्रह्मघोषेण महता नादितं सर्वतोदिशम् ॥
वह्निपूजोत्थधूम्रेण कलुषीकृतपाद पम् ॥
क्रीडामृगैश्च संकीर्णं धावद्भिर्बहुभिस्तथा
॥१५॥ततो निवार्य सैन्यं स्वमुपद्रवभयान्नृपः ॥
पञ्चभिः पांडवैः सार्धं शतसंख्यैस्तथा सुतैः
॥१६॥भीष्मेण सोमदत्तेन बाह्लीकेन समन्वितः ॥
द्रोणाचार्येण वीरेण तत्पुत्रेण कृपेण च
॥१७॥सौबलेन च कर्णेन तथान्यैरपि पार्थिवैः ॥
परिवारपरित्यक्तैस्तस्मिन्क्षेत्रे चचार सः
॥१८॥तेऽपि सर्वे महात्मानः क्षत्रियास्तत्र संस्थिताः ॥
चक्रुर्धर्मक्रियाः सर्वाः श्रद्धापूतेन चेतसा
॥१९॥स्नानं चक्रुर्विधानेन तीर्थेषु द्विजसत्तमाः ॥
भ्रांत्वाभ्रांत्वा सुपुण्येषु श्रुत्वाश्रुत्वा द्विजन्मनाम्
॥२०॥दानानि च विशिष्टानि ददुरिष्टानि चापरे ॥
दीनेभ्यः कृपणेभ्यश्च तपस्विभ्यो विशेषतः
॥२१॥चक्रुः श्राद्धक्रियाश्चान्ये पितॄनुद्दिश्य भक्तितः ॥
पितॄणां तर्पणं चान्ये तिलमिश्र जलेन च
॥२२॥अन्ये होमक्रिया भूपा जपमन्ये निरर्गलम् ॥
स्वाध्यायमपरे शान्ताः सम्यक्छ्रद्धासमन्विताः
॥२३॥देवतायतनान्यन्ये माहात्म्यसहितानि च ॥
श्रुत्वा पूर्वनृपाणां च पूजयंति विशेषतः
॥२४॥बलिदानैः सुवस्त्रैश्च गन्धपुष्पोपलेपनैः ॥
मार्जनैध्वजदानैश्च तथा प्रेक्षणकैः शुभैः
॥२५॥मंडनैः पुष्पमालाभिः समंताद्द्विजसत्तमाः ॥
हस्त्यश्वरथदानैश्च गोर्भिर्वस्त्रैश्च कांचनैः ॥
कृतार्था ब्राह्मणाः सर्वे कृतास्तै स्तत्र भक्तितः
॥२६॥एवं स्नात्वा तथाऽभ्यर्च्य देवान्विप्रान्नृपोत्तमाः ॥
धृतराष्ट्रसमायुक्ता जग्मुः स्वशिबिरं ततः
॥२७॥शंसन्तो विस्मया विष्टास्तीर्थान्यायतनानि च ॥
तस्मिन्क्षेत्रे द्विजांश्चैव तापसान्संशितव्रतान्
॥२८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये धृतराष्ट्रादिकृतहाटकेश्वरक्षेत्रदर्शनवर्णनंनाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥