मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २६८

3
नागरखण्डः · 268

कर्मणा केन मर्त्ये च नराणां जायते वद

आनर्त उवाच

कर्मणा केन मर्त्ये च नराणां जायते वद ॥

चक्रवर्तित्वमखिलं सर्वशत्रुविमर्दनम्

॥१॥

भर्तृयज्ञ उवाच

दुर्लभं भूमिपालत्वं सर्वपापैर्नराधिप ॥

तपोभिर्नियमैर्दानैस्तथान्यैश्च शुभैर्व्रतैः

॥२॥

यः पुनर्भूपतिर्भूत्वा पृथ्वीं दद्याद्धिरण्मयीम् ॥

गौतमेश्वरदेवस्य पुरतः श्रद्धयान्वितः ॥

चक्रवर्ती भवेन्नूनमेवमाह पितामहः

॥३॥

मांधाता धुन्धुमारश्च हरिश्चंद्रः पुरूरवाः।

भरतः कार्तवीर्यश्च षडेते चक्रवर्तिनः ॥

पृथ्वीदानं पुरा कृत्वा गौतमेश्वरसंनिधौ।

दत्त्वा हिरण्मयीं पृथ्वीं सार्वभौमास्ततः स्थिताः

॥५॥

आनर्त उवाच

भगवन्केन विधिना दातव्या सा वसुन्धरा ॥

अहं दास्यामि तां नूनं श्रद्धा मे महती स्थिता

॥६॥

भर्तृयज्ञ उवाच

कार्या पलशतेनोर्वी वृत्ताकारा नृपोत्तम ॥

तदर्धेनाथवा शक्त्या पंचविंशत्पलात्मिका

॥७॥

धरादाने महाराज वित्तशाठ्यं विवर्जयेत् ॥

नैव पंचपलादर्वाक्प्रदातव्या कथञ्चन ॥

लवणेक्षुसुरासर्पिर्दधिदुग्धजलोद्भवाः ॥

समुद्राः सप्त चैतांस्तु कक्षायां तत्र दर्शयेत्

॥९॥

जंबूप्लक्षकुशक्रौंचशाकशाल्मलिपुष्कराः।

समुद्रान्सरितः सप्त द्वैगुण्येन प्रकल्पयेत्

॥१०॥

महेन्द्रो मलयः सह्यो हिमवान्गंधमादनः ॥

विंध्यः शृंगी च सप्तैव कल्पयेत्कुलपर्वतान् ॥

. मध्ये प्रकल्पयेन्मेरुं दिक्षु विष्कम्भपर्वतान् ॥

जंबून्यग्रोधनीपांश्च प्लक्षश्चैव तथा द्रुमान्

॥१२॥

गंगाद्याः सरितस्तत्र प्राधान्येन प्रकल्पयेत् ॥

एवं निर्माप्य वसुधां सर्वां हेममयीं नृप ॥

. मंडपं कारयेत्पश्चाद्यथापूर्वं प्रकल्पितम्

॥१४॥

कुण्डानि तोरणान्येव ब्राह्मणग्रहपूजने ॥

पूर्ववत्सकलं कृत्वा मध्ये वेदिं प्रकल्पयेत्

॥१५॥

तत्र संस्थापयेत्पृथ्वीं पंचगव्येन पार्थिव ॥

यथोक्तमंत्रैस्तल्लिंगैस्ततः शुद्धोदकेन तु

॥१६॥

इमं मे गंगे यमुने पंचनद्यस्त्रिपुष्करम् ॥

श्रीसूक्तं पावमानं च हैमीं च तदनंतरम्

॥१७॥

स्नानकर्मणि योग्यांश स्वादिष्ठायनमुत्तमम्

॥१८॥

एवं संस्नाप्य विधिवद्वासांसि परिधापयेत् ॥

युवा सुवासा मंत्रेण सूक्ष्माणि विविधानि च

॥१९॥

ये भूतानामधीत्येवं ततः प्रोच्य प्रपूजयेत् ॥

धूरसीति च मंत्रेण धूपं दद्यात्समाहितः

॥२०॥

अग्निर्ज्योतीति मंत्रेण कुर्यादारार्तिकं ततः ॥

अहमस्मीति मंत्रेण सप्तधान्यं प्रकल्पयेत्

॥२१॥

एवं कृत्वाऽखिलं तस्या यजमानः सितांबरः ॥

पुरः स्थितोंजलिं बद्ध्वा मंत्रानेतानुदाहरेत्

॥२२॥

त्वया संधार्यते विश्वं जगदेतच्चराचरम् ॥

तव दानं करिष्यामि सांनिध्यं कुरु मेदिनि

॥२३॥

शरीरेष्वपि भूतानां त्वं देवि प्रथमं स्थिता ॥

ततश्चान्यानि भूतानि जलादीनि वसुन्धरे

॥२४॥

ये त्वां यच्छंति ते भूयस्त्वां लभंते न संशयः ॥

इह लोके परे चैव पार्थिवं रूपमाश्रिता

॥२५॥

एवं स्तुत्वा समादाय तोयं हेमाकृतिं नृप ॥

वासुदेवं हृदि स्थाप्य मंत्रेणानेन कल्पयेत्

॥२६॥

पातालादुद्धृता येन पृथ्वी सा लोककारिणा ॥

अस्या दानेन च सदा प्रीयतां मे जनार्दनः

॥२७॥

एवमुच्चार्य तत्तोयं तोयमध्ये परिक्षिपेत् ॥

न भूमौ नैव हस्ते च ब्राह्मणस्य नृपोत्तम

॥२८॥

ततो विसर्जयेद्देवीं मन्त्रेणानेन भागशः ॥

आगता च यथान्यायं पूजिता च यथाविधि

॥२९॥

अस्माकं त्वं हितार्थाय यत्रेष्टं तत्र गम्यताम् ॥

उस्रा वेदेति मंत्रेण समुच्चार्य ततः परम् ॥

ब्राह्मणेभ्यः प्रदातव्या संविभज्य नराधिप

॥३०॥

एवं ते सर्वमाख्यातं पृथिवीदानमुत्तमम्।

शृणुयात्पार्थिवो भावी दाता जन्मनिजन्मनि

॥३१॥

यो राजा पृथिवीं दद्याद्विधिनानेन पार्थिव ॥

राज्यभ्रंशो न वंशेऽपि तस्य संजायते क्वचित्

॥३२॥

राज्यभ्रंशसमोपेता ये दृश्यंते महीभुजः ॥

न तैर्वसुन्धरा दत्ता ब्राह्मणानां धृतात्मनाम्

॥३३॥

तस्मात्सर्वप्रयत्नेन पृथ्वीदानं समाचरेत् ॥

न हरेत्परदत्तां च कथंचिदपि मेदिनीम्

॥३४॥

एतत्पुण्यं प्रशस्यं च पृथिवीदानमुत्तमम् ॥

शृण्वतामपि राजेंद्र तद्देहाद्यघनाशनम्

॥३५॥

आस्तां तावत्प्रदानं च पृथिव्याः पृथिवीपतेः ॥

दातुः संप्रेरणं यस्या अज्ञानौघविनाशनम्

॥३६॥

रूपवान्सुभगश्चैव तथा च प्रियदर्शनः ॥

आधिव्याधिविनिर्मुक्तः पुत्रपौत्रसमन्वितः

॥३७॥

मेधावी जायते मर्त्यो दानस्यास्य प्रभावतः ॥

इत्थंभूता महाराज कृत्वा राज्यमकण्टकम्

॥३८॥

प्रीता विष्णोः पदं यांति शाश्वतं यन्निरामयम् ॥

अन्यत्रापि धरादानात्प्रकुर्याच्चक्रवर्तिताम्

॥३९॥

एकजन्मांतरं यावत्सम्यग्दत्तं नृपोत्तमः ॥

गौतमेश्वरदेवस्य यत्पुरा पुरतः कृतम्

॥४०॥

सप्तजन्मांतरं यावत्प्रकरोति न संशयः ॥

तस्मात्सर्वप्रयत्नेन तत्र देया मही नृप

॥४१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गौतमेश्वरमाहात्म्ये पृथ्वीदानमाहात्म्यवर्णनंनामाष्टषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६८ ॥