मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १३९

3
नागरखण्डः · 139

धर्मराजेश्वरोत्थं च माहात्म्यं द्विजसत्तमाः

सूत उवाच

धर्मराजेश्वरोत्थं च माहात्म्यं द्विजसत्तमाः ॥

यन्मया प्रश्रुतं पुण्यं सकाशात्स्वपितुः पुरा

॥१॥

तदहं कीर्तयिष्यामि शृणुध्वं सुसमाहिताः ॥

त्रैलोक्येऽपि सुविख्यातं सर्व पातकनाशनम्

॥२॥

तत्र क्षेत्रे पुरा विप्रः कश्यपान्वयसंभवः ॥

उपाध्याय इति ख्यातो वेदविद्यापरायणः

॥३॥

पश्चिमे वयसि प्राप्ते तस्य पुत्रो बभूव ह ॥

स्वाध्यायनियमस्थस्य प्रभूतविभवस्य च

॥४॥

पञ्चवर्षकमात्रस्तु यदा जज्ञे च तत्सुतः ॥

तदा मृत्युवशं प्राप्तः पितृमातृसुदुःखकृत्

॥५॥

ततः स ब्राह्मणः कोपं चक्रे वैवस्वतोपरि ॥

धर्मराजगृहं प्राप्तं दृष्ट्वा निजकुमारकम्

॥६॥

आदाय सलिलं हस्ते शुचिर्भूत्वासमाहितः ॥

प्रददौ दारुणं शापं धर्मराजाय दुःखितः

॥७॥

अपुत्रोऽद्य कृतो यस्मादहं तेन दुरात्मना ॥

अतः सोऽपि च दुष्टात्मा यमोऽपुत्रो भविष्यति

॥८॥

तथास्य भूतले लोको नैव पूजां विधास्यति ॥

कीर्तयिष्यति नो नाम यथान्येषां दिवौकसाम्

॥९॥

यः कश्चित्प्रातरुत्थाय नाम चास्य ग्रही ष्यति ॥

मंगल्यकरणे चाथ विघ्नं तस्य भविष्यति

॥१०॥

तं श्रुत्वा तस्य विप्रस्य यमः शापं सुदारुणम् ॥

स्वधर्मे वर्तमानस्तु ततो दुःखा न्वितोऽभवत्

॥११॥

एतस्मिन्नंतरे गत्वा ब्रह्मणः सदनं प्रति ॥

कृतांजलिपुटो भूत्वा यमः प्राह पितामहम्

॥१२॥

पश्य देवेश शप्तोऽहं निर्दोषोपि द्विजन्मना ॥

स्वधर्मे वर्तमानस्तु यथान्यः प्राकृतो जनः

॥१३॥

तस्मादहं त्यजिष्यामि नियोगं ते पितामह ॥

ब्रह्मशापभया द्भीतः सत्यमेतन्मयोदितम्

॥१४॥

पुरा मांडव्यशापेन शूद्रयोन्यवतारितः ॥

सांप्रतं पुत्ररहितः कृतोऽपूज्यश्च सत्तम

॥१५॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा दीनं वैवस्वतस्य च ॥

तत्कालोचितमाहेदं स्वयमेव शतक्रतुः

॥१६॥

युक्तमुक्तमनेनैतद्धर्मराजेन पद्मज ॥

नियोगे वर्तमानेन तावकीये सुरेश्वर

॥१७॥

अवश्यमेव मर्त्ये च मनुष्याः समये स्थिताः ॥

बाल्ये वा यौवने वाथ वार्धक्ये वा पितामह ॥

संहर्तव्या न संदेहो नाकाले च कथंचन

॥१८॥

एतदेव कृतं नाम धर्मराजाख्यमुत्तमम् ॥

त्वया च सममित्रस्य समशस्त्रोर्महात्मनः

॥१९॥

तस्मादद्य समालोक्य कश्चिदेव विचिंत्यताम् ॥

उपायो येन निर्दोषो नियोगं कुरुते तव

॥२०॥

ब्रह्मोवाच

ब्रह्मशापं न शक्तोऽह मन्यथाकर्तुमेवच ॥

उपायं च करिष्यामि सांप्रतं त्रिदशाधिप

॥२१॥

ततो ध्यानं प्रचक्रे स ब्रह्मा लोकपितामहः ॥

तदर्थं सर्वदेवानां पुरतः सुस माहितः

॥२२॥

तस्यैवं ध्यानसक्तस्य प्रादुर्भूताः समंततः ॥

मूर्ता रोगाः सुरौद्रास्ते वातगुल्मकफात्मकाः ॥

अष्टोत्तरशतप्रायाः प्रोचुस्तं च कृतादराः

॥२३॥

रोगा ऊचुः

किमर्थं देवदेवेश त्वया सृष्टा वयं विभो ॥

आदेशो दीयतां शीघ्रं प्रसादः क्रियतामिति

॥२४॥

व्रह्मोवाच

व्रजध्वं भूतले शीघ्रं ममादेशादसंशयम् ॥

यमादेशान्मनुष्येषु गन्तव्यमविकल्पितम्

॥२५॥

एवमुक्त्त्वा तु तान्रोगांस्ततः प्राह पितामहः ॥

धर्मराजं समीपस्थं भृशं दीनमधोमुखम् ॥

२६ एते ते व्याधयः सर्वे मया यम नियोजिताः ॥

साहाय्यं च करिष्यंति सर्वकृ त्येषु सर्वदा

॥२७॥

यः कश्चिदधुना मर्त्यो गतायुः संप्रपद्यते ॥

वधाय तस्य यत्नेन त्वया प्रेष्याः सदैव तु

॥२८॥

एतेषां जायते तेन जननाशसमुद्भवः ॥

अपवादो धरापृष्ठे न च संजायते तव

॥२९॥

तस्माद्गत्वा निजं स्थानं स्वाधिकारपरो भव ॥

ममादेशादसंदिग्धं नैवं दोषमवाप्स्यसि

॥३॥

ततस्तान्सकलान्व्याधीन्गृहीत्वा रविनंदनः ॥

यमलोकं समासाद्य ततः प्रोवाच सादरम्

॥३१॥

पृष्ट्वापृष्ट्वा च गंतव्यं चित्रगुप्तं धरातले ॥

गंतव्यं जननाशाय समये समुपस्थिते

॥३२॥

परमस्ति मया तत्र स्थापितं लिंगमुत्तमम् ।

हाटकेश्वरजेक्षेत्रे सर्वपातकनाशनम्

॥३३॥

यस्तं पश्यति सद्भक्त्या प्रातरुत्थाय मानवः ॥

स युष्माभिः सदा त्याज्यो दूरतो वचनान्मम

॥३४॥

एवमुक्त्वा स तान्व्याधींस्ततो वैवस्वतः स्वयम् ॥

तस्य विप्रस्य तं पुत्रं गृहीत्वा सत्वरं ययौ ॥

तस्यैव मंदिरे रम्ये कृत्वा रूपं द्विजन्मनः

॥३५॥

अथासौ ब्राह्मणो दृष्ट्वा स्वं पुत्रं गृहमागतम् ॥

सहितं विप्ररूपेण धर्मराजेन धीमता

॥३६॥

ततः प्रहृष्टचित्तेन सत्वरं सम्मुखो ययौ ॥

पुत्रपुत्रेति जल्पन्स निजभार्यासमन्वितः

॥३७॥

परिष्वज्य ततो भूयो वाष्पपर्याकुलेक्षणः ॥

आघ्राय च ततो मूर्ध्नि वाक्यमेतदुवाच ह

॥३८॥

ब्राह्मण उवाच

कथं पुत्र समायातस्त्वं तस्मा द्यममंदिरात् ॥

न कश्चित्पुनरायाति यत्र गत्वाऽपि वीर्यवान्

॥३९॥

किं वा चैतत्समुत्पन्नमिन्द्रजालं ममांतिकम् ॥

किं वा स्वप्नमिदं किं वा ममायं दृष्टिविभ्रमः

॥४॥

कश्चायं ब्राह्मणः पार्श्वे तव संतिष्ठते सुत ॥

दिव्येन तेजसा युक्तस्तं नमाम्यहमात्मज

॥४१॥

पुत्र उवाच

एष ब्राह्मणरूपेण समायातो यमः स्वयम् ॥

मामादाय कृपाविष्टो ज्ञात्वा त्वां दुःखसंयुतम्

॥४२॥

तस्मात्त्वं कुरु तातास्य शापानुग्रहमद्य वै ॥

गृहप्राप्तस्य सुस्नेहाद्यद्यहं तव वल्लभः

॥४३॥

ततस्तस्य प्रणामं स कृत्वा ब्राह्मणसत्तमः ॥

व्रीडयाऽधोमुखो भूत्वा ततः प्रोवाच सादरम्

॥४४॥

ब्राह्मण उवाच

अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥

यत्पुत्रस्य मम प्राप्तिर्गतस्य यमसादनम्

॥४५॥

त्वं च पुत्रकृते तात सन्तोषं परमं गतः ॥

तस्मात्पुत्रेण संयुक्तो यथायं स्यात्तथा कुरु

॥४६॥

ब्राह्मण उवाच

न मे स्यादनृतं वाक्यं कदा चिदपि पुत्रक ॥

अपि स्वैरेण यत्प्रोक्तं किं पुनर्दुःखितेन च

॥४७॥

तस्मात्तस्य भवेत्पुत्रो दैवयोनिसमुद्भवः ॥

न कथंचिदपि प्राज्ञ मम शापवशाद्ध्रुवम्

॥४८॥

भविष्यति सुतश्चान्यो मानुषीयोनिसंभवः ॥

राजसूयाश्वमेधाभ्यां यश्चैनं तारयिष्यति

॥४९॥

कोऽर्थः पुत्रेण जातेन यो न संतारणक्षमः ॥

पितृपक्षं शुभं कर्म कृत्वा सर्वोत्तमं भुवि

॥५०॥

तथा पूजाकृते योऽस्य शापो दत्तश्च वै पुरा ॥

तत्रापि शृणु मे वाक्यं तस्य पुत्रक जल्पतः

॥५१॥

वेदोक्तैर्विविधैर्मन्त्रैर्या पूजा चास्य संस्थिता ॥

न भविष्यति सा लोके कथंचिदपि पुत्रक

॥५२॥

अस्य मानुषसंभूतैर्मन्त्रैः पूजा भविष्यति ॥

विशिष्टा सर्वदेवेभ्यः सत्यमेतन्मयोदितम्

॥५३॥

पुत्र उवाच

अहमेनं प्रतिष्ठाप्य द्रिजश्रेष्ठ महीतले ॥

सम्यगाराधयिष्यामि किमन्यैर्विबुधैर्मम

॥५४॥

तस्मात्संकीर्तयिष्यामि मंत्रान्मानुषसंभवान् ॥

तथा पूजाविधानं च त्वत्प्रसादेन पूर्वज

॥५५॥

ततः सुगं नः पन्थेति तस्य मंत्रं विधाय सः ॥

समाचरत्प्रहृष्टात्मा धर्मराजस्य शृण्वतः

॥५६॥

तच्छ्रुत्वाथ यमः प्रोच्चैः सुप्रसन्नेन चेतसा ॥

तं ब्राह्मण मुवाचेदं हर्षगद्गदयागिरा

॥९७॥

यम उवाच

कथंचिदपि विप्रेद्र न मे स्याद्दर्शनं वृथा ॥

अन्येषामपि देवानां तस्मात्प्रार्थय वांछि तम्

॥५८॥

ब्राह्मण उवाच

तवार्चां मम पुत्रोऽयं स्थापयिष्यति यामिह ॥

तामनेनैव मंत्रेण यः कश्चित्पूजयेद्द्विजः

॥५९॥

भवेत्संवत्सरं यावत्संप्राप्ते पंचमीदिने ॥

मा तस्य पुत्रशोको हि इह लोके कथञ्चन

॥६०॥

सूत उवाच

स तथेति प्रतिज्ञाय संप्रहृष्टमना यमः ॥

यमलोकं जगामाथ स्वाधिकारपरोऽभवत्

॥६१॥

सोऽपि ब्राह्मणदायादः कृत्वा प्रासादमुत्तमम् ॥

यममाराधयामास मध्ये संस्थाप्य भक्तितः ॥

पित्रा चोक्तेन मन्त्रेण तेनैव विधिपूर्वकम्

॥६२॥

ततश्च क्रमशः प्राप्य पुत्रपौत्राननेकशः ॥

कालधर्ममनुप्राप्तश्चिरं स्थित्वा महीतले

॥६३॥

एतद्वः सर्वमाख्यातं पुराणेयत्पुरा श्रुतम् ॥

यश्चैतत्कीर्तयेद्भक्त्या संप्राप्ते पंचमीदिने ॥

नापमृत्युर्भवेत्तस्य न च शोकः सुतोद्भवः

॥६४॥

इति श्रीस्कांदे महपुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धर्मराजेश्वरमाहात्म्यवर्णनंनामैकोनचत्वारिंशदुत्तर शततमोऽध्यायः ॥ १३९ ॥