मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १००

3
नागरखण्डः · 100

गमनवर्णनम्

सूत उवाच

एवं भुक्त्वा स विप्रर्षिर्वांछया राममंदिरे ॥

दत्ताशीर्निर्गतः पश्चादामंत्र्य रघुनंदनम्

॥१॥

अथ याते मुनौ तस्मिन्दुर्वाससि तदंतिकात् ॥

लक्ष्मणः खङ्गमादाय रामदेवमुवाच ह

॥२॥

एतत्खङ्गं गृहीत्वाशु मां प्रभो विनिपातय ॥

येन ते स्यादृतं वाक्यं प्रतिज्ञातं च यत्पुरा

॥३॥

ततो रामश्चिरात्स्मृत्वा तां प्रतिज्ञां स्वयं कृताम् ॥

वधार्थं संप्रविष्टस्य समीपे पुरुषस्य च

॥४॥

ततोऽतिचिंतयामास व्याकुलेनांतरात्मना ॥

बाष्पव्याकुलनेत्रश्च निःष्वसन्पन्नगो यथा

॥५॥

तं दीनवदनं दृष्ट्वा निःष्वसंतं मुहुर्मुहुः ॥

भूयः प्रोवाच सौमित्रिर्विनयावनतः स्थितः

॥६॥

एष एव परो धर्मो भूपतीनां विशेषतः ॥

यथात्मीयं वचस्तथ्यं क्रियते निर्विकल्पितम्

॥७॥

तस्मात्त्वया प्रभो प्रोक्तं स्वयमेव ममाग्रतः ॥

तस्यैव देवदूतस्य तारनादेन कोपतः

॥९॥

योऽत्रागच्छति सौमित्रे मम दूतस्य संनिधौ ॥

तं चेद्धन्मि स्वहस्तेन नाहं तस्मात्सुपापकृत्

॥९॥

तदहं चागतस्तात भयाद्दुर्वाससो मुनेः ॥

निषिद्धोऽपि त्वयातीव तस्माच्छीघ्रं तु घातय

॥१०॥

ततः संमंत्र्य सुचिरं मंत्रिभिः सहितो नृपः ॥

ब्राह्मणैर्धर्मशास्त्रज्ञैस्तथान्यैर्वेदपारगैः

॥११॥

प्रोवाच लक्ष्मणं पश्चाद्विनयावनतं स्थितम् ॥

वाष्पक्लिन्नमुखो रामो गद्गदं निःश्वसन्मुहुः

॥१२॥

व्रज लक्ष्मण मुक्तस्त्वं मया देशातरं द्रुतम् ॥

त्यागो वाथ वधो वाथ साधूनामुभयं समम्

॥१३॥

न मया दर्शनं भूयस्तव कार्यं कथंचन ॥

न स्थातव्यं च देशेऽपि यदि मे वांछसि प्रियम्

॥१४॥

तस्य तद्वचनं श्रुत्वा प्रणिपत्य ततः परम् ॥

निर्ययौ नगरात्तस्मात्तत्क्षणादेव लक्ष्मणः

॥१५॥

अकृत्वापि समालापं केनचिन्निजमंदिरे ॥

मात्रा वा भार्यया वाथ सुतेन सुहृदाथवा

॥१६॥

ततोऽसौ सरयूं गत्वाऽवगाह्याथ च तज्जलम् ॥

शुचिर्भूत्वा निविष्टोथ तत्तीरे विजने शुभे

॥१७॥

पद्मासनं विधायाथ न्यस्यात्मानं तथात्मनि ॥

ब्रह्मद्वारेण तं पश्चात्तेजोरूपं व्यसर्जयत्

॥१८॥

अथ तद्राघवो दृष्ट्वा महत्तेजो वियद्गतम् ॥

विस्मयेन समायुक्तोऽचिन्तयत्किमिदं ततः

॥१९॥

अथ मर्त्ये परित्यक्ते तेजसा तेन तत्क्षणात् ॥

वैष्णवेन तुरीयेण भागेन द्विजसत्तमाः

॥२०॥

पपात भूतले कायं काष्ठलोष्टोपमं द्रुतम् ॥

लक्ष्मणस्य गतश्रीकं सरय्वाः पुलिने शुभे

॥२१॥

ततस्तु राघवः श्रुत्वा लक्ष्मणं गतजीवितम् ॥

पतितं सरितस्तीरे विललाप सुदुःखितः

॥२२॥

स्वयं गत्वा तमुद्देशं सामात्यः ससुहृज्जनः ॥

लक्ष्मणं पतितं दृष्ट्वा करुणं पर्यदेवयत्

॥२३॥

हा वत्स मां परित्यज्य किं त्वं संप्रस्थितो दिवम् ॥

प्राणेष्टं भ्रातरं श्रेष्ठं सदा तव मते स्थितम्

॥२४॥

तस्मिन्नपि महारण्ये गच्छमानः पुरादहम् ॥

? अपि संधार्यमाणेन अनुयातस्त्वया तदा

॥२५॥

संप्राप्तेऽपि कबंधाख्ये राक्षसे बलवत्तरे ॥

त्वया रात्रिमुखे घोरे सभार्योऽहं प्ररक्षितः

॥२६॥

येनेन्द्रजिद्धतो युद्धे तादृग्रूपो निशाचरः ॥

स एष पतितः शेते गतासुर्धरणीतले

॥९७॥

येन शूर्पणखा ध्वस्ता राक्षसी सा च दारुणा ॥

लीलयापि ममादेशात्सोयमेवंविधः स्थितः

॥२८॥

यद्बाहुबलमाश्रित्य मया ध्वस्ता निशाचराः ॥

सोऽयं निपतितः शेते मम भ्राता ह्यनाथवत् ॥

?

॥२९॥

हा वत्स क्व गतो मां त्वं विमुच्य भ्रातरं निजम् ॥

ज्येष्ठं प्राणसमं किं ते स्नेहोऽद्य विगतः क्वचित्

॥३०॥

सूत उवाच

एवं बहुविधान्कृत्वा प्रलापान्रघुनन्दनः ॥

मातृभिः सहितो दीनः शोकेन महतान्वितः

॥३१॥

ततस्ते मंत्रिणस्तस्य प्रोचुस्तं वीक्ष्य दुःखितम् ॥

विलपंतं रघुश्रेष्ठं स्त्रीजनेन समन्वितम्

॥३२॥

मंत्रिण ऊचुः

मा शोकं कुरु राजेन्द्र यथान्यः प्राकृतः स्थितः ॥

कुरुष्व च यथेदं स्यात्सांप्रतं चौर्ध्वदैहिकम्

॥३३॥

नष्टं मृतमतीतं च ये शोचन्ति कुबुद्धयः ॥

धीराणां तु पुरा राजन्नष्टं नष्टं मृतं मृतम्

॥३४॥

एवं ते मन्त्रिणः प्रोच्य ततस्तस्य कलेवरम् ॥

लक्ष्मणस्य विलप्यौच्चैश्चन्दनोशीरकुंकुमैः

॥३५॥

कर्पूरागुरुमिश्रैश्च तथान्यैः सुसुगन्धिभिः ॥

परिवेष्ट्य शुभैर्वस्त्रैः पुष्पैः संभूष्य शोभनैः

॥३६॥

चन्दनागुरुकाष्ठैश्च चितिं कृत्वा सुविस्तराम् ॥

न्यदधुस्तस्य तद्गात्रं तत्र दक्षिणदिङ्मुखम्

॥३७॥

एतस्मिन्नंतरे जातं तत्राश्चर्यं द्विजोत्तमाः ॥

तन्मे निगदतः सर्वं शृण्वंतु सकलं द्विजाः

॥३८॥

यावत्तेंऽतः समारोप्य चितां तस्य कलेवरम् ॥

प्रयच्छंति हविर्वाहं तावन्नष्टं कलेवरम्

॥३९॥

एतस्मिन्नंतरे वाणी निर्गता गगनांगणात् ॥

नादयंती दिशः सर्वाः पुष्पवर्षादनंतरम्

॥४०॥

रामराम महाबाहो मा त्वं शोकपरो भव ॥

न चास्य युज्यते वह्निर्दातुं चैव कथंचन

॥४१॥

ब्रह्मज्ञानप्रयुक्तस्य संन्यस्तस्य विशेषतः ॥

अग्निदानं न युक्तं स्यात्सर्वेषामपि योगिनाम्

॥४२॥

तवायं बांधवो राम ब्रह्मणः सदनं गतः।

ब्रह्मद्वारेण चात्मानं निष्क्रम्य सुमहायशाः

॥४३॥

अथ ते मंत्रिणः प्रोचुस्तच्छ्रुत्वाऽऽकाशगं वचः ॥

अशोच्यो यं महाराज संसिद्धिं परमां गतः ॥

लक्ष्मणो गम्यतां शीघ्रं तस्मात्स्वभवने विभो

॥४४॥

चिन्त्यन्तां राजकार्याणि तथा यच्चौर्ध्वदैहिकम् ॥

कुरु स्नेहोचितं तस्य पृष्ट्वा ब्राह्मणसत्तमान्

॥४५॥

राम उवाच

नाहं गृहं गमिष्यामि लक्ष्मणेन विनाऽधुना ॥

प्राणानत्र विहास्यामि यथा तेन महात्मना

॥४६॥

एष पुत्रो मया दत्तः कुशाख्यो मम संमतः ॥

युष्मभ्यं क्रियतां राज्ये मदीये यदि रोचते

॥४७॥

एवमुक्त्वा ततो रामो गन्तुकामो दिवालयम् ॥

चिन्तयामास भूयोऽपि स्मृत्वा मित्रं विभीषणम्

॥४८॥

मया तस्य तदा दत्तं लंकायां राज्यमक्षयम् ॥

बहुभक्तिप्रतुष्टेन यावच्चन्द्रार्कतारकाः

॥४९॥

अतिक्रूरतरा जाती राक्षसानां यतः स्मृता ॥

विशेषाद्वरपुष्टानां जायतेऽत्र धरातले

॥५०॥

तच्चेद्राक्षसभावेन स महात्मा विभीषणः ॥

करिष्यति सुरैः सार्धं विरोधं रावणो यथा

॥५१॥

तं देवाः सूदयिष्यंति उपायैः सामपूर्वकैः ॥

त्रैलोक्यकण्टको यद्वत्तस्य भ्राता दशाननः

॥५२॥

ततो मे स्यान्मृषा वाणी तस्माद्गत्वा तदंतिकम् ॥

शिक्षां ददामि तस्याहं यथा देवान्न दूषयेत्

॥५३॥

तथा मे परमं मित्रं द्वितीयं वानरः स्थितः ॥

सुग्रीवाख्यो महाभागो जांबवांश्च तथाऽपरः

॥५४॥

सभृत्यो वायुपुत्रश्च वालिपुत्रसमन्वितः ॥

कुमुदाख्यश्च तारश्च तथान्येऽपि च वानराः

॥५५॥

तस्मात्तानपि संभाष्य सर्वान्संमंत्र्य सादरम् ॥

ततो गच्छामि देवानां कृतकृत्यो गृहं प्रति

॥५६॥

एवं संचिन्त्य सुचिरं समाहूय च पुष्पकम् ॥

तत्रारुह्य ययौ तूर्णं किष्किन्धाख्यां पुरीं प्रति

॥५७॥

अथ ते वानरा दृष्ट्वा प्रोद्द्योतं पुष्पकोद्भवम् ॥

विज्ञाय राघवं प्राप्तं सत्वरं सम्मुखा ययुः

॥५८॥

ततः प्रणम्य ते दूराज्जानुभ्यामवनिं गताः ॥

जयेति शब्दमादाय मुहुर्मुहुरितस्ततः

॥५९॥

ततस्तेनैव संयुक्ताः किष्किन्धां तां महापुरीम् ॥

विविशुः सत्पताकाभिः समंतात्समलंकृताम् ॥

६.१००.६० अथोत्तीर्य विमानाग्र्यात्सुग्रीवभवने शुभे ॥

प्रविवेश द्रुतं रामः सर्वतः सुविभूषिते

॥६१॥

तत्र रामं निविष्टं ते विश्रांतं वीक्ष्य वानराः ॥

अर्घ्यादिभिश्च संपूज्य पप्रच्छुस्तदनन्तरम्

॥६२॥

वानरा ऊचुः

तेजसा त्वं विनिर्मुक्तो दृश्यसे रघुनन्दन ॥

कृशोऽस्यतीव चोद्विग्नः कच्चित्क्षेमं गृहे तव

॥६३॥

काये वाऽनुगतो नित्यं तथा ते लक्ष्मणोऽनुजः ॥

न दृश्यते समीपस्थः किमद्य तव राघव

॥६४॥

तथा प्राणसमाऽभीष्टा सीता तव प्रभो ॥

दृश्यते किं न पार्श्वस्था एतन्नः कौतुकं परम्

॥६५॥

सूत उवाच

तेषां तद्वचनं श्रुत्वा चिरं निःश्वस्य राघवः ॥

वाष्पपूर्णेक्षणो भूत्वा सर्वं तेषां न्यवेदयत्

॥६६॥

अथ सीता परित्यक्ता तथा भ्राता स लक्ष्मणः ॥

यदर्थं तत्र संप्राप्तः स्वयमेव द्विजोत्तमाः

॥६७॥

तच्छ्रुत्वा वानराः सर्वे सुग्रीवप्रमुखास्ततः ॥

रुरुदुस्ते सुदुःखार्ताः समालिंग्य ततः परम्

॥६८॥

एवं चिरं प्रलप्योच्चैस्ततः प्रोचू रघूत्तमम् ॥

आदेशो दीयतां राजन्योऽस्माभिरिह सिध्यति

॥६९॥

धन्या वयं धरापृष्ठे येषां त्वं रघुसत्तम ॥

ईदृक्स्नेहसमायुक्तः समागच्छसि मंदिरे

॥७०॥

राम उवाच

उषित्वा रजनीमेकां सुग्रीव तव मंदिरे ॥

प्रातर्लंकां गमिष्यामि यत्रास्ते स विभीषणः ७१ ॥

प्रधानामात्ययुक्तेन त्वयापि कपिसत्तम ॥

आगंतव्यं मया सार्धं विभीषणगृहं प्रति

॥७२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्रीरामेश्वरस्थापन प्रस्तावे लक्ष्मणनिर्वाणोत्तरं श्रीरामस्य सुग्रीवनगरींप्रति गमनवर्णनंनाम शततमोऽध्यायः