दुःशीलोऽपि च तत्कृत्वा गुरोर्नाम्ना शिवालयम्
सूत उवाच
दुःशीलोऽपि च तत्कृत्वा गुरोर्नाम्ना शिवालयम् ॥
निम्बेश्वर इति ख्यातं दक्षिणां दिशमाश्रितम्
॥१॥चकार परया भक्त्या तत्पादाब्जमनुस्मरन् ॥
तथा तस्य तु भार्या या नाम्ना शाकंभरी स्मृता
॥२॥स्वनामांका तत्र दुर्गा तथा संस्थापिता तया ॥
ततस्तु तद्धनं ताभ्यां किचिच्छेषं व्यवस्थितम्
॥३॥पूजार्थं देवताभ्यां च ब्राह्मणेभ्यः समर्पितम् ॥
भिक्षाभुजौ ततो जातौ दम्पती तौ ततः परम्
॥४॥कस्यचित्त्वथ कालस्य दुःशीलो निधनं गतः
॥५॥शाकंभर्यपि तत्कायं गृहीत्वा हव्यवाहनम् ॥
प्रविष्टा नृपशार्दूल निर्विकल्पेन चेतसा
॥६॥ततो विमानमारुह्य वराप्सरःसुसेवितम् ॥
गतौ तौ द्वावपि स्वर्गं संप्रहृष्टतनूरुहौ
॥७॥एतं दुःशीलजं यस्तु पठेदाख्यानमुत्तमम् ॥
स सर्वैर्मुच्यते पापैरज्ञानविहितैर्नृप
॥८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये निम्बेश्वरशाकंभर्युत्पत्तिमाहात्म्यवर्णनं नाम पञ्चसप्तत्युत्तरद्विशततमोद्भयायः
॥२७५॥