मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १३६

3
नागरखण्डः · 136

दीर्घिकोत्पत्तिमाहात्म्यवर्णनम्

मांडव्य उवाच

ग्रहीष्यामि सुरश्रेष्ठा वरं युष्मत्समुद्रवम् ॥

परं मे निर्णयं चैकं धर्मराजः प्रचक्षतु

॥१॥

सर्वेषां प्राणिनां लोके कृतं कर्म शुभाशुभम् ॥

उपतिष्ठति नान्यत्र सत्यमेतत्सुरोत्तमाः

॥२॥

मयाप्यत्र परे चापि किं कृतं पातकं च यत् ॥

ईदृशीं वेदनां प्राप्तो न च मृत्युं कथचन

॥३॥

धर्मराज उवाच

अन्यदेहे त्वया विप्र बालभावेन वर्तता ॥

शूलाग्रेण सुतीक्ष्णेन काये विद्धो बकः क्षितौ

॥४॥

नान्यत्कृतमपि स्वल्पं पातकं किंचिदेव हि ॥

एतस्मात्कारणादेषा व्यथा संसेविता द्विज

॥५॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा भृशं क्रोधसमन्वितः ॥

ततस्तं प्राह मांडव्यो धर्मराजं पुरः स्थितम्

॥६॥

अस्य स्वल्पापराधस्य यस्माद्भूयान्विनिग्रहः ॥

कृतस्त्वया सुदुर्बुद्धे तस्माच्छापं गृहाण मे

॥७॥

त्वं प्राप्य मानुषं देहं शूद्रयोनौ व्यवस्थितः ॥

जातिक्षयकृतं दुःखं प्रभूतं सेवयिष्यसि

॥८॥

तथा कृता मयैषाद्य व्यवस्था सर्वदेहिनाम् ॥

अष्टमाद्वत्सरादूर्ध्यं कर्मणा गर्हितेन च ॥

प्रग्रहीष्यति वै जंतुः पुरुषो योषिदेव वा

॥९॥

एवमुक्त्वा स मांडव्यो धर्मराजं ततः परम् ॥

प्रस्थितो रोषनिर्मुक्तो वांछिताशां प्रति द्विजाः

॥१०॥

अथ तं प्रस्थितं दृष्ट्वा प्रोचुः सर्वे दिवौकसः ॥

धर्मराजकृते व्यग्राः श्रुत्वा शापं तथाविधम्

॥११॥

देवा ऊचुः

भगवन्पापसक्तस्य धर्मराजस्य केवलम् ॥

न त्वमर्हसि शापेन शूद्रं कर्तुं कथंचन

॥१२॥

प्रसादं कुरु तस्मात्त्वमस्य धर्मपतेर्द्विज ॥

अस्माकं वचनात्सद्यः प्रार्थयस्व तथा वरम्

॥१३॥

मांडव्य उवाच

नान्यथा जायते वाणी या मयोक्ता सुरोत्तमाः ॥

अवश्यं धर्मराजोऽयं शूद्रयोनौ प्रयास्यति

॥१४॥

परं नैवास्य संतानं तस्यां योनौ भविष्यति ॥

संप्राप्स्यति च भूयोऽपि धर्मराजत्वमुत्तमम्

॥१५॥

आराधयतु चाव्यग्रः क्षेत्रेऽत्रैव त्रिलोचनम् ॥

प्रसादात्तस्य देवस्य शीघ्रं मृत्युमवाप्स्यति

॥१६॥

तथा देयो वरो मह्यं भवद्भिर्यदि स्वर्गपाः ॥

तदेषा शूलिकाऽस्माकं स्पर्शाद्भूयात्सुधर्मदा

॥१७॥

देवा ऊचुः

एनां यः प्रातरुत्थाय स्पर्शयिष्यति शूलिकाम् ॥

पातकात्स विमुक्तो वा इह लोके भविष्यति

॥१८॥

एवमुक्त्वा मुनिं तं ते देवाः शक्रपुरोगमाः ॥

ततस्तां सादरं प्राहुः सह भर्त्रा पतिव्रताम्

॥१९॥

त्वमपि प्रार्थयाभीष्टमस्मत्तो वरवर्णिनि ॥

यत्ते चित्ते स्थितं नित्यं नादेयं विद्यतेऽत्र नः

॥२०॥

पतिव्रतोवाच

येयं मयाकृता गर्ता स्थानेऽत्र त्रिदशेश्वराः ॥

मन्नाम्ना ख्यातिमायातु दीर्घिकेति जगत्त्रये

॥२१॥

देवा ऊचुः

अद्यप्रभृति लोकेऽत्र गर्त्तेयं तव शोभने ॥

दीर्घिकेति सुविख्याता भविष्यति जगत्त्रये

॥२२॥

येऽस्यां स्नानं करिष्यंति प्रातरुत्थाय मानवाः ॥

सर्वपापविनिर्मुक्तास्ते भविष्यंति तत्क्षणात्

॥२३॥

कन्याराशिगते सूर्ये संप्राप्ते पंचमीदिने ॥

येऽत्र स्नानं करिष्यंति श्रद्धया सहिता नराः

॥२४॥

अपुत्रास्ते भविष्यंति सपुत्रा वंशवर्धनाः ॥

एवमुक्त्वाऽथ तां देवा जग्मुः स्वर्गं द्विजोत्तमाः

॥२५॥

पतिव्रतापि तेनैव सह कांतेन सुन्दरी ॥

सेवयामास कल्याणी स्मरसौख्यमनुत्तमम्

॥२६॥

पर्वतेषु सुरम्येषु नदीनां पुलिनेषु च ॥

उद्यानेषु विचित्रेषु वनेषूपवनेषु च

॥२७॥

ततो वयसि संप्राप्ते पश्चिमे कालपर्ययात् ।

तदेवात्मीयसत्तीर्थं सेवयामास सादरम्

॥२८॥

ततो देहं परित्यक्त्वा स्वकांतं वीक्ष्य तं मृतम् ॥

तत्र तोये जगामाथ ब्रह्मलोकं पतिव्रता

॥२९॥

एतद्वः सर्वमाख्यातं दीर्घिकाख्यानमुत्तमम् ॥

यस्य संश्रवणादेव नरः पापात्प्रमुच्यते

॥३०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वर क्षेत्रमाहात्म्ये दीर्घिकोत्पत्तिमाहात्म्यवर्णनंनाम षट्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३६