मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १४५

3
नागरखण्डः · 145

हाटकेश्वरक्षेत्रमाहात्म्येऽमरकेश्वरक्षेत्रमाहात्म्यवर्णनम्

ऋषय ऊचुः

यत्त्वया कथितं सूत न मृता सा कुमारिका ॥

हता रौद्रप्रहारैश्च कौतुकं तन्महत्तरम्

॥१॥

यतो भूयः प्रसंजाता योगिनी हरतुष्टिदा ॥

यत्त्वार्थं सर्वमाचक्ष्व कारणं च तदद्भुतम्

॥२॥

सूत उवाच

सा प्रविष्टा समं तेन सुपुण्यममरेश्वरम् ॥

माघकृष्णचतुर्दश्यां न मृत्युर्यत्र विद्यते

॥३॥

' अपि चैवायुषः शेषे किमुताकालतो द्विजाः ॥

तेन नो निधनं प्राप्ता हतापि सुदृढं तदा

॥४॥

ऋषय ऊचुः

अमरेश्वर इत्युक्तो यो देवो ह्यमरत्वदः ॥

केन संस्थापितो ह्यत्र किंप्रभावश्च कीर्तय

॥५॥

सूत उवाच

अदितिश्च दितिश्चैव प्रजापतिसुते शुभे ॥

कृते पुरातिरूपाढ्ये कश्यपेन महात्मना

॥६॥

अदित्यां विबुधा जाता दितेश्चैव तु दैत्यपाः ॥

तेषां सापत्न्यभावेन महद्वैरमुपस्थितम् ॥

अथ दैत्यैः सुरा ध्वस्ताः कृताश्चान्ये पराङ्मुखाः ॥

अन्ये तु भयसंत्रस्ता दिशो जग्मुः क्षतांगकाः

॥८॥

ततो दुःखसमायुक्ता देवमातात्र संस्थिता ॥

तपश्चक्रे दिवानक्तं शिवध्यानपरायणा

॥९॥

एवं तस्यास्तपःस्थाया गते युगचतुष्टये ॥

निर्भिद्य धरणीपृष्ठं शिवलिंगं समुत्थितम्

॥१०॥

ततस्तस्मै कृतानन्दा स्तुत्वा स्तोत्रैः पृथग्विधैः ॥

अष्टांगप्रणिपातेन नमश्चक्रे समाहिता

॥११॥

एतस्मिन्नंतरे वाणी संजाता गगनांगणे ॥

शरीररहिता दिव्या मेघगम्भीरनिःस्वना

॥१२॥

वरं प्रार्थय कल्याणि यस्ते हृदि व्यवस्थितः ॥

प्रसन्नोऽहं प्रदास्यामि तवाद्य शशिशेखरः

॥१३॥

अदितिरुवाच

मम पुत्राः सुरश्रेष्ठ हन्यन्ते युधि दानवैः ॥

तत्कुरुष्व गतायासानवध्यान्रणमूर्धनि

॥१४॥

श्रीभगवानुवाच

एतल्लिंगं मदीयं ये स्पृष्ट्वा यास्यंति संयुगे ॥

अवध्यास्ते भविष्यन्ति यावत्संवत्सरं शुभे

॥१५॥

अन्योऽपि मानवो योऽत्र चतुर्दश्यां समाहितः ॥

माघमासस्य कृष्णायां प्रकरिष्यति जागरम्

॥१६॥

सोऽपि संवत्सरं यावद्भविष्यति निरामयः ॥

अपि मृत्युदिने प्राप्ते योऽस्मिन्नायतने शुभे

॥१७॥

आगमिष्यति तं मृत्युर्दूरात्परिहरिष्यति ॥

एवमुक्त्वाथ सा वाणी विरराम ततः परम्

॥१८॥

अदितिश्चापि सन्तुष्टा हतशेषान्सुतांस्ततः ॥

समानीयाथ तल्लिंगं तेषामेव न्यदर्शयत् ॥

कथयामास तत्सर्वं माहात्म्यं यद्वरोदितम्

॥१९॥

ततस्ते विबुधाः सर्वे तल्लिंगं प्रणिपत्य च ॥

प्रतिजग्मुस्तुष्टियुक्ताः शस्त्राण्यादाय तान्प्रति

॥२०॥

यत्र ते दानवा हृष्टाः स्थिताः शक्रपदे शुभे ॥

स्वर्गभोगसमायुक्ता नन्दनांतर्व्यवस्थिताः

॥२१॥

अथ ते दानवा दृष्ट्वा संप्राप्तांस्त्रिदिवौकसः ॥

सहसा संगरार्थाय नानाशस्त्रधरान्बहून्

॥२२॥

रथवर्यान्समारुह्य धृतशस्त्रास्त्रवर्मणः ॥

युद्धार्थं सम्मुखा जग्मुर्गर्जमाना घना इव

॥२३॥

ततः समभवद्युद्धं देवानां दानवैः सह ॥

रोषप्रेरितचित्तानां मृत्युं कृत्वा निवर्तनम्

॥२४॥

ततस्ते विबुधाः सर्वे हरलब्धवरास्तदा ॥

जघ्नुर्दैत्यानसंख्याताच्छितैः शस्त्रैरनेकधा

॥२५॥

हतशेषाश्च ये तेषां ते त्यक्त्वा त्रिदशालयम् ॥

पलायनकृतोत्साहाः प्रविष्टा मकरालयम्

॥२६॥

ततः शक्रः समापेदे स्वराज्यं दानवैर्हृतम् ॥

यदासीत्पूर्वकाले तत्समग्रं हतकण्टकम्

॥२७॥

ततस्ते दानवाः शेषा ज्ञात्वा तल्लिंगसंभवम् ॥

माहात्म्यं वृषनाथस्य क्षेत्रस्यास्योद्भवस्य च

॥२८॥

शुक्रेण कथितं सर्वं माघकृष्णे निशागमे ॥

चतुर्दश्यां शुचिर्भूत्वा यस्तल्लिंगं प्रपूजयेत् ॥

कालाघ्रातोऽपि न प्राणैः स पुमांस्त्यज्यते क्वचित्

॥२९॥

तस्माद्यूयं समासाद्य तल्लिंगं तद्दिने निशि ॥

पूजयध्वं महाभागा येन स्युर्मृत्युवर्जिताः

॥३०॥

यावत्संवत्सरस्यातं सत्यमेतन्मयोदितम् ॥

यथा ते देवसंघाश्च तत्प्रभावादसंशयम्

॥३१॥

अथ तं दानवेन्द्राणां मंत्रं ज्ञात्वा सुरेश्वरः ॥

नारदाद्ब्राह्मणः पुत्राद्भयत्रस्तमनास्ततः

॥३२॥

मंत्रं चक्रे समं देवैस्तत्र देवस्य रक्षणे ॥

यथा स्यादुद्यमः सम्यक्तस्मिन्नहनि सर्वदा

॥३३॥

कोटयस्तु त्रयस्त्रिंशद्देवानां सायुधास्ततः ॥

रक्षार्थं तस्य लिंगस्य तस्मिन्क्षेत्रे व्यवस्थिताः ॥

माघकृष्णचतुर्दश्यां सुसंनद्धाः प्रहारिणः

॥३४॥

अथ ते दानवा दृष्ट्वा तान्देवांस्तत्र संस्थितान् ॥

भयसंत्रस्तमनसो दुद्रुवुः सर्वतो दिशम्

॥३५॥

अथ प्रभाते विमले प्रोद्गते रविमण्डले ॥

भूय एव सुराः सर्वे मंत्रं चक्रुः परस्परम्

॥३६॥

यद्येतत्क्षेत्रमुत्सृज्य गमिष्यामः सुरालयम् ॥

लिंगमेतत्समभ्येत्य पूजयिष्यंति दानवाः

॥३७॥

ततोऽवध्या भविष्यंति तेऽपि सर्वे यथा वयम् ॥

तस्मादत्रैव तिष्ठामस्त्रयस्त्रिंशत्प्रनायकाः

॥३८॥

कोटीनामेव सर्वेषां शेषा गच्छन्तु तत्र च ॥

सहस्राक्षेण संयुक्ताः स्वर्गे स्वपररक्षकाः

॥३९॥

ततोऽष्टौ वसवस्तत्र द्वादशार्कास्तथैव च ॥

एकादशापरे रुद्रा नासत्यौ द्वौ च सुन्दरौ

॥४॥

एते तल्लिंगरक्षार्थं तस्मिन्क्षेत्रे व्यवस्थिताः ॥

शेषाः शक्रसमायुक्ताः प्रजग्मुस्त्रिदशालयम्

॥४१॥

सूत उवाच

एवं प्रभावं लिंगं तु देवदेवस्य शूलिनः ॥

भवद्भिः परिपृष्टं यददित्या स्थापितं पुरा

॥४२॥

यस्मान्न विद्यते मृत्युस्तेन दृष्टेन देहिनाम् ॥

अमराख्यं ततो लिंगं विख्यातं भुवनत्रये

॥४३॥

यस्मिन्देशेऽपि सा कन्या हता तेन द्विजन्मना ॥

जाबालिना सुक्रुद्धेन तस्य देवस्य मंदिरे

॥४४॥

आसीत्तत्र दिने कृष्णा माघमास चतुर्दशी ॥

तेन नो निधनं प्राप्ता सुहताऽपि तपस्विनी

॥४५॥

एतद्वः सर्वमाख्यातं तस्य लिंगस्य सम्भवम् ॥

माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम्

॥४६॥

यश्चैतत्पठते भक्त्या तस्य लिंगस्य संनिधौ ॥

अपमृत्युभयं तस्य कथंचिन्नैव जायते

॥४७॥

तस्याग्रेऽस्ति शुभं कुण्डं पूरितं स्वच्छवारिणा ।

अदित्या निर्मितं देव्या स्नानार्थं चात्मनः कृते

॥४८॥

स्नानं कृत्वा नरस्तस्मिन्यस्तल्लिंगं प्रपश्यति ॥

करोति जागरं रात्रौ तस्मिन्नेव दिनेदिने ॥

सोऽद्यापि वत्सरं यावन्नापमृत्युमवाप्नुयात्

॥४९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽमरकेश्वरक्षेत्रमाहात्म्यवर्णनंनाम पंचचत्वारिंशदधिकशततमो ऽध्यायः ॥ १४५ ॥