मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २५४

3
नागरखण्डः · 254

हरतांडवनर्त्तनवर्णनम्

शूद्र उवाच

इदमाश्चर्यरूपं मे प्रतिभाति वचस्तव ॥

यद्यपि स्यान्महाक्लेशो वदतस्तव सुव्रत

॥१॥

तथापि मम भाग्येन मत्पुण्यैर्मद्गृहं गतः ॥

न तृप्ये त्वन्मुखांभोजाच्च्युतं वाक्यामृतं पुनः

॥२॥

पिबन्गौरीकथाख्यानं विशेषगुणपूरितम् ॥

कथं महेश्वरो नृत्यं चकार सुरसंवृतः

॥३॥

चातुर्मास्ये कथं जातं कि ग्राह्यं व्रतमुच्यते ॥

अनुग्रहं कृतवती सा कथं को ह्यनुग्रहः

॥४॥

एतद्विस्तरतो ब्रूहि पृच्छतो मे द्विजोत्तम ॥

भगवान्पूज्यते लोके ममानुग्रहकारकः

॥५॥

प्रसन्नवदनो भूत्वा स्वस्थः कथय सुव्रत ॥

गालवश्चापि तच्छ्रुत्वा पुनराह प्रहृष्टवान्

॥६॥

गालव उवाच

इतिहासमिमं पुण्यं कथयामि तवानघ ॥

शृणुष्वावहितो भूत्वा यज्ञायुतफलप्रदम्

॥७॥

चातुर्मास्येऽथ संप्राप्ते हरो भक्तिसमन्वितः ॥

ब्रह्मचर्यव्रतपरः प्रहृष्टवदनोऽभवत्

॥८॥

देवतानां च संकल्पं महर्षीणां चकार ह ॥

समागत्य ततो देवा मन्दराचलमास्थिताः

॥९॥

प्रणम्य ते महेशानं तस्थुः प्रांजलयोऽग्रतः ॥

तानुवाच सुरान्सर्वान्हरो दृष्ट्वा समागतान्

॥१०॥

पार्वत्याभिहितं प्राह कस्मिन्कार्यांतरे सति ॥

मया नियुक्तेऽभिनये यत्र साहाय्यकारिणः

॥११॥

भवंत्विंद्रपुरोगाश्च चातुर्मास्ये समागते ॥

ते तथोचुश्च संहृष्टा नमस्कृत्य च शूलिनम्

॥१२॥

स्वंस्वं भवनमाजग्मुर्विमानैः सूर्यसन्निभैः ॥

तथाऽऽषाढे शुक्लपक्षे चतुर्दश्यां महेश्वरः

॥१३॥

प्रनर्त्तयितुमारेभे भवानीतोषणाय च ॥

मंदरे पर्वतश्रेष्ठे तत्र जग्मुर्महर्षयः

॥१४॥

नारदो देवलो व्यासः शुकद्वैपायनादयः ॥

अंगिराश्च मरीचिश्च कर्दमश्च प्रजापतिः

॥१५॥

कश्यपो गौतमश्चात्रिर्वसिष्ठो भृगुरेव च ॥

जमदग्निस्तथोत्तंको रामो भार्गव एव च

॥१६॥

अगस्त्यश्च पुलोमा च पुलस्त्यः पुलहस्तथा ॥

प्रचेताश्च क्रतुश्चैव तथैवान्ये महर्षयः

॥१७॥

सिद्धा यक्षाः पिशाचाश्च चारणाश्चारणैः सह ॥

आदित्या गुह्यकाश्चैव सा ध्याश्च वसवोऽश्विनौ

॥१८॥

एते सर्वे तथेन्द्राद्या ब्रह्मविष्णुपुरोगमाः ॥

समाजग्मुर्महेशस्य नृत्यदर्शनलालसाः

॥१९॥

ततो गणा नंदिमुखा रत्नानि प्रददुस्तथा ॥

भूषणानि च वासांसि मुन्यादिभ्यो यथाक्रमम्

॥२०॥

ततो वाद्यसहस्रेषु वादित्रेषु समंततः ॥

सर्वैर्जयेति चैवोक्ता भगवा न्व्रतमादिशत्

॥२१॥

भवानी हृष्टहृदया महादेवं व्यलोकयत् ॥

जया च विजया चैव जयन्ती मंगलारुणा

॥२२॥

चतुष्टयसखीमध्ये विर राज शुभानना ॥

तस्याः सान्निध्ययोगेन जगद्भाति गुणोत्तरम्

॥२३॥

यस्याः शरीरजा शोभा वर्णितुं नैव शक्यते ॥

ईशोऽपि गणकोटीभिर्ना नावक्त्त्राभिरीक्षितः

॥२४॥

पिशाचभूतसंघैश्च वृतः परमशोभनः ॥

स्वर्णवेत्रधरो नन्दी बभौ कपिमुखोऽग्रतः

॥२५॥

विद्याधराश्च गंधर्वाश्चि त्रसेनादयस्तथा ॥

चित्रन्यस्ता इव बभुस्तत्र नागा मुनीश्वराः

॥२६॥

श्रीरागप्रमुखा रागास्तस्य पुत्रा महौजसः ॥

अमूर्त्ताश्चैव ते पुत्रा हरदेव समुद्भवाः

॥२७॥

एकैकस्य च षड्भार्याः सर्वासां च पितामहः ॥

ताभिः सहैव ते रागा लीलावपुर्धरास्तथा

॥२८॥

प्रादुर्बभूवुः सहसा चिंतितास्तेन शंभुना ॥

तेषां नामानि ते वच्मि शृणुष्व त्वं महाधन

॥२९॥

श्रीरागः प्रथमः पुत्र ईश्वरस्य विमोहनः ॥

आसां चक्रे भ्रुवोर्मध्ये परब्रह्म प्रदायकः

॥३०॥

तन्मध्यश्चैव माहेशात्समुद्भूतो गणोत्तमः ॥

द्वितीयोऽथ वसन्तोऽभूत्कटिदेशान्महायशाः

॥३१॥

महदंकश्च भूतानां चक्राच्चैव विशुद्धितः ॥

पंचमस्तु तृतीयोऽभूत्सुतो विश्वविभूषणः

॥३२॥

महेश्वरहृदो जातं चक्रं चैवमनाहतम् ॥

नासादेशात्समुद्भूतो भैरवो भैरवः स्वयम्

॥३३॥

मणिपूरकनामेदं चक्रं तद्धि विमुक्तिदम् ॥

पंचाशच्च तथा वर्णा अंका नाम महेश्वरात्

॥३४॥

राशयो द्वादश तथा नक्षत्राणि तथैव च ॥

स्वाधिष्ठानसमुद्भूता जगद्बीजसमन्विताः

॥३५॥

क्षणेन वृद्धिमायांति ततो रेतः प्रवर्तते ॥

रेतसस्तु जगत्सृष्टं तदीशजननेंद्रियम्

॥३६॥

आधाराच्च महान्षष्ठो नटो नारायणोऽभवत् ॥

महेशवल्लभः पुत्रो नीलो विष्णुपराक्रमः

॥३७॥

एते मूर्तिधरा रागा जाता भार्यासहायिनः ॥

भार्यास्तेषां समुद्भूताः शिरोभागात्पिनाकिनः

॥३८॥

षट्त्रिंशत्परिमाणेन ततस्तास्त्वं निशामय ॥

गौरी कोलाहली धीरा द्राविडी माल कौशिकी

॥३९॥

षष्ठी स्याद्देवगांधारी श्रीरागत्य प्रिया इमाः ॥

आन्दोला कौशिकी चैव तथा चरममंजरी

॥४०॥

गंडगिरी देवशाखा राम गिरी वसन्तगा ॥

त्रिगुणा स्तम्भतीर्था च अहिरी कुंकुमा तथा

॥४१॥

वैराटी सामवेरी च षड्भार्याः पंचमे मताः ॥

भैरवी गुर्जरी चैव भाषा वेलागुली तथा

॥४२॥

कर्णाटकी रक्तहंसा षड्भार्या भैरवानुगाः ॥

बंगाली मधुरा चैव कामोदा चाक्षिनारिका

॥४३॥

देवगिरी च देवाली मेघ रागानुगा इमा ॥

त्रोटकी मीडकी चैव नरादुम्बी तथैव च

॥४४॥

मल्हारी सिन्धुमल्हारी नटनारायणानुगाः ॥

एता हि गिरिशं नत्वा महेशं च महेश्वरीम्

॥४५॥

स्वमूर्त्तिवाहनोपेताः स्वभर्तृसहिताः स्थिताः ॥

ब्रह्मा मृदंगवाद्येन तोषयामास शंकरम्

॥४६॥

चतुरक्षरवाद्येन सुवाद्यं चाकरोत्पुनः ॥

तालक्रियां महेशाय दर्शयामास केशवः

॥४७॥

वायवस्तत्र वाद्यं च चक्रुः सुस्वरमोजसा ॥

महेन्द्रो वंशवाद्यं च सुगिरं सुस्वरं बहुः

॥४८॥

वह्निः शूर्परवं चक्रे पणवं च तथाश्विनौ ॥

उपांगवादनं चक्रे सोमः सूर्यः समंततः

॥४९॥

घंटानां वादनं चक्रुर्गणाः शतसहस्रशः ॥

मुनीश्वरास्तथा देव्यः पार्वतीसहितास्तथा

॥५०॥

स्वर्णभद्रासनेष्वेते ह्युपविष्टा व्यलोकयन् ॥

शृंगाणां वादनं चक्रुर्वसवः समहोरगाः

॥५१॥

भेरीध्वनिं तथा साध्या वाद्यान्यन्ये सुरोत्तमाः ॥

झर्झरीगोमुखादीनि साध्याश्चक्रुर्महोत्सवे

॥५२॥

तन्त्रीलयसमायुक्ता गंधर्वा मधुर स्वराः ॥

सुवर्णशृंगनादं च चक्रुः सिद्धाः समंततः

॥५३॥

ततस्तु भगवानासीन्महानटवपुर्धरः ॥

मुकुटाः पंचशीर्षे तु पन्नगैरुपशोभिताः

॥५४॥

जटा विमुच्य सकला भस्मोद्धूलितविग्रहः ॥

बाहुभिर्दशभिर्युक्तो हारकेयूरसंयुतः

॥५५॥

त्रैलोक्यव्यापकं रूपं सूर्यकोटिसमप्रभम् ॥

कृत्वा ननर्त्त भगवान्भासुरं स महानगे

॥५६॥

ततं वीणादिकं वाद्यं कांस्यतालादिकं घनम् ॥

वंशादिकं तु वादित्रं तोमरादिकनामकम्

॥५७॥

चतुर्विधं ततो वाद्यं तुमुलं समजायत ॥

तालानां पटहादीनां हस्तकानां तथैव च

॥५८॥

मानानां चैव तानानां प्रत्यक्षं रूपमाबभौ ॥

सुकंठं सुस्वरं मुक्तं सुगम्भीरं महास्वनम्

॥५९॥

विश्वावसुर्नारदश्च तुंबुरुश्चैव गायकाः ॥

जगुर्गंधर्वपतयोऽप्सरसो मधुरस्वराः

॥६०॥

ग्रामत्रयसमोपेतं स्वरसप्तकसंयुतम् ॥

दिव्यं शुद्धं च सांकल्पं तत्र गेयमवर्त्तत

॥६१॥

पर्वतोऽपि महानादं हरपादतलाहतः ॥

भ्रमिभिर्भ्रमयंस्तत्र महीं सपुरकाननाम्

॥६२॥

हस्तकांश्चतुराशीतिं स ससर्ज सदाशिवः ॥

ललाटफलकस्वेदात्सूतमागधबंदिनः

॥६३॥

महेशहृदयाज्जाता गंधर्वा विश्वगायकाः ॥

ते मूर्त्ता देवदेवस्य सुरंगालयसंयुताः

॥६४॥

प्रेक्षकाणामृषीणां च चक्रुराश्चर्यमोजसा ॥

किन्नराः पुष्पवर्षाणि ससृजुः स्वैर्गुणैरिह

॥६५॥

एवं चतुर्षुमासेषु यदा नृत्यमजायत ॥

अतिक्रांता शरज्जाता निर्मलाकाशशोभिता

॥६६॥

पद्मखंडसमाच्छन्नसरोवरमुखांबुजा ॥

फलवृक्षौषधीभिश्च किंचित्पांडुमुखच्छविः

॥६७॥

ऊर्जशुक्लचतुर्दश्यां प्रसन्ना गिरिजा तदा ॥

समाप्तव्रतचर्यः स ईश्वरोऽपि तदा बभौ

॥६८॥

सा चोवाच तदा शंभुं विकचस्वरलोचना ॥

विप्रशापपातितं च यदा लिंगं भविष्यति

॥६९॥

नर्मदाजलसंभूतं विश्वपूज्यं भविष्यति ॥

एवमुक्त्वा ततस्तुष्टा हरस्तोत्रं चकार ह

॥७०॥

नमस्ते देवदेवाय महादेवाय मौलिने ॥

जगद्धात्रे सवित्रे च शंकराय शिवाय च

॥७१॥

कपर्दिनेऽजयादाय ब्रह्मगर्भाय ते नमः ॥

हिरण्यरेतसे तुभ्यं नीलग्रीवाय ते नमः

॥७१॥

नमो ब्रह्मण्य देवाय सितभूतिधराय च ॥

पंचवक्त्राय रूपाय नीरूपाय नमोनमः

॥७३॥

सहस्राक्षाय शुभ्राय नमस्ते कृत्तिवाससे ॥

अन्धकासुरमोक्षाय पशूनां पतये नमः

॥७४॥

विप्रवह्निमुखाग्राय हराय च भवाय च ॥

शंकराय महेशाय ईश्वराय नमो नमः

॥७६॥

अमूर्तब्रह्मरूपाय मूर्त्तानां भावनाय च ॥

नमः शिवाय चोग्राय हराय च भवाय च

॥७६॥

नमः कृष्णाय शर्वाय त्रिपुरांतक हारिणे ॥

अघोराय नमस्तेऽस्तु नमस्ते पुरुषाय ते

॥७७॥

सद्योजाताय तुभ्यं भो वामदेवाय ते नमः ॥

ईशानाय नमस्तुभ्यं पंचास्याय कपालिने

॥७८॥

विरूपाक्षाय भावाय भगनेत्रनिपातिने ॥

पूषदंतनिपाताय महायज्ञनिपातिने

॥७९॥

मृगव्याधाय धर्माय कालचक्राय चक्रिणे ॥

महापुरुषपूज्याय गणानां पतये नमः

॥८०॥

गंगाधराय मृडिने भवानीप्रियकारिणे ॥

जगदानंददात्रे च ब्रह्मरूपाय ते नमः

॥९१॥

गुणातीताय गुणिने सूक्ष्माय गुरवेऽपि च ॥

नमो महास्वरूपाय भस्मनो जन्मकारिणे

॥८२॥

वैराग्यरूपिणे नित्यं योगाचार्याय वै नमः ॥

मयोक्तमप्रियं देव स्मरसंहारकारक

॥८३॥

क्षंतुमर्हसि विश्वेश शिरसा त्वां प्रसादये ॥

शापानुग्रह एवैष कृतस्ते वै न संशयः

॥८४॥

ममापराधजो मन्युर्न कार्यो भवताऽनघ ॥

एवं प्रसादितः शंभुर्हृष्टात्मा त्रिदशैः सह

॥८५॥

तीर्णव्रतपरानंदनिर्भरः प्राह तामुमाम् ॥

य इमां मत्स्तुतिं भक्त्या पठिष्यति तवोद्गताम् ॥

तस्य चेष्टवियोगश्च न भविष्यति पार्वति

॥८६॥

जन्मत्रयधनैर्युक्तः सर्वव्याधिविवर्जितः ॥

भुक्त्वेह विविधान्भोगानंते यास्यति मत्पुरम्

॥८७॥

इत्युक्त्वा तां महेशोऽपि स्वमंगं प्रददौ ततः ॥

वैष्णवं वामभागं सा प्रतिजग्राह पार्वती

॥८८॥

शर्वं कपालहस्तं च ग्रीवार्द्धे गरलान्वितम् ॥

रुण्डमालार्द्धहारं च सितगौरं समंततः

॥८९॥

ब्रह्मांडकोटिजनकं जटाभिर्भूषितं शिरः ॥

सित द्युतिकलाखंडरत्नभासावभासितम्

॥९०॥

स्वर्णाभरणसंयुक्तमेकतो भुजगांगदम् ॥

एकतः कृत्तिवसनमन्यतः पट्टकूलवत् ९१ ॥

मत्स्य वाहनसंयुक्तमन्यतो वृषभांकितम् ॥

एकतः पार्षदैः सेव्यमन्यतः सखिसेवितम्

॥९२॥

रूपमेवंविधं दृष्ट्वा ब्रह्माद्या देवतागणाः ॥

तुष्टुवुः परया भक्त्या तेजोभूषितलोचनम्

॥९३॥

त्वमेको भगवान्सर्वव्यापकः सर्वदेहिनाम् ॥

पितृवद्रक्षकोऽसि त्वं माता त्वं जीवसंज्ञकः

॥९४॥

साक्षी विश्वस्य बीजं त्वं ब्रह्मांडवशकारकः ॥

उत्पद्यंते विलीयंते त्वयि ब्रह्मांडकोटयः

॥९५॥

ऊर्मयः सागरे नित्यं सलिले बुद्बुदा यथा ॥

अहं कदा चित्ते नेत्रात्कदाचित्तव भालतः

॥९६॥

क्वचित्संगे शिवादेव्या प्राहुर्भूत्वा सृजे जगत् ॥

तवाज्ञाकरिणः सर्वे वयं ब्रह्मादयः सुराः

॥९७॥

अनंतवैभवोऽनंतोऽनंतधामाऽस्यनंतकः ॥

अनंतः सर्वभंगाय कुरुषे रूपमद्भुतम्

॥९८॥

भवानि त्वं भयं नित्यमशिवानां पवित्रकृत् ॥

शिवा नामपि दात्री त्वं तपसामपि त्वं फलम् ९९ ॥

यः शिवः स स्वयं विष्णुर्यो विष्णुः स सदाशिवः ॥

इत्यभेदमतिर्जाता स्वल्पा नस्त्वत्प्रसादतः

॥१००॥

यत्किंचिच्च जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा ॥

मध्ये बहिश्च तत्सर्वं त्रयं व्याप्य स्थिता यदा

॥१॥

जगत्पूज्ये सुरेशानि जगद्वंद्ये तथांबिके ॥

प्रसादं कुरु देवेशि देवेश प्रणता वयम्

॥२॥

इत्युक्त्वा त्रिदशाः सर्वे हृष्टा जग्मुर्यथागतम्

॥३॥

गालव उवाच

तद्दिव्यरूपमतुलं भुवि ये मनुष्याः संसारसागरसमुत्तरणैकपोतम् ॥

संचिन्तयंति मनसा हृतकिल्बिषास्ते ब्रह्मस्वरूपमनुयांति विमुक्तसंगाः

॥१०४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्य माहात्म्ये हरतांडवनर्त्तनवर्णनंनाम चतुःपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५४ ॥