मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १५२

3
नागरखण्डः · 152

चक्रपाणिमाहात्म्यवर्णनम्

ऋषय ऊचुः

असंख्यातानि तीर्थानि त्वयोक्ता न्यत्र सूतज ॥

देवमानुषजातानि देवतायतनानि च ॥

तथा वानरजातानि राक्षसस्थापितानि च

॥१॥

सूतपुत्र वदास्माकं यैर्दृष्टैः स्पर्शितैरपि ॥

सर्वेषां लभ्यते पूर्णं फलं चेप्सितमत्र च

॥२॥

सूत उवाच

सत्यमेतन्महाभागास्तत्र संख्या न विद्यते ॥

तीर्थानां चैव लिंगानामाश्र माणां तथैव च

॥३॥

तत्र यः कुरुते स्नानं शंखतीर्थे समाहितः ॥

एकादश्यां विशेषेण सर्वेषां लभते फलम्

॥४॥

यः पश्यति नरो भक्त्या तत्रैकादशरुद्रकम् ॥

सिद्धेश्वरसमं तेन दृष्टाः सर्वे महेश्वराः

॥५॥

यः पश्यति वटादित्यं षष्ठ्यां चैत्रे विशेषतः ॥

भास्कराकृत्स्नशो दृष्टास्तेन तत्रहि संस्थिताः

॥६॥

माहित्थां पश्यति तथा ये देवीं श्रद्धयाविताः ॥

तेन दुर्गाः समस्तास्ता वीक्षिता नात्र संशयः

॥७॥

यः पश्यति गणेशं च स्वर्गद्वारप्रदं नृणाम् ॥

सर्वे विनायकास्तेन दृष्टाः स्युर्नात्र संशयः

॥८॥

शर्मिष्ठास्थापितां गौरीं यो ज्येष्ठां तत्र पश्यति ॥

तेन गौर्यः समस्तास्ता वीक्षिता द्विजसत्तमाः

॥९॥

चक्रपाणिं च यः पश्येत्प्रातरुत्थाय मानवः ॥

वासुदेवा समस्ताश्च तेन तत्र निरीक्षिताः

॥१०॥

ऋषय ऊचुः

त्वयासूत तथाऽस्माकं चक्रपाणिश्च यः स्थितः ॥

नाख्यातः स कथं तत्र विस्मृतः किं वदस्व नः ॥

कस्मिन्काले विशेषेण स द्रष्टव्यो मनीषिभिः

॥११॥

सूत उवाच

अर्जुनेनैष विप्रेन्द्राः क्षेत्रेऽत्रैव प्रतिष्ठितः ॥

शयने बोधने चैव प्रातरुत्थाय मानवः

॥१२॥

स्नानं कृत्वा सुभक्त्या च यः पश्येच्चक्रपाणिनम् ॥

ब्रह्महत्यादिपापानि तस्य नश्यंति तत्क्षणात्

॥१३॥

भूभारोत्तारणार्थाय धर्मसंस्थापनाय च ॥

ब्रह्मणावतारितौ विप्रा नरनारायणावुभौ

॥१४॥

कृष्णार्जुनौ तदा मर्त्ये द्वापरांते द्विजोत्तमाः ॥

अवतीर्णो धरापृष्ठे मिथः स्नेहानुगौ तदा ॥

नरनारायणावेतौ स्वयमेव व्यवस्थितौ

॥१५॥

यथा रक्षोविनाशाय रामो दशरथात्मजः ॥

अवतीर्णो धरापृष्ठे तद्वत्कृष्णोऽपि चापरः

॥१६॥

यदा पार्थः समायातस्तीर्थयात्रां प्रति द्विजाः ॥

युधिष्ठिरसमादेशाच्छक्रप्रस्थात्पुरोत्तमात् ॥

१७ द्रौपद्या सहितं दृष्ट्वा रहसि भ्रातरं द्विजम् ॥

प्रोवाच प्रणतो भूत्वा विनयावनतोऽर्जुनः

॥१९॥

अर्जुन उवाच

आयुधार्थमहं प्राप्तः सांप्रतं पार्थिवोत्तम ॥

द्विजधेनुविमोक्षाय ममाज्ञां देहि पार्थिव

॥१९॥

युधिष्ठिर उवाच

गच्छार्जुन द्रुतं तत्र नीयन्ते यत्र तस्करैः ॥

धेनवो द्विजवर्यस्य ता मोक्षय धनंजय

॥२०॥

तीर्थयात्रां ततो गच्छ यावद्द्वादशवत्सरान् ॥

ततः पापविनिर्मुक्तः समेष्यसि ममांतिकम्

॥२१॥

यः सदारं नरं पश्येदेकांतस्थं तु बुद्धिमान् ॥

अपि चात्यंतपापः स्यात्किं पुनर्निजबांधवम्

॥२२॥

तस्मान्न वीक्षयेत्कञ्चिदेकांतस्थं सभार्यकम् ॥

बांधवं च विशेषेण य इच्छेच्छुभमात्मनः

॥२३॥

स तथेति प्रतिज्ञाय रथमारुह्य सत्वरम् ॥

धनुरादाय बाणांश्च जगाम तदनन्तरम्

॥२४॥

येन मार्गेण ता गावो नीयन्ते तस्करैर्बलात् ॥

तिरस्कृत्य द्विजान्सर्वाञ्छितशस्त्रधरैर्द्विजाः

॥२५॥

अथ हत्वा क्षणाच्चौरान्गाः सर्वाः स्वयमाहृताः ॥

स्वाः स्वा निवेदयामास ब्राह्मणानां महात्मनाम्

॥२६॥

ततस्तीर्थान्यनेकानि स दृष्ट्वायतनानि च ॥

क्षेत्रेऽत्रैव समायातः स्नानार्थं पांडुनन्दनः

॥२७॥

तेन पूर्वमपि प्रायस्तत्क्षेत्रमवलोकितम् ॥

दुर्योधनसमायुक्तो यदा तत्र समागतः

॥२८॥

अथ संपूजयामास यल्लिंगं स्थापितं पुरा ॥

अर्जुनेश्वर संज्ञं तु पुष्पधूपानुलेपनैः

॥२९॥

अन्येषां कौरवेन्द्राणां पांडवानां विशेषतः

॥३०॥

अथ संचिंतयामास मनसा पांडुनंदनः ॥

अहं नरः स्वयं साक्षात्कृष्णो नारायणः स्वयम्

॥३१॥

तस्मादत्र करिष्यामि चक्रपाणिं सुरेश्वरम् ॥

प्रासादो मानवश्चैव यादृङ्नास्ति धरातले

॥३२॥

कल्पांतेऽपि न नाशः स्यादस्य क्षेत्रस्य कर्हिचित् ॥

प्रासादोऽपि तथाप्येवमत्र क्षेत्रे भविष्यति ३३ ॥

एवं स निश्चयं कृत्वा स्वचित्ते पांडवानुजः ॥

प्रासादं निर्ममे पश्चाद्वैष्णवं द्विजसत्तमाः

॥३४॥

ततो विप्रान्समाहूय चमत्कारपुरोद्भवान् ॥

प्रतिष्ठां कारयामास मतं तेषां समाश्रितः

॥३५॥

दत्त्वा दानान्यनेकानि शासनानि बहूनि च ॥

अन्यच्च प्रददौ पश्चात्स तेषां तुष्टिदायकम्

॥३६॥

ततः प्रोवाच तान्सर्वान्कृतांजलिपुटः स्थितः ॥

नरोऽहं ब्राह्मणाज्जातः पाण्डोर्भूमिं प्रपेदिवान्

॥३७॥

मानुषेणैव रूपेण त्यक्त्वा तां बदरीं शुभाम् ॥

प्रसिद्ध्यर्थं मया चात्र प्रासादोऽयं विनि र्मितः ॥

मन्नाम्ना नरसंज्ञश्च श्रद्धापूतेन चेतसा

॥३८॥

तस्मादेष भवद्भिश्च चक्रपाणिरिति द्विजाः ॥

कीर्तनीयः सदा येन मम नाम प्रकाश्य ताम्

॥३९॥

विष्णुलोके ध्वनिर्याति यावच्चंद्रदिवाकरौ

॥४०॥

तथा महोत्सवः कार्यः शयने बोधने हरेः ॥

चैत्रमासे विशेषेण संप्राप्ते विष्णुवासरे

॥४१॥

एतेषु त्रिषु लोकेषु त्यक्त्वेमां बदरीमहम् ॥

पूजामस्य करिष्यामि स्वयं विष्णोर्द्विजोत्तमाः

॥४२॥

यस्तत्र दिवसे मर्त्यः पूजामस्य विधा स्यति ॥

सर्वपापविनिर्मुक्तो विष्णुलोकं स यास्यति

॥४३॥

तथा ये वासुदेवस्य क्षेत्रे केचिद्व्यवस्थिताः ॥

तेषां प्रदर्शनं श्रेयो नित्यं दृष्ट्वा च लप्स्यते

॥४४॥

सूत उवाच

बाढमित्येव तैरुक्तो दाशार्हः पांडुनंदनः ॥

तेषां तद्भारमावेश्य प्रशांतेनांतरात्मना ॥

ययौ तीर्थानि चान्यानि कृतकृत्यस्ततः परम्

॥४५॥

एवं तत्र स्थितो देवश्चक्रपाणिवपुर्द्धरः ॥

स्वयमेव हृषीकेशो जंतूनां पापनाशनः

॥४६॥

अद्याऽपि च कला विष्णोः प्राप्ते चैकादशीत्रये ॥

पूर्वोक्तेन विधानेन तस्माच्छ्रद्धासमन्वितैः ॥

सदैव पूजनीयश्च वन्दनीयो विशेषतः

॥४७॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चक्रपाणिमाहात्म्यवर्णनंनाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५२ ॥