मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २६९

3
नागरखण्डः · 269

कपालेशस्य माहात्म्यं श्रूयतामधुना द्विजाः

सूत उवाच

कपालेशस्य माहात्म्यं श्रूयतामधुना द्विजाः ॥

चतुर्थस्य महाभागास्तत्र क्षेत्रे स्थितस्य च ॥

. श्रुतमात्रेण येनात्र नरः पापात्प्रमुच्यते

॥२॥

ऋषय ऊचुः

त्रयाणां चैव लिंगानां पूर्वोक्तानां महामते ॥

श्रुतास्माभिः समुत्पत्तिःकपालेश्वरवर्जिता ॥

केनायं स्थापितो देवः कपालेश्वरसंज्ञितः

॥३॥

तस्मिन्दृष्टे फलं किं स्यात्पूजिते च वदस्व नः

॥४॥

सूत उवाच

इंद्रेण स्थापितः पूर्वमेष देवो द्विजोत्तमाः ॥

कपालेश्वसंज्ञस्तु ब्रह्महत्या विमुक्तये

॥५॥

तत्प्रभावत्सुरश्रेष्ठ स्तया मुक्ते द्विजोत्तमाः ॥

पापं पूरुषदानेन इत्येषा वैदिकी श्रुतिः ॥

अन्योऽपि यो नरस्तं च पूजयित्वा प्रभक्तितः ॥

प्रयच्छेद्ब्राह्मणेन्द्राय शुद्धये पापपूरुषम् ॥

स मुच्येत्पातकाद्घोराद्ब्रह्महत्यासमुद्भवात्

॥७॥

दक्षिणामूर्तिमासाद्य प्रोवाचेदं बृहस्पतिः ॥

हाटकेश्वरजे क्षेत्रे गत्वा तं वीक्ष्य शंकरम्

॥८॥

यो ददाति शरीरं च कृत्वा हेममयं ततः ॥

मुच्यते नात्र संदेहः पातकैः पूर्वसंयुतैः

॥९॥

ऋषय ऊचुः

ब्रह्महत्या कथं जाता सुरेन्द्रस्य हि सूतज ॥

एतन्नः सर्वमाचक्ष्व परं कौतूहलं हि नः

॥१०॥

कपालेश्वरसंज्ञस्तु कथं देवोऽत्र संस्थितः ॥

ब्रह्महत्या कथं नष्टा तत्प्रभावाद्दिवस्पतेः

॥११॥

स पापपूरुषो देयो विधिना केन सूतज ॥

कैर्मंत्रैः स हि देयः कैश्चैव ह्युपस्करैः

॥१२॥

दर्शनात्पूजनाच्चापि किं फलं जायते नृणाम् ॥

अदत्त्वा स्वशरीरं वा पूजया केवलं वद

॥१३॥

सूत उवाच

अहं वः कीर्तयिष्यामि कथामेतां पुरातनीम् ॥

यां श्रुत्वापि महाभागा नरः पापात्प्रमुच्यते

॥१४॥

अज्ञानाज्ज्ञानतो वापि विहितैरन्यजन्मजैः ॥

दृष्टमात्रेण येनात्र पातकात्तद्दिनोद्भवात् ॥

मुच्यते नात्र संदेहः सत्यमेतन्मयोदितम्

॥१५॥

पुरा त्वष्टुः सुतो जज्ञे वृत्रो हि द्विजसत्तमाः ॥

पुलोमदुहितुः पार्श्वाद्विभावर्याः सुवीर्यवान्

॥१६॥

स बाल एव धर्मात्मा आसीत्सर्वजनप्रियः ॥

दानवं भावमुत्सृज्य द्विजभक्तिपरायणः

॥१७॥

स गत्वा पुष्करारण्यं परमेण समाधिना ॥

तोषयामास देवेशं पद्मजं तपसि स्थितः

॥१८॥

तस्य तुष्टः स्वयं ब्रह्मा दृष्टिगोचरमागतः ॥

प्रोवाच वरदोऽस्मीति किं ते कृत्यं करोम्यहम्

॥१९॥

वृत्र उवाच

यदि तुष्टोसि मे देव ब्राह्मणत्वं प्रयच्छ मे।

ब्राह्मणत्वं समासाद्य साधयामि परं पदम्

॥२०॥

तेन किंचिदसाध्यं न ब्राह्मण्येन भवेन्मम ॥

ब्राह्मणेन समं चान्यन्न किंचित्प्रतिभाति मे

॥२१॥

परमं दैवतं किंचिन्न विप्राद्विद्यते परम् ॥

तस्मान्मे हृत्स्थितं नान्यदपि राज्यं त्रिविष्टपे

॥२२॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा तुष्टस्तस्य पितामहः ॥

ब्राह्मणत्वं स्वयं दत्त्वा ततः प्रोवाच सादरम्

॥२३॥

मया त्वं विहितो विप्र पुत्र प्रकुरु वांछितम् ॥

प्रसादयस्व सततं ब्राह्मणान्ब्रह्मवित्तमान्

॥२४॥

ब्राह्मणैः सुप्रसन्नैश्च प्रीयंते सर्वदेवताः ॥

तस्मात्सर्वप्रयत्नेन पूजनीया द्विजोत्तमाः

॥२५॥

सूत उवाच

एवमुक्तस्तदा तेन वृत्रोऽभूद्ब्राह्मणस्ततः ॥

ब्राह्म्या लक्ष्म्या समोपेतो ब्रह्मचर्यपरायणः

॥२६॥

तस्मिंस्तपसि संस्थे तु हता इंद्रेण दानवाः ॥

वंशोच्छेदे समापन्ने दानवानां महात्मनाम्

॥२७॥

ततस्ते दानवाः सर्वे पराभूताः सुरैस्ततः ॥

स्वं स्थानं संपरित्यज्य दुःखशोकसमन्विताः

॥२८॥

तन्मातरं पुरस्कृत्वा तत्सकाशमुपागताः ॥

स च तां मातरं दृष्ट्वा वृतां तैश्च समन्वितः

॥२९॥

दानवैश्च पराभूतैस्तथाभूतां च मातरम् ॥

किमागमनकृत्यं च दुःखितानां ममांतिके

॥३०॥

दानवा ऊचुः

वयं देवैः पराभूता भवंतं शरणागताः ॥

क्व यामोऽन्यत्र चाऽस्माकं त्वां विना नास्ति संश्रयः

॥३१॥

तेषां तद्वचनं श्रुत्वा वृत्रः प्रोवाच सादरम् ॥

देवानहं हनिष्यामि गम्यतां तत्र मा चिरम्

॥३२॥

तवागमनकृत्यं च मातः कथय सांप्रतम्

॥३३॥

मातोवाच

तथा कुरु महाभाग शीघ्रं दारपरिग्रहम् ॥

वंशवृद्धौ प्रमाणं चेद्वाक्यं तव ममोद्भवम्

॥३४॥

एष एव परो धर्म एष एव परो नयः ॥

पुत्रस्य जननीवाक्यं यत्करोति समाहितः

॥३५॥

तथा स्त्रीणां पतिं मुक्त्वा नान्यास्ति भुवि देवता ॥

जनन्यां जीवमानायां तथैव च सुतस्य च

॥३६॥

अतिक्रम्य च या नारी पतिं धर्मपरा भवेत् ॥

तत्सर्वं विफलं तस्या जायते नात्र संशयः

॥३७॥

पुत्रः स्वजननीवाक्यं योऽतिक्रम्य यथारुचि ॥

करोति धर्मकृत्यानि तानि सर्वाणि तस्य च

॥३८॥

भवंति च तथा नूनं वृथा भस्महुतं यथा ॥

अरण्ये रुदितानीव ऊषरे वापितानि च

॥३९॥

यथैव बधिरस्याग्रे गीतं नृत्यमचक्षुषः ॥

तद्वन्मातृमतादन्यकृतं पुत्रस्य धर्मजम्

॥४०॥

सर्वं कर्म न संदेहस्तेनाहं त्वामुपागता ॥

बंधूनां वचनात्पुत्र दुःखार्ता च विशेषतः

॥४१॥

किं वा ते बहुनोक्तेन भूयो भूयश्च पुत्रक ॥

आनृण्यं जायते यद्वत्पितॄणां तत्तथा शृणु

॥४२॥

तव वत्स प्रमाणं चेत्कुरुष्व च वचो मम ॥

तस्यास्तद्वचनं श्रुत्वा वृत्रः संचिंत्य चेतसि

॥४३॥

श्रुतिस्मृत्युक्तमार्गेण न मातुर्विद्यते परम् ॥

स तथेति प्रतिज्ञाय आनिनाय परिग्रहम्

॥४४॥

त्वष्टा तस्मै ददौ प्रीतस्ततो रत्नान्यनेकशः ॥

संख्याहीनानि तस्यैव कुप्याकुप्यमनंतकम्

॥४५॥

हस्त्यश्वयानकोशाढ्यं सोऽभिषिक्तः पदे निजे ॥

दानवानां महावीर्यो ब्राह्मण्येन समन्वितः

॥४६॥

अभिषिक्तं तदा वृत्रं स्वराज्ये तेऽसुरादयः ॥

श्रुत्वाभिषेकं संहृष्टास्तस्य वृत्रस्य बांधवाः

॥४७॥

दानवाश्च समाजग्मुर्ये तत्रासन्पुरोगताः ॥

पातालाद्गिरिदुर्गाच्च स्थलदुर्गेभ्य एव च ॥

कृतवैराः समं देवैः कोपेन महता वृताः

॥४८॥

ततः प्रोत्साहितः सर्वैर्दानवैः स महाबलः ॥

प्रस्थितः शत्रुनाशाय महेन्द्रभवनं प्रति

॥४९॥

शक्रोऽपि वृत्रमाकर्ण्य समायांतं युयुत्सया ॥

सन्मुखः प्रययौ हृष्टः सर्वदेवसमन्वितः

॥५०॥

ततः समभवद्युद्धं देवानां दानवैः सह ॥

मेरुपृष्ठे सुविस्तीर्णे नित्यमेव दिवानिशम्

॥५१॥

नित्यं पराजयो जज्ञे देवानां दानवैः सह ॥

तत्रोवाच गुरुः शक्र मा युद्धं कुरु देवप

॥५२॥

वृत्रोऽयं दारुणो युद्धे बलद्वयसमन्वितः ॥

चत्वारश्चाग्रतो वेदाः पृष्ठतः सशरं धनुः

॥५३॥

तेन जेयतमो दैत्यस्तवैव च महाहवे ॥

तस्मात्संधानमेतेन त्वं कुरुष्व शचीपते

॥५४॥

ततो विश्वासमाया तं जहि वज्रेण दानवम् ॥

षडुपायै रिपुर्वध्य इति शास्त्रनिदर्शनम्

॥५५॥

भुंजानश्च शयानश्च दत्त्वा कन्यामपि स्वकाम् ॥

विप्रदानेन संयोज्य कृत्वापि शपथं गुरुम् ॥

मायाप्रपंचमासाद्य तस्मादेवं समाचर

॥५६॥

इन्द्र उवाच

यद्येवं च स्वयं गत्वा त्वं विश्वासे नियोजय ॥

तव वाक्येन विश्वासं नूनं यास्यति दानवः

॥५७॥

सूत उवाच

शक्रस्य मतमाज्ञाय प्रतस्थे च बृहस्पतिः ॥

यत्र वृत्रः स्थितो दैत्यो युद्धार्थं कृतनिश्चयः

॥५८॥

वृत्रोऽपि तं समालोक्य स्वयं प्राप्तं बृहस्पतिम् ॥

सदैव द्विजभक्तः स हृष्टात्मा समपद्यत ॥

विशेषात्प्रणिपत्योच्चैर्वाक्यमेतदभाषत

॥५९॥

वृत्र उवाच

स्वागतं ते द्विजश्रेष्ठ किं करोमि प्रशाधि माम् ॥

प्रिया मे ब्राह्मणा यस्मात्तस्मात्कीर्तय सांप्रतम्

॥६०॥

बृहस्पतिरुवाच

संदिग्धो विजयो युद्धे यस्माद्दैवेन सत्तम ॥

तस्मात्कुरु महेंद्रेण व्यवस्थां वचनान्मम

॥६१॥

त्वं भुंक्ष्व भूतलं कृत्स्नं शक्रश्चापि त्रिविष्टपम् ॥

व्यवस्थयाऽनया नित्यं वर्तितव्यं परस्परम्

॥६२॥

वृत्र उवाच

अहं तव वचो ब्रह्मन्करिष्यामि सदैव हि।

संगमं कुरु शक्रेण सांप्रतं मम सद्द्विज

॥६३॥

सूत उवाच

अथ शक्रं समानीय बृहस्पतिरुदारधीः ॥

वृत्रेण सह संधानं चक्रे चैव परस्परम्

॥६४॥

एकारिमित्रतां गत्वा तावुभौ दैत्यदेवपौ ॥

प्रहृष्टौ गतवन्तौ तौ ततश्चैव निजं गृहम्

॥६५॥

अथ शक्रच्छलान्वेषी सदा वृत्रस्य वर्तते ॥

न च्छिद्रं लभते क्वापि वीक्षमाणोपि यत्नतः

॥६६॥

कथंचिदपि सोऽभ्येति तत्सकाशं पुरंदरः ॥

किंचिच्छिद्रं समासाद्य तत्प्रतापेन दह्यते

॥६७॥

इंद्र उवाच

न शक्नोमि च तं दैत्यं वीक्षितुं च कथंचन ॥

तेजसा सर्वतो व्याप्तं तत्कथं सूदयाम्यहम्

॥६८॥

तस्मात्कंचिदुपायं मे तद्वधार्थं प्रकीर्तय ॥

यथा शक्नोमि तत्सोढुं तेजस्तस्य दुरात्मनः

॥६९॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा बृहस्पतिः ॥

ततः प्रोवाच तं शक्रं विनयावनतं स्थितम्

॥७०॥

बृहस्पतिरुवाच

तस्य ब्राह्म्यं स्थितं तेजः सम्यग्गात्रे पुरंदर ॥

वीक्षितुं नैव शक्नोषि तेन त्वं त्रिदशाधिप

॥७१॥

तथा ते कीर्तयिष्यामि तस्योपायं वधोद्भवम् ॥

वधयिष्यसि येनात्र तं त्वं दानवसत्तमम्

॥७२॥

प्राचीसरस्वतीतीरे पुष्करारण्यमाश्रितः ॥

दधीचिर्नाम विप्रर्षिः शतयोजनमुच्छ्रितः ॥

. तत्र नित्यं तपः कुर्वन्स्तौति नित्यं पितामहम्।

स निर्विण्णो मुनिश्रेष्ठः प्राणानां धारणे हरे

॥७४॥

चिरंतनो मुनिः स स्याज्जरयातिसमावृतः ॥

तं प्रार्थय द्रुतं गत्वा तस्यास्थीनि गुरूणि च

॥७५॥

स ते दास्यस्त्यसंदिग्धं त्यक्त्वा प्राणानतिप्रियान् ॥

तस्यास्थिभिः प्रहरणं वज्राख्यं ते भविष्यति

॥७६॥

अमोघं ते ततो नूनं त्वं वृत्रं सूदयिष्यसि ॥

तस्य वज्रस्य तत्तेजो ब्रह्मतेजोऽभिबृंहितम् ॥

तेन वृत्रोद्भवं तेजः प्रशमं संप्रयास्यति

॥७७॥

सूत उवाच

तच्छ्रुत्वा सत्वरं शक्रः सर्वैर्दैवगणैः सह ॥

जगाम पुष्करारण्ये यत्र प्राची सरस्वती

॥७८॥

त्रयस्त्रिंशत्समोपेता तीर्थानां कोटिभिर्युता ॥

दधीचेराश्रमं तत्र सोऽविशच्चित्रसंयुतम्

॥७९॥

क्रीडंते नकुलैः सर्पा यत्र तुष्टिं गता मिथः ॥

मृगाः पंचाननैः सार्धं वृषदंशास्तथाऽऽखुभिः

॥८०॥

उलूक सहिताः काका मिथो द्वेषविवर्जिताः ॥

प्रभावात्तस्य तपसो दधीचेः सुमहात्मनः

॥८१॥

दधीचिरपि चालोक्य देवाञ्छक्रपुरोगमान् ॥

समायातान्प्रहृष्टात्मा सत्वरं संमुखोभ्यगात्

॥८२॥

ततश्चार्घ्यं समादाय प्रणिपत्य मुहुर्मुहुः ॥

शक्रमभ्यागतं प्राह किं ते कृत्यं करोम्यहम्

॥८३॥

गृहायातस्य देवेश तच्छीघ्रं मे निवेदय ॥

. इंद्र उवाच ॥

आतिथ्यं कुरु विप्रेंद्र गृहायातस्य सन्मुने ॥

त्वदस्थीनि निजान्याशु मम देह्यविकल्पितम्

॥८५॥

अतदर्थमहं प्राप्तस्त्वत्सकाशं मुनीश्वर ॥

अस्थिभिस्ते परं कार्यं देवानां सिद्धिमेष्यति

॥८६॥

सूत उवाच

इंद्रस्य तद्वचः श्रुत्वा दधीचिस्तोषसंयुतः ॥

ततः प्राह सहस्राक्षं सर्वैर्देवैः समन्वितम्

॥८७॥

अहो नास्ति मया तुल्यः सांप्रतं भुवि कश्चन ॥

पुण्यवान्यस्य देवेशः स्वयमर्थी गृहागतः

॥८८॥

धन्यानि च ममास्थीनि यानि देवेश ते हितम् ॥

करिष्यंति सदा कार्यं रक्षार्थं त्रिदिवौकसाम्

॥८९॥

एषोऽहं संप्रदास्यामि प्रियान्प्राणान्कृते तव ॥

गृहाण स्वेच्छयाऽस्थीनि स्वकार्यार्थं पुरंदर

॥९०॥

एवमुक्त्वा महर्षिः स ध्यानमाश्रित्य सत्वरम् ॥

ब्रह्मरंध्रेण निःसार्य प्राणमात्मानमत्यजत्

॥९१॥

तदात्मना परित्यक्तं तस्य गात्रं च तत्क्षणात् ॥

पतितं मेदनीपृष्ठे व्यसु तद्द्विजसत्तमाः

॥९१॥

तस्मिन्नेव काले तु तस्यास्थीनि शतक्रतुः ॥

प्रगृह्य विश्वकर्माणं ततः प्रोवाच सादरम्

॥९३॥

एतैरस्थिभिः शीघ्रं मे कुरु त्वं वज्रमायुधम् ॥

येन व्यापादयाम्याशु वृत्रं दानवसत्तमम्

॥९४॥

तस्य तद्वचनं श्रुत्वा विश्वकर्मा त्वरान्वितः ॥

यथायुधं तथा चक्रे वज्राख्यं दारुणाकृति

॥९५॥

षडस्रि शतपर्वाख्यं मध्ये क्षामं विभीषणम् ॥

प्रददौ च ततस्तस्मै सहस्राक्षाय धीमते

॥९६॥

अथ तं स समादाय द्वादशार्कसमप्रभम् ॥

समाधिस्थं चरैर्ज्ञात्वा वृत्रं संध्यार्चने रतम्

॥९७॥

ततश्च पृष्ठभागं स समाश्रित्य त्रिलोकराट् ॥

चिक्षेप वज्रमुद्दिश्य तद्वधार्थं समुत्सुकः

॥९८॥

स हतस्तेन वज्रेण दानवो भस्मसाद्गतः ॥

शक्रोपि हतमज्ञात्वा भयात्तस्याथ दुद्रुवे

॥९९॥

मनुष्यरहिते देशे विषमे गुल्मसंवृते ॥

लिल्ये शक्रस्तदा सर्वं मेने वृत्रमयं जगत्

॥१००॥

एतस्मिन्नंतरे देवाः पश्यंतः सर्वतो दिशम् ॥

सिद्धचारणगन्धर्वा आजग्मुश्च शतक्रतुम्

॥१०१॥

ततः कृच्छ्राच्च तैर्दृष्टः शक्रोऽसौ गहने वने।

निलीनो भयसंत्रस्तो गुल्ममध्ये व्यवस्थितः

॥१०२॥

देवा ऊचुः

किं त्वं भीतः सहस्राक्ष वृत्रोऽयं घातितस्त्वया ॥

परिवारेण सर्वेण वीक्षितोऽस्माभिरेव च

॥१०३॥

अस्मादागच्छ गच्छामो गृहं प्रति पुरंदर ॥

कुरु त्रैलोक्यराज्यं त्वं सांप्रतं हतकण्टकम्

॥१०४॥

तच्छ्रुत्वाऽथ विनिष्क्रांतो गुल्ममध्याच्छतक्रतुः ॥

हृष्टरोमा हतं श्रुत्वा वृत्रं दानवसत्तमम्

॥१०५॥

अथ पश्यंति यावत्तं देवाः सर्वे शतक्रतुम् ॥

तावत्तेजोविहीनं तद्गात्रं दुर्गंधितायुतम्

॥१०६॥

दृष्ट्वा लोकगुरुर्ब्रह्मा देवान्सर्वानुवाच ह ॥

शक्रोऽयं सांप्रतं व्याप्तः पापया ब्रह्महत्यया

॥१०७॥

यदनेन हतो वृत्रो ब्रह्मभूतश्छलेन सः ॥

तस्मात्त्याज्यः सुदूरेण नो चेत्पापमवाप्स्यथ

॥१०८॥

ब्रह्मघ्नेन समं स्पर्शः संभाषोऽथ विनिर्मितः ॥

पापाय जायते पुंसां तस्मात्तं दूरतस्त्यजेत्

॥१०९॥

आस्तां संस्पर्शनं तस्य संभाषो वा विशेषतः ॥

दर्शनं वापि तस्याहुः सर्वपापप्रदं नृणाम्

॥११०॥

सूत उवाच

. तच्छ्रुत्वा ब्रह्मणो वाक्यं शक्रो दृष्ट्वाऽऽत्मनस्तनुम् ॥

तेजसा संपरित्यक्तां दुर्गन्धेन समावृताम्

॥१११॥

ततः प्रोवाच लोकेशं दीनः प्रणतकन्धरः ॥

तवाहं किंकरो देव त्वयेंद्रत्वे नियोजितः

॥११२॥

तस्मात्कुरु प्रसादं मे ब्रह्महत्याविनाशनम् ॥

प्रायश्चित्तं विभो ब्रूहि येन शुद्धिः प्रजायते ॥

ब्रह्मोवाच ॥

अष्टषष्टिषु तीर्थेषु त्वं स्नात्वा बलसूदन ॥

आत्मानं हेमजं देहि पापपूरुषसंज्ञितम्

॥११४॥

मंत्रवत्तं यथोक्तं च ब्राह्मणाय महात्मने ॥

स्नात्वा पुण्यजले तीर्थे ब्रह्मघ्नोऽहमिति ब्रुवन्

॥११५॥

स्नातमात्रस्य ते हस्ताद्यत्र तत्पतति क्षितौ ॥

तेजः संजायतेगात्रे दुर्गंधश्च प्रणश्यति

॥११६॥

तस्मिंस्तीर्थे त्वया तच्च स्थाप्यं शक्र कपालकम् ॥

महेश्वरस्य नाम्ना च पूजनीयं ततः परम्

॥११७॥

पंचभिर्वक्त्रमंत्रैश्च ततो देयाऽऽत्मतस्तनूः ॥

हेमोद्भवा द्विजेन्द्राय ततः शुद्धिमवाप्स्यसि

॥११८॥

शक्रस्तु तद्वचः श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः ॥

कपालं वृत्रजं गृह्य तीर्थयात्रां ततो गतः

॥११९॥

अष्टषष्टिषु तीर्थेषु गच्छन्स च सुरेश्वरः ॥

हाटकेश्वरजे क्षेत्रे समायातः क्रमेण च

॥१२०॥

विश्वामित्रह्रदे स्नात्वा यावत्तस्माद्विनिर्गतः ॥

कपालं पतितं तस्मात्स्वयमेव हतात्मनः

॥१२१॥

ततस्तं पूजयामास मन्त्रैर्वक्त्रसमुद्भवैः ॥

सर्वपापहरैः पुण्यैर्यथोक्तैर्ब्रह्मणा पुरा

॥१२२॥

एतस्मिन्नेव काले तु दुर्गन्धो नाशमाप्तवान् ॥

तच्छरीराद्द्विजश्रेष्ठा महत्तेजो व्यजायत

॥१२३॥

एतस्मिन्नन्तरे ब्रह्मा सह देवैः समागतः ॥

ब्रह्महत्याविमुक्तं तं ज्ञात्वा सर्वसुराधिपम्

॥१२४॥

श्रीब्रह्मोवाच

ब्रह्महत्याकृतो दोषो गतस्ते सुरसत्तम ॥

शेषपापविशुद्ध्यर्थं स्वर्णदानं प्रयच्छ भोः

॥१२५॥

कपालमेतद्देशेऽत्र यत्त्वया परिपूजितम् ॥

वृत्रस्य पंचभिर्मंत्रैर्हरवक्त्रसमुद्भवैः

॥१२६॥

प्रदास्यसि ततो भक्त्या हेमजामात्मनस्तनुम् ॥

विधिना मंत्रयुक्तेन तव पापं प्रयास्यति ॥

यद्यत्पूर्वकृतं कृत्स्नं प्रदाय ब्राह्मणाय भोः

॥१२७॥

एवमुक्तस्ततः शक्रो ब्रह्मणा सुरसंनिधौ ॥

तथेत्युक्त्वा तु तत्कालं पापपिंडं निजं ददौ

॥१२८॥

कृत्वा हेममयं विप्रा ब्राह्मणाय महात्मने ॥

गर्तातीर्थसमुत्थाय वाताख्यायाहिताग्नये

॥१२९॥

एतस्मिन्नंतरे विप्रो गर्हितः सोऽथ नागरैः।

. धिग्धिक्पाप वृथा वेदा ये त्वया पारिताः पुरा

॥१३०॥

नास्माभिः सह संपर्कं कदाचित्त्वं करिष्यसि ॥

गृहीतं यत्त्वया दानं पापपिंडसमुद्भवम्

॥१३१॥

ततः प्रोवाच विप्रः स उपमन्युकुलोद्भवः ॥

विवर्णवदनो भूत्वा नाम्ना ख्यातः स वातकः

॥१३२॥

त्वया शक्र प्रदत्तो मे पापपिंडः स्वको यतः ॥

मया प्रतिग्रहस्तेन दाक्षिण्येन कृतस्तव

॥१३३॥

न लोभेन सुरश्रेष्ठ पश्यतस्ते विगर्हितः ॥

अहं च ब्राह्मणैः सर्वैरेतैर्नगरवासिभिः

॥१३४॥

तस्मान्नाहं ग्रहीष्यामि एतं तव प्रतिग्रहम्

॥१३५॥

भूयोऽपि तव दास्यामि न त्वं गृह्णासि चेत्पुनः ॥

ब्र ह्मशापं प्रदास्यामि दारुणं च क्षयात्मकम्

॥१३६॥

इंद्र उवाच

वेदागंपारगो विप्रो यदि कुर्यात्प्रतिग्रहम् ॥

न स पापेन लिप्येत पद्मपत्रमिवांभसा

॥१३७॥

तस्मात्ते पातकं नास्ति शृणुष्वात्र वचो मम ॥

एतैस्त्वं गर्हिते यस्माद्ब्राह्मणैर्नगरोद्भवैः

॥१३८॥

एतेषां सर्वकृत्येषु प्रधानस्त्वं भविष्यसि ॥

एतेषां पुत्रपौत्रा ये भविष्यंति तथा तव

॥१३९॥

ते सर्वे चाज्ञया तेषां वर्तयिष्यंत्यसंशयम् ॥

युष्मद्वाक्यविहीनं यत्कृत्यं स्वल्पमपि द्विज

॥१४०॥

तेषां संपत्स्यते वन्ध्यं यथा भस्महुतं तथा ॥

कपालमोचनं नाम ख्यातमेतद्भविष्यति

॥१४१॥

ये तु संस्मृत्य मनुजाः कपालं मम सद्द्विज ॥

तत्र श्राद्धं करिष्यंति ते नरा मुक्तिसंयुताः ॥

श्राद्धपक्षे विशेषेण प्रयास्यंति परांगतिम्

॥१४२॥

स्थानबाह्यद्विजातीनां कुले दारपरिग्रहम् ॥

कृत्वा त्वद्गोत्रसंभूता ब्राह्मणा मत्प्रसादतः

॥१४३॥

व्यवहार्या भविष्यंति नगरे सर्वकर्मसु ॥

एवमुक्त्वा सहस्राक्षस्ततश्चादर्शनं गतः

॥१४४॥

वातोपि तेन वित्तेन प्रतिग्रहकृतेन च ॥

चकार तत्र प्रासादं देवदेवस्य शूलिनः

॥१४५॥

ततः प्रोवाच शक्रस्तान्ब्राह्मणान्नगरोद्भवान् ॥

कपालमोचने स्नात्वा यो देवं ह्यर्चयिष्यति

॥१४६॥

ब्रह्महत्योद्भवं पापं तस्य नश्यत्यसंशयम् ॥

महापातकयुक्तो वा विपाप्मा संभविष्यति

॥१४७॥

स तथेति प्रतिज्ञाय ब्राह्मणान्नगरोद्भवान् ॥

तत्रैव स्वाश्रमं कृत्वा पूजयामास शंकरम्

॥१४८॥

ततःप्रभृति यत्किंचित्तेषां कृत्यं प्रजायते ॥

तद्वाक्येन प्रकुर्वंति तत्र ये नागरः स्थिताः

॥१४९॥

एतस्मात्कारणाज्जातो मध्यगो द्वितीयस्त्विह

॥१५०॥

एतद्वः सर्वमाख्यातमाख्यानं पापनाशनम् ॥

कपालेश्वरदेवस्य शृण्वतां पठतां नृणाम्

॥१५१॥

यथा देवेश्वरस्यात्र पापं नष्टं महात्मनः ॥

ब्रह्महत्या यथा नष्टा तस्मिंस्तीर्थे द्विजोत्तमाः

॥१५२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वातकेश्वरक्षेत्रकपालमोचनेश्वरोत्पत्तिमाहात्म्यवर्णनं नामैकोनसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २६९ ॥