सोमनाथोत्पत्तिमाहात्म्यवर्णनम्
सूत उवाच
अथ सोमेश्वराख्यं च तत्र लिंगं सुशोभनम् ॥
अस्ति ख्यातं त्रिलोकेऽत्र स्वयं सोमेन निर्मितम्
॥१॥सोमवारेण यस्तत्र वत्सरं यावदर्चयेत् ॥
क्षणं कृत्वा स रोगेण दारुणेनापि मुच्यते
॥२॥यक्ष्मणापि न संदेहः किं पुनः कुष्ठपूर्वकैः ॥
तस्मात्सर्वप्रयत्नेन रोगार्त्तस्तं प्रपूजयेत्
॥३॥तदाराध्य पुरा सोमः क्षयव्याधिसमन्वितः ॥
बभूव नीरुग्देहोऽसौ यथा पांड्यो नराधिपः
॥४॥ऋषय ऊचुः
ओषधीनामधीशस्य कथं सोमस्य सूतज ॥
क्षयव्याधिः पुरा जाता उपशांतिं कथं गतः
॥५॥एतन्नः सर्वमाचक्ष्व विस्तरेण महामते ॥
तथा तस्य महीपस्य पांड्यस्यापि कथां शुभाम्
॥६॥सूत उवाच
दक्षस्य कन्यकाः पूर्वं सप्तविंशतिसंख्यया ॥
उपयेमे निशानाथो देवाग्निगुरुसंनिधौ
॥७॥नक्षत्रसंज्ञिता लोके कीर्त्यंते या द्विजोत्तमैः ॥
दैवज्ञैरश्विनीपूर्वा रूपौदार्यगुणान्विताः
॥८॥अथ तासां समस्तानां मध्ये तस्य निशापतेः ॥
रोहिणी वल्लभा जज्ञे प्राणेभ्योऽपि गरीयसी
॥९॥ततः समं परित्यज्य सर्वास्ता दक्षकन्यकाः ॥
रोहिण्या सह संयुक्तः संबभूव दिवानिशम्
॥१०॥ततस्ताः काम संतप्ता दौर्भाग्येन समन्विताः ॥
प्रोचुर्दुःखान्विता दक्षं गत्वा बाष्पप्लुताननाः
॥११॥वयं यस्मै त्वया दत्ताः पत्न्यर्थं तात पापिने ॥
ऋतुमात्रमपि प्रीत्या सोऽस्माकं न प्रयच्छति
॥१२॥तस्मात्प्राणान्विहास्यामः संप्रविश्य हुताशनम् ॥
अविलंबान्महाभाग सत्यं ब्रूमस्तवाग्रतः
॥३॥सूत उवाच
तासां तद्वचनं श्रुत्वा दक्षो दुःखसमन्वितः ॥
सर्वास्ताः स्वयमादाय जगाम शशिसंनिधौ
॥१४॥ततः प्रोवाच सोऽन्वक्षं तासां दक्षः प्रजापतिः ॥
भर्त्सयन्परुषैर्वाक्यैर्निशानाथं मुहुर्मुहुः
॥१५॥किमिदं युज्यते कर्तुं त्वया रात्रिपतेऽधम ॥
कर्म मूढ सतां बाह्य धर्मशास्त्रविगर्हितम्
॥१६॥ऋतुकालेऽपि संप्राप्ते सुता मम समुद्भवाः ॥
यन्न संभाषसि प्रीत्या धर्मशास्त्रं न वेत्सि किम्
॥१७॥ऋतु स्नातां तु यो भार्यां संनिधौ नोपगच्छति ॥
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः
॥१८॥तस्य तद्वचनं श्रुत्वा सलज्जो रात्रिनायकः ॥
प्रोवाचाधोमुखो दक्षं प्रकरिष्ये वचस्तव
॥१९॥ततो हृष्टमना दक्षः सुताः सर्वा हिमद्युते ॥
निवेद्यामंत्र्य तं पश्चाज्जगाम निजमंदिरम्
॥२०॥३ चन्द्रोऽपि पूर्ववत्सर्वास्ताः परित्यज्य दक्षजाः ॥
रोहिण्या सह संसर्गं प्रचकारानुरागतः
॥२१॥अथ ता दुःखिता भूयो जग्मुर्यत्र पिता स्थितः ॥
प्रोचुश्च बाष्पपूर्णाक्षास्तत्कालसदृशं वचः
॥२२॥एतत्तात महद्दुःखमस्माकं वर्तते हृदि ॥
यद्दौर्भाग्यं प्रसंजातं सर्वस्त्रीजनगर्हितम्
॥२३॥यत्पुनस्त्वं कृतस्तेन कामुकेन दुरात्मना ॥
व्यर्थश्रमोऽप्रमाणीव कृतेऽस्माकं गतः स्वयम्
॥२४॥तद्दुःखं न वयं शक्ता हृदि धर्तुं कथंचन ॥
रमते स हि रोहिण्या चंद्रमाः सहितोऽनिशम्
॥२५॥विशेषात्तव वाक्येन निषिद्धो रात्रिनायकः ॥
अनुज्ञां देहि तस्मात्त्वमस्माकं तत्र सांप्रतम् ॥
दौर्भाग्यदुःखसंतप्तास्त्यजामो येन जीवितम्
॥२६॥सूत उवाच
तासां तद्वचनं श्रुत्वा दक्षः कोपसमन्वितः ॥
शशाप शर्वरीनाथं गत्वा तत्संनिधौ ततः
॥२७॥यस्मात्पाप न मे वाक्यं त्वया धर्मसमन्वितम् ॥
कृतं तस्मात्क्षयव्याधिस्त्वां ग्रसिष्यति दारुणः
॥२८॥एवमुक्त्वा ययौ दक्षश्चन्द्रोऽपि द्विजसत्तमाः ॥
तत्क्षणाद्यक्ष्मणाश्लिष्टः क्षयं याति दिने दिने
॥२९॥ततोऽसौ कृशतां प्राप्तः संपरित्यज्य रोहिणीम् ॥
अशक्तः सेवितुं कामं वभ्राम जगतीतले
॥३०॥क्षयव्याधिप्रणाशाय पृच्छ मानश्चिकित्सकान् ॥
औषधानि विचित्राणि प्रकुर्वाणो जितेन्द्रियः
॥३१॥तथापि मुच्यते नैव यक्ष्मणा स निशापतिः ॥
दक्षशापेन रौद्रेण क्षयं याति दिनेदिने
॥३२॥ततो वैराग्यमापन्नस्तीर्थयात्रापरायणः ॥
बभूव श्रद्धयायुक्तस्त्यक्त्वा भेषजमुत्तमम्
॥३३॥अथासौ भ्रममाणस्तु तीर्थान्यायतनानि च ॥
संप्राप्तो ब्राह्मणश्रेष्ठाः प्रभासं क्षेत्रमुत्तमम्
॥३४॥तत्र स्नात्वा शुचिर्भूत्वा प्रभासं वीक्ष्य रात्रिपः ॥
यावत्संप्रस्थितोन्यत्र तावदग्रे व्यवस्थितम्
॥३५॥अपश्यद्रोमकंनाम स मुनि संशितव्रतम् ॥
तपोवीर्यसमोपेतं सर्वसत्त्वानुकम्पकम्
॥३६॥तं दृष्ट्वा स प्रणम्योच्चै स्ततः प्रोवाच सादरम् ॥
क्षयव्याधियुतश्चन्द्रो निर्वेदाद्द्विजसत्तमाः
॥३७॥परिक्षीणोऽस्मि विप्रेंद्र क्षयव्याधिप्रभावतः ॥
तस्मात्कुरु प्रतीकार महं त्वां शरणं गतः
॥३८॥मया चिकित्सकाः पृष्टास्तैरुक्तं भेषजं कृतम् ॥
अनेकधा महाभाग परिक्षीणो दिनेदिने
॥३९॥यदि नैवोपदेशं मे कञ्चित्त्वं संप्रदास्यसि ॥
व्याधिनाशाय तत्तेन त्यक्ष्याम्यद्य कलेवरम्
॥४०॥रोमक उवाच
अन्यस्यापि निशानाथ न शापः कर्तुमन्यथा ॥
शक्यते किं पुनस्तस्य दक्षस्यामिततेजसः
॥४१॥तस्मादत्रोपदेशं ते प्रयच्छामि सुसंमतम् ॥
येन ते स्यादसंदिग्धं क्षयव्याधि परिक्षयः
॥४२॥नादेयं किंचिदस्तीह देवदेवस्य शूलिनः ॥
संप्रहृष्टस्य तद्वाक्यात्तस्मादाराधयस्व तम्
॥४३॥अष्टषष्टिषु तीर्थेषु सत्यं वासः सदा क्षितौ ॥
तेषु संस्थाप्य तल्लिंगं तस्य नाशाय रात्रिप
॥४४॥आराधय ततो नित्यं श्रद्धापूतेन चेतसा ॥
संप्राप्स्यसि न संदेहः क्षयव्याधि परिक्षयम्
॥४५॥सूत उवाच
तस्य तद्वचनं श्रुत्वा संप्रहृष्टो निशापतिः ॥
तस्मिन्प्रभासके क्षेत्रे दिव्यलिंगानि शूलिनः ॥
संस्थाप्य पूजयामास स्वनामांकानि भक्तितः
॥४६॥ततस्तुष्टो महादेवस्तस्य संदर्शनं गतः ॥
प्रोवाच वरदोऽस्मीति प्रार्थयस्व यथेप्सितम्
॥४७॥चन्द्र उवाच
परं क्षीणोऽस्मि देवेश यक्ष्मणाहं पदांतिकम् ॥
प्राप्तस्तस्मात्परित्राहि नान्यत्संप्रार्थयाम्यहम्
॥४८॥तस्य तद्वचनं श्रुत्वा भगवान्वृषभध्वजः ॥
दक्षमाहूय तत्रैव ततः प्रोवाच सादरम्
॥४९॥एष चंद्रस्त्वया शप्तो जामाता न कृतं शुभम् ॥
तस्मादनुग्रहं चास्य मम वाक्यात्समाचर
॥५०॥दक्ष उवाच
मया धर्म्यमपि प्रोक्तो वाक्यमेष कुबुद्धिमान् ॥
नाकरोन्मे पुरः प्रोच्य करिष्यामीत्य सत्यवाक्
॥५१॥तेन शप्तस्तु कोपेन सुतार्थे वृषभध्वज ॥
हास्येनापि मया प्रोक्तं नान्यथा संप्रजायते
॥५२॥देवदेव उवाच
अद्यप्रभृति सर्वास्ताः सुता एष निशाकरः ॥
समाः संवीक्षते नित्यं मम वाक्यादसंशयम्
॥५३॥तस्मात्पक्षं क्षयं यातु पक्षं वृद्धिं प्रगच्छतु ॥
येन ते स्याद्वचः सत्यं मत्प्रसादसमन्वितम्
॥५४॥ततो दक्षस्तथेत्युक्त्वा जगाम निजमन्दिरम् ॥
देवोऽपि शंकरो भूयः प्रोवाच शशलांछनम्
॥५५॥भूयोऽपि प्रार्थयाभीष्टं मत्तस्त्वं शशलांछन ॥
येन सर्वं प्रयच्छामि यद्यपि स्यात्सुदुर्लभम्
॥५६॥चन्द्र उवाच
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ॥
तत्स्थापितेषु लिंगेषु मया सर्वेषु सर्वदा ॥
संनिधानं त्वया कार्यं लोकानां हित काम्यया
॥५७॥देव उवाच
अष्टषष्टिषु लिंगेषु स्थापितेषु त्वया विभो ॥
सोमवारेण सांनिध्यं करिष्ये वचनात्तव
॥५८॥एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः ॥
चन्द्रोऽपि हर्षसंयुक्तः समं पश्यति तास्ततः
॥५९॥सुता दक्षस्य विप्रेंद्रा शंकरस्य वचः स्मरन् ॥
ततो हर्ष समायुक्ता वभूवुस्तदनंतरम्
॥६०॥एवं सोमेश्वरास्तत्र बभूवुर्द्विजसत्तमाः ॥
अष्टषष्टिषु तीर्थेषु तथान्येषु ततः परम्
॥६१॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सोमनाथोत्पत्तिमाहात्म्यवर्णनंनाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥