मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १०

3
नागरखण्डः · 10

चमत्कारनृपतिकुष्ठनिवृत्तिवृत्तान्तवर्णनम्

सूत उवाच

आनर्त्ताधिपतिर्भूपश्चमत्कार इति स्मृतः ॥

एतस्मिन्नंतरे प्राप्तस्तत्र हंतुं वने मृगान् ॥

स ददर्श मृगीं दूरान्निश्चलांगीं तरोरधः ॥

स्तनं सुताय यच्छंतीं विश्वस्तामकुतोभयाम्

॥२॥

अथ तां पार्थिवस्तूर्णं शरेणानतपर्वणा ॥

जघानाकर्णकृष्टेन मर्मस्थाने प्रहर्षितः

॥३॥

सहसा सा हता तेन गार्द्ध्रपत्रेण पत्रिणा ॥

दिशो विलोकयामास समंताद्व्यथयार्दिता

॥४॥

अथ दृष्ट्वा महीपालं नातिदूरे धनुर्धरम् ॥

प्रोवाचाश्रुपरिक्लिन्नवदना सुतवत्सला

॥५॥

मृग्युवाच

अयुक्तं पृथिवीपाल यत्त्वयैतदनुष्ठितम् ॥

हताऽहं बालवत्साऽद्य शरेणानतपर्वणा

॥६॥

नाऽहं शोचामि भूपाल मरणं स्वशरीरगम् ॥

यथेमं वालकं दीनं क्षीरास्वादनलंपटम्

॥७॥

यस्मात्त्वयेदृशं कर्म निर्दयं समनुष्ठितम् ॥

कुष्ठव्याधिसमायुक्तस्तस्मात्सद्यो भविष्यसि

॥८॥

राजोवाच

स्वधर्म एष भूपानां कुर्वंति मृगसंक्षयम् ॥

तस्मात्स्वधर्मसंयुक्तं न मां त्वं शप्तुमर्हसि

॥९॥

मृग्युवाच

सत्यमेतन्महीपाल यत्त्वया परिकीर्तितम् ॥

क्षत्त्रियाणां वधार्थाय मृगाः सृष्टाः स्वयंभुवा

॥१०॥

परं तेन विधिस्तेषांकृतो यस्तं महीपते ॥

शृणुष्वाऽवहितो भूत्वा वदंत्या मम सांप्रतम्

॥११॥

सुप्तं मैथुनसंयुक्तं स्तनपानक्रियोद्यतम् ॥

हत्वा मृगं जलासक्तं नरः पापेन लिप्यते

॥१२॥

एतस्मात्कारणाच्छापस्तव दत्तो मया नृप ॥

न कामतो न मृत्योर्वा सत्येनात्मानमालभे

॥१३॥

एवमुक्त्वा मृगी प्राणान्सा मुमोच व्यथान्विता ॥

कुष्ठव्याधिसमायुक्तः सोऽपि राजा बभूव ह

॥१४॥

स दृष्ट्वा कुष्ठसंयुक्तं पार्थिवः स्वं कलेवरम् ॥

ततः स्वान्सेवकानाह समाहूय सुदुःखितः

॥१५॥

अहं तपश्चरिष्यामि पूजयिष्यामि शंकरम् ॥

तावद्यावत्प्रणाशो मे कुष्ठव्याधेर्भविष्यति

॥१६॥

यत्किंचित्त्रिषु लोकेषु प्रार्थयंति नराः सुखम् ॥

तत्सर्वं तपसा साध्यं तस्मात्कार्यं मया तपः

॥१७॥

अधुनैकोऽहमैकाहमेकैकस्मिन्वनस्पतौ ॥

चरन्भैक्षं तु नियमैश्चरिष्यामि धरातले

॥८॥

पांसुना समवच्छन्ने शून्यागारे प्रतिश्रयः ॥

वृक्षमूलनिकेते वा मुक्तसर्वप्रियाप्रियः

॥९॥

समः शत्रुषु मित्रेषु समलोष्टाश्मकांचनः ॥

भूत्वा कालं नयिष्यामि यावत्कालस्य संस्थितिः

॥२०॥

एवं तान्सेवकान्भूपः सोऽभिधाय विसृज्य च ॥

तीर्थयात्रा परो भूत्वा बभ्राम वसुधातले

॥२१॥

ततः कालेन महता प्राप्य विप्रसमुद्भवम् ॥

उपदेशं नृपः प्राप्तः शंखतीर्थं महोदयम्

॥२२॥

हाटकेश्वरजे क्षेत्रे सर्वव्याधिविनाशकम् ॥

विख्यातं त्रिषु लोकेषु पूरितं स्वच्छवारिणा

॥२३॥

तत्राऽसौ स्नानमात्रेण तत्क्षणात्पार्थिवोतमः ॥

कुष्ठव्याधिवि निर्मुक्तः संजातः सुमहाद्युतिः

॥२४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शंखतीर्थमाहात्म्ये चमत्कारनृपतिकुष्ठनिवृत्तिवृत्तान्तवर्णनंनाम दशमोऽध्यायः ॥ १० ॥