मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १६१

3
नागरखण्डः · 161

चातुश्चरणसंज्ञाश्च ततस्तस्य निवेशिताः

सूत उवाच

अथ तेन द्विजाः सर्वे ब्रह्मस्थाने निवेशिताः ॥

चातुश्चरणसंज्ञाश्च ततस्तस्य निवेशिताः

॥१॥

सोऽपि केशान्परित्यज्य सर्वगात्रसमुद्भवान् ॥

निजपत्न्या समोपेतः प्रणम्य च द्विजोत्तमान्

॥२॥

कृतांजलिपुटो भूत्वा वाक्यमेतदुवाच ह ॥

भास्करस्यास्य विहितः प्रासादोयं मया द्विजाः

॥३॥

पुष्पादित्य इति ख्यातिं प्रयातु भुवनत्रये ॥

ब्राह्मणा ऊचुः ॥

न वयं याज्ञवल्क्यस्य कीर्तिं नेष्यामहे क्षयम्

॥४॥

प्रायश्चित्तं प्रदास्यामश्चित्तस्य हृदयंगमम् ॥

अन्ये च ब्राह्मणाः प्रोचुः केचिन्मध्यस्थवृत्तयः

॥५॥

वृत्त्यर्थमस्य देवस्य लक्षं होमेऽत्र कल्प्यताम् ॥

लक्षं तु सर्वविप्राणां प्रायश्चित्तविशुद्धये

॥६॥

पुष्प उवाच

तस्मात्सर्वे द्विजश्रेष्ठा मन्नाम्ना कीर्तयंत्विमम् ॥

पुष्पादित्यमिति ख्यातिं कीर्तयंतु तथानिशम्

॥७॥

अनया भार्यया मह्यं मान्या या स्थापिता पुरा ॥

दुर्गाऽस्याश्चात्र नाम्ना वै भूयात्ख्याताऽत्र सत्पुरे

॥८॥

ब्राह्मणा ऊचुः

दुःशीलेन पुराऽकारि प्रासादो हरसंभवः ॥

दुर्वासःस्थापितस्यापि भवद्भिस्तुष्ट मानसैः

॥९॥

तथाप्यस्य तु दीनस्य प्रासादः क्रियतां द्विजाः

॥१०॥

नाममात्रेण देवस्य दुःशीलेन यया पुरा ॥

अनेनाराधितः पूर्वं स्वमांसैरेष भास्करः

॥११॥

तस्मान्न क्षतिरस्याथ दत्ते नाम्नि यथा पुरा ॥

नाम्ना माहिकया नाम माहीत्येव च सा भवेत्

॥१२॥

सूत उवाच

पुष्पेण दाने दत्तेऽथ संमतेनाग्रजन्मनाम् ॥

मध्यमेन कृतं नाम पुष्पादित्य इति श्रुतम्

॥१३॥

तत्पत्न्या चापि या तत्र दुर्गा देवी द्विजोत्तमाः ॥

नाम्ना माहिकया नाम माहीत्येव च साऽभवत्

॥१४॥

सूत उवाच

एतद्वः सर्वमाख्यातं यत्पृष्टोस्मि द्विजोत्तमाः ॥

पुष्पा दित्यो यथा जातो याज्ञवल्क्यप्रतिष्ठितः

॥१५॥

अद्यापि कलिकाले स दृष्टो भक्त्या सुरेश्वरः ॥

नाशयेद्दिनजं पापं नराणां नात्र संशयः

॥१६॥

तथा च सप्तमीयुक्ते रवेर्वारे द्विजोत्तमाः ॥

अष्टोत्तरशतंयावत्फलहस्तः करोति यः ॥

प्रदक्षिणां च सद्भक्त्या स लभेद्वांछितं फलम्

॥१७॥

माहीकामपि यो दुर्गां नित्यमेव प्रपश्यति ॥

न स पश्यति कष्टानि तस्मिन्नहनि कर्हिचित्

॥१८॥

चैत्रशुक्लचतुर्दश्यां यस्तां पूजयते नरः ।

तस्य संवत्सरंयावन्नापत्संजायते क्वचित्

॥१९॥

इति श्रीस्कांदेमहापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्पादित्यमाहात्म्यवर्णनंनामैकषष्ट्युत्तरशततमोऽध्यायः ॥ १६१ ॥