मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १७४

3
नागरखण्डः · 174

पिप्पलादोत्पत्तिवर्णनम्

सूत उवाच

तथान्यदपि वो वच्मि लिंगं यत्तत्र संस्थितम् ॥

स्थापितं पिप्पलादेन कंसारेश्वरमित्यहो

॥१॥

यस्मिन्दृष्टे तु लोकानां पापं याति दिनोद्भवम् ॥

नते षाण्मासिकं चैव पूजिते वर्षसंभवम् ॥

ऋषय ऊचुः ॥

पिप्पलादेन यल्लिंगं स्थापितं सूतनन्दन ॥

कंसारेश्वरमित्युक्तं कस्मात्तच्च ब्रवीहि नः

॥३॥

क एष पिप्पलादस्तु कस्य पुत्रो वदस्व नः ॥

किमर्थं स्थापितं लिंगं क्षेत्रे तत्र महात्मना

॥४॥

सूत उवाच

प्रश्नभारो महानेष भवद्भिः समुदाहृतः ॥

तथापि कथयिष्यामि नमस्कृत्वा स्वयंभुवम्

॥५॥

याज्ञवल्क्यस्यभगिनी कंसारीति च विश्रुता ॥

कुमारब्रह्मचर्येण तप स्तेपे सुदारुणम्

॥६॥

याज्ञवल्क्याश्रमे पुण्ये बांधवेन समन्विता ॥

कस्यचित्त्वथ कालस्य याज्ञवल्क्यस्य भो द्विजाः

॥७॥

चस्कन्द रेतः स्वप्नांते दृष्ट्वा कांचिद्वराप्सराम् ॥

तारुण्यभावसंस्थस्य तपोयुक्तस्य सद्द्विजाः

॥८॥

रेतसा तस्य महता परिधानं परिप्लुतम् ॥

तच्च तेन परित्यक्तं प्रभाते समुपस्थिते

॥९॥

कंसारिकाऽथ जग्राह स्नानार्थं वसनं च तत् ॥

अमोघरेतसा क्लिन्नमजानन्ती द्विजोत्तमाः

॥१०॥

कुर्वन्त्या यजनं तस्या जलं वीर्यसमन्वितम् ॥

प्रविष्टं भगमध्ये तु ऋतुकाल उपस्थिते

॥११॥

ततो गर्भः समभवत्तस्यास्तूदरमध्यगः ॥

वृद्धिं चाप्यगमन्नित्यं शुक्लपक्षे यथोडुराट्

॥१२॥

साऽपि तं गर्भमादाय स्वोदरस्थं तपस्विनी ॥

दुःखेन महता युक्ता लज्जयाऽथ तदाऽऽवृता

॥१३॥

चिन्तयामास सुचिरं विस्मयेन समन्विता ॥

गोपायन्ती तदाऽऽत्मानं दर्शनं याति नो नृणाम्

॥१४॥

व्रतचर्यामिषं कृत्वा सदा रहसि संस्थिता ॥

संप्राप्ते दशमे मासि निशीथे समुपस्थिते ॥

तस्याः कुमारको जातो वालार्कसदृशद्युतिः

॥१५॥

अथ सा तं समा दाय सूक्ष्मवस्त्रेण वेष्टितम् ॥

कृत्वा जगाम चारण्यं मनुष्यपरिवर्जितम् ॥

अश्रुपूर्णेक्षणा दीना रुदन्ती गुप्तमेव च

॥१६॥

ततो गत्वा च साऽश्वत्थं विजने सुमहत्तरम् ॥

तस्याधस्ताद्विमुच्याथ वाक्यमेतदुवाच ह

॥१७॥

अश्वत्थ विष्णुरूपोऽसि त्वं देवेषु प्रतिष्ठितः ॥

तस्माद्रक्षस्व मे पुत्रं सर्वतस्त्वं वनस्पते

॥१८॥

एष ते शरणं प्राप्तो मम पुत्रस्तु बालकः ॥

पापाया निर्दयायाश्च तस्माद्रक्षां समाचर

॥१९॥

एवमुक्त्वा रुदित्वा च सुचिरं सा तपस्विनी ॥

जगाम स्वाश्रमं पश्चाद्वाष्पव्याकुललोचना

॥२०॥

यावद्रोदिति सा माता तस्याधस्ताद्वनस्पतेः ॥

तावदाकाशजा वाणी संजाता मेघनिःस्वना

॥२१॥

मा त्वं शोकं कुरुष्वास्य बालकस्य कृते शुभे ॥

एष शापादुतथ्यस्य ज्येष्ठभ्रातुर्बृहस्पतिः ॥

अवतीर्णो धरापृष्ठे योग्यतां समवाप्स्यति

॥२२॥

एष चाथर्वणं वेदं शतकल्पं सुविस्तरम् ॥

शतभेदं च नवधा पंचकल्पं करिष्यति

॥२३॥

पिप्पलस्य तरोरेष रसं संभक्षयिष्यति ॥

पिप्पलाद इति ख्यातस्ततो लोके भविष्यति

॥२४॥

या त्वं विस्मयमापन्ना पुरुषेण विना शिशुः ॥

संजातोऽयं मम प्रांशुस्ततस्तत्कारणं शृणु

॥२५॥

स्नानवस्त्रं च ते भ्रातू रेतसा यत्परिप्लुतम् ॥

तत्त्वया ऋतुकाले तु परिधानं कृतं शुभे

॥२६॥

स्नानकाले तु तोयानि रेतोदकमथास्पृशन् ॥

अमोघरेतसा तेन पुत्रोऽयं तव संस्थितः

॥२७॥

एवं ज्ञात्वा महाभागे यद्युक्तं तत्समाचर

॥२८॥

सूत उवाच

तच्छ्रुत्वा देवलोकस्यवज्रपातोपमं वचः ॥

हाहाकारपरा भूत्वा निपपात धरातले

॥२९॥

छिन्नवृक्षलता यद्वत्पतिता सा तपस्विनी

॥३०॥

चिरायन्त्यां तु तस्यां स याज्ञवल्क्यो महामुनिः ॥

शून्यं तमाश्रमं दृष्ट्वा पप्रच्छान्यान्मुनीश्वरान्

॥३१॥

क्व च मे भगिनी याता कंसारी सुतपस्विनी ॥

तया विनाऽद्य मे सर्वं शून्यमाश्रममंडलम्

॥३२॥

आचख्यौ तापसः कश्चिद्भगिनी ते यवीयसी ॥

निश्चेष्टा पतिता भूमावश्वत्थस्य समीपतः

॥३३॥

मया दृष्टा मुनिश्रेष्ठ तां त्वं भावय मा चिरम् ॥

अथासौ त्वरया युक्तः संभ्रांतस्तु प्रधावितः

॥३४॥

यत्र सा कथिता तेन तापसेन तपस्विनी ॥

वीक्षते यावत्तत्रस्था श्वसमाना व्यवस्थिता

॥३५॥

अथ तोयेन शीतेन सेचयित्वा मुहुर्मुहुः ॥

दत्त्वा भूयोऽपि वातं च यावच्चक्रे सचेतनाम् ॥

तावत्कात्यायनी प्राप्ता मैत्रेयी च ससंभ्रमम्

॥३६॥

किमिदं किमिदं जातं ननांदर्वद मा चिरम्

॥३७॥

किं वा सर्पेण दष्टासि सन्निपातेन दूषिता ।

१ किं वा भूतगृहीताऽसि माहेंद्रेण ज्वरेण वा

॥३८॥

अथ सा चेतनां लब्ध्वा याज्ञ वल्क्यं पुरः स्थितम् ॥

भार्यया सहितं दृष्ट्वा व्रीडयाऽसून्मुमोच ह

॥३९॥

अथ तां च मृतां दृष्ट्वा रुदित्वा च चिरं द्विजाः ॥

याज्ञवल्क्यः सभार्यस्तु दत्त्वा वह्निं च शोकधृक् [।

जगाम स्वाश्रमं पश्चाद्दत्त्वा च सलिलाञ्जलिम्

॥४०॥

सोऽपि बालोऽथ ववृधे पिप्पलास्वादपुष्टिधृक् ॥

अश्वत्थस्य तले तस्य वृद्धिं याति शनैःशनैः

॥४१॥

कस्यचित्त्वथ कालस्य नारदो मुनिसत्तमः ॥

तीर्थयात्राप्रसंगेन तेन मार्गेण चागतः

॥४२॥

स दृष्ट्वा बालकं तत्र द्वादशार्कसमप्रभम् ॥

एकाकिनं वने शून्ये पिप्पलास्वादतत्परम् ॥

पप्रच्छ विस्मयाविष्ट एकाकी को भवानिह

॥४३॥

वने शून्ये महारौद्रे सिंहव्याघ्रसमाकुले ॥

क्व ते माता पिता चैव किमर्थं चेह तिष्ठसि

॥४४॥

निवससि कथं चैव सर्वं मे विस्तराद्वद

॥४५॥

पिप्पलाद उवाच

नाहं जानामि पितरं मातरं न च बांधवम् ॥

नापि त्वां कोऽत्र चा यातो मम पार्श्वे तु सांप्रतम्

॥४६॥

सूत उवाच

[।

तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा मुनीश्वरः ॥

ततस्तं प्रहसन्प्राह ज्ञात्वा दिव्येन चक्षुषा

॥४७॥

नारद उवाच

मया ज्ञातोऽसि वत्स त्वं याज्ञवल्क्यस्य रेतसा ॥

दैवयोगात्समुत्पन्नो भगिन्या उदरे ह्यृतौ

॥४८॥

उतथ्यशापदोषेण देवाचार्यो बृहस्पतिः ॥

देवकार्यस्य सिद्ध्यर्थं तस्मात्तच्छृणु कारणम्

॥४९॥

अथर्ववेदो यश्चैष शतशाखो विनिर्मितः ॥

शत कल्पश्च गूढार्थो भूपानां कार्यसिद्धये

॥५॥

नवशाखः पंचकल्पस्त्वया कार्यः सुखावहः

॥५१॥

तव मात्रा महाभाग रेतसा च परिप्लुतम् ॥

यद्वस्त्रं याज्ञवल्क्यस्य परिधानं कृतं च यत्

॥५२॥

भगिन्या सुतपस्विन्या स्नानार्थं न च काम्यया ॥

तद्रेतो जलमिश्रं तु भगमध्ये विनिर्गतम्

॥५३॥

अमोघं तेन संभूतस्त्वमत्र जगतीतले ॥

माता वै मृत्युमापन्ना ज्ञात्वैवं लज्जया तया

॥५४॥

चमत्कारपुरे तुभ्यं मातुलो जनकस्तथा ॥

संतिष्ठते महाभाग तत्पार्श्वे त्वमितो वज

॥५५॥

सांप्रतं व्रतकालस्ते वर्षं चैवाष्टमं स्थितम् ॥

तच्छ्रुत्वा वचनं तस्य लज्जयाऽधोमुखः स्थितः

॥५६॥

ततश्चिरेण दीनं स वाक्यमेतदुवाच तम् ॥

किं मया पापमाख्याहि पूर्वदेहांतरे कृतम् ॥

५७ येनेदं गर्हितं जन्म वियोगो मातृसंभवः ॥

परित्यक्ष्यामि जीवं स्वं दुःखेनानेन सन्मुने

॥५८॥

नारद उवाच

न त्वया दुष्कृतं किंचित्पूर्वदेहांतरे कृतम् ॥

परं येन सुसंजातं तवेदं व्यसनं शृणु

॥५९॥

जन्मस्थेन भवाञ्जातः शनिना नाऽत्र संशयः ॥

तेनावस्थामिमां प्राप्तो नान्यदस्ति हि कारणम्

॥६०॥

तच्छ्रुत्वा वचनं तस्य कोपसंरक्तलोचनः ॥

ऊर्ध्वमालोकयामास समुद्दिश्य शनैश्चरम्

॥६१॥

तस्य दृष्टिनिपातेन न्यपतत्स तु तत्क्षणात् ॥

विमानात्स्वाद्रवेः पुत्रो ययातिरिव नाहुषः ॥

१ अधोवक्त्रो द्विजश्रेष्ठाः पितुरादेशमाश्रितः ॥

बालभावेऽपि तेनैव दग्धौ पादौ तदा रवेः

॥६३॥

अथ तं नारदः प्राह पतमानमधोमुखम् ॥

बाल्यभावादनेन त्वं पातितोऽसि शनैश्चर

॥६४॥

तस्मान्मा वीक्षयस्वैनं भविष्यति प्रकोपभाक् ॥

मा पतस्व तथा भूमौ बलान्मद्वाक्यसंभवात्

॥६५॥

स्तंभयित्वा तथाप्येवं गगनस्थं शनैश्चरम् ॥

ततः प्रोवाच तं बालं पिप्पलादं मुनीश्वरः

॥६६॥

मा कोपं कुरु बाल त्वमेष सूर्यसुतो ग्रहः।

देवानामपि पीडां च कुरुतेऽष्टमराशिगः

॥६७॥

जन्मस्थस्तु विशेषेण द्वितीयस्तु तथापरः ॥

यद्येष कुपितस्त्वां तु वीक्षयिष्यति कर्हिचित्

॥६८॥

करिष्यति न संदेहो भस्मराशिं ममाग्रतः ॥

अनेन वीक्षितौ पादौ जातमात्रेण सूर्यकौ

॥६९॥

आयातस्य तु तुष्टस्य पुत्रदर्शनवाञ्छया ॥

अन्तर्धानीकृते वस्त्रे ज्ञात्वा तं रौद्रचक्षुषम्

॥७०॥

ततो दग्धावुभौ चापि तिष्ठतश्चर्म वेष्टितौ ॥

दृश्येतेऽद्यापि मूर्त्तौ तौ घटितायां धरातले

॥७१॥

सूत उवाच

तच्छ्रुत्वा वचनं तस्य नारदस्य स बालकः ॥

भयेन महता युक्तस्ततः पप्रच्छ तं मुनिम्

॥७२॥

कथं यास्यति मे तुष्टिं वदैष मम सन्मुने ॥

अज्ञानात्पातितो व्योम्नः शक्तिं चास्याविजानता

॥७३॥

नारद उवाच

ग्रहा गावो नरेंद्राश्च ब्राह्मणाश्च विशेषतः ॥

पूजिताः प्रतिपूज्यंते निर्दहंत्यपमानिताः

॥७४॥

तस्मात्कुरु स्तुतिं चास्य स्वशक्त्या भास्करेः प्रभो ॥

प्रसादं गच्छते येन कोपं त्यजति पातजम्

॥७५॥

ततः कृतांजलिर्भूत्वा स्तुतिं चक्रे स बालकः ॥

भयेन महता युक्तस्ततः संपृच्छ्य तं मुनिम्

॥७६॥

पिप्पलादो द्विजश्रेष्ठाः प्रणिपत्य मुहुर्मुहुः ॥

नमस्ते क्रोधसंस्थाय पिंगलाय नमोऽस्तु ते

॥७७॥

नमस्ते वसुरूपाय कृष्णाय च नमोऽस्तु ते ॥

नमस्ते रौद्रदेहाय नमस्ते चांतकाय च

॥७८॥

नमस्ते यमसंज्ञाय नमस्ते सौरये विभो ॥

नमस्ते मन्दसंज्ञाय शनैश्चर नमोऽsस्तु ते

॥७९॥

प्रसादं कुरु देवेश दीनस्य प्रणतस्य च

॥८॥

शनैश्चर उवाच

परितुष्टोऽस्मि ते वत्स स्तोत्रेणानेन सांप्रतम् ॥

वरं वरय भद्रं ते येन यच्छामि सांप्रतम्

॥८१॥

पिप्पलाद उवाच

अद्यप्रभृति नो पीडा बालानां सूर्यनन्दन ॥

त्वया कार्या महाभाग स्वकीया च कथंचन

॥८२॥

यावद्वर्षाष्टमं जातं मम वाक्येन सूर्यज ॥

स्तोत्रेणानेन योऽत्र त्वां स्तूयात्प्रातः समुत्थितः

॥८३॥

तस्य पीडा न कर्तव्या त्वया भास्करनन्दन ॥

तव वारे च संजाते तैलाभ्यंगं करोति यः

॥८४॥

दिनाष्टकं न कर्तव्या तस्य पीडा कथंचन ॥

यस्त्वां लोहमयं कृत्वा तैलमध्ये ह्यधोमुखम्

॥८५॥

धारयेत्तेन तैलेन ततः स्नानं समाचरेत् ॥

तस्य पीडा न कर्तव्या देयो लाभो महीभुजः

॥९६॥

अध्यर्द्धाष्टमिकायोगे तावके संस्थिते नरः ॥

तववारे तु संप्राप्ते यस्तिलाँल्लोहसंयुतान्

॥९७॥

स्वशक्त्या राति नो तस्य पीडा कार्या त्वया विभो ॥

कृष्णां गां यस्तु विप्राय तवोद्देशेन यच्छति

॥८८॥

अध्यर्द्धाष्टमजा पीडा नाऽस्य कार्या त्वया विभो ॥

शमी समिद्भिर्यो होमं तवोद्देशेन यच्छति

॥९९॥

तथा कृष्णतिलैश्चैव कृष्णपुष्पानुलेपनैः ॥

पूजां करोति यस्तुभ्यं धूपं वै गुग्गुलं दहेत् ॥

कृष्णवस्त्रेण संवेष्ट्य त्याज्या तस्य व्यथा त्वया

॥९०॥

सूत उवाच

एवमुक्तः शनिस्तेन बाढमित्येव जल्प्य च ॥

नारदं समनुज्ञाप्य जगाम निजसं श्रयम्

॥९१॥

नारदोऽपि तमादाय वालकं कृपयान्वितः ॥

चमत्कारपुरं गत्वा याज्ञवल्क्याय चार्पयत्

॥९२॥

कथयामास वृत्तांतं तस्य संभूति संभवम् ॥

यद्दृष्टं ज्ञानदीपेन तस्मै सर्वं न्यवेदयत्

॥९३॥

एष ते वीर्यसंभूतो बालको भगिनीसुतः ॥

मयाऽश्वत्थतले लब्धः काननेऽश्वत्थसंनिधौ

॥९४॥

व्रतबंध कुरुष्वास्य सांप्रतं चाष्टवार्षिकः ॥

नात्र दोषोस्ति विप्रेंद्र न भगिन्यास्तथा तव ॥

तस्माद्गृहाण पुत्रं स्वं भागिनेयं विशेषतः

॥९५॥

सूत उवाच

एवमुक्त्वा स देवर्षिस्ततश्चादर्शनं गतः ॥

याज्ञवल्क्योऽपि तच्छ्रुत्वा विषादं परमं गतः

॥९६॥

पापं तच्चिंतयन्नेव न शांतिमधिगच्छति ॥

आत्मानं गर्हयन्नित्यं दिवानक्तं च शोचति

॥९७॥

तं च पुत्रं परिज्ञाय तैस्तैश्चिह्नैर्निजैः स्थितैः ॥

ततस्तु पोषयित्वा तं व्रतेन समयोजयत्

॥९९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्या संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये पिप्पलादोत्पत्तिव र्णनंनाम चतुःसप्तत्युत्तरशततमोऽध्यायः ॥ १७४ ॥