मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २३२

3
नागरखण्डः · 232

चातुर्मास्यव्रतनियमवर्णनम्

ऋषय ऊचुः

प्रसुप्ते देवदेवेशे शंखचक्रगदाधरे ॥

यच्चान्यदपि कर्तव्यं नियमो व्रतमेव वा

॥१॥

होमो वाथ जपो वाथ दानं वा तद्वदस्व नः ॥

सूत उवाच ॥

यः कश्चिन्नियमो विप्राः प्रसुप्ते गरुडध्वजे

॥२॥

अनंतफलदः स स्यादित्युवाच पितामहः ॥

तस्मात्सर्वप्रयत्नेन कश्चिद्बाह्यो विजानता

॥३॥

नियमो वा जपो होमः स्वाध्यायो व्रतमेव वा ॥

कर्तव्यं ब्राह्मणश्रेष्ठास्तुष्ट्यर्थं चक्रपाणिनः

॥४॥

चतुरो वार्षिकान्मासानेकभुक्तेन यो नयेत् ॥

वासुदेवं समुद्दिश्य स धनी जायते नरः

॥५॥

नक्षत्रैर्भोंजनं कुर्याद्यः प्रसुप्ते जनार्दने ॥

स धनी रूपसंपन्नः सुमतिश्च प्रजायते

॥६॥

एकांतरोपवासैश्च यो नयेद्द्विजसत्तमाः ॥

चतुरो वार्षिकान्मासान्वैकुंठे स सदा वसेत्

॥७॥

षष्ठान्नकालभोजी स्याद्यः प्रसुप्ते जनार्दने ॥

राजसूयाश्वमेधाभ्यां स कृत्स्नं फलमाप्नुयात्

॥८॥

त्रिरात्रोपोषितो यस्तु चतुर्मासान्सदा नयेत् ॥

न स भूयोऽपि जायेत संसारेऽत्र कथंचन

॥९॥

सायंप्रातः परो भूत्वा चतुर्मासान्सदा नयेत् ॥

अग्निष्टोमस्य यज्ञस्य स फलं लभते नरः

॥१०॥

अयाचितं चरेद्यस्तु प्रसुप्ते मधुसूदने ॥

न विच्छेदो भवेत्तस्य कदाचित्सह बंधुभिः

॥११॥

तैलाभ्यंगं च यो जह्याद्घृताभ्यंगं विशेषतः ॥

चतुरो वार्षिकान्मासान्स स्वर्गे भोगभाग्भवेत्

॥१२॥

ब्रह्मचर्येण यो मासांश्चतुरोऽपि नयेन्नरः ॥

विमानवरमारूढः स स्वर्गे स्वेच्छया वसेत्

॥१३॥

यः स्नानं चतुरो मासान्कुरुते तैलवर्जितम् ॥

मधुमांसपरित्यागी स भवेन्मुक्तिभाक्सदा

॥१४॥

वर्जयेच्छ्रावणे शाकं दधि भाद्रपदे च यः ॥

क्षीरमाश्वयुजे मासि कार्तिके च सदामिषम्

॥१८॥

न स पापेन लिप्येत संवत्सरकृते पुनः ॥

एतत्प्राह द्विजश्रेष्ठा मनुः स्वायंभुवो वचः

॥१६॥

शाके संक्रमते ब्रह्मा श्रावणे मासि संस्थिते ॥

दध्नि भाद्रपदे विष्णुः क्षीरे चाश्वयुजे हरः

॥१७॥

त्रयोऽपि कार्तिके मासि संक्रमंति तथाऽऽमिषे ॥

तस्मादेतान्स देवेषु सर्वथा परिवर्जयेत्

॥१८॥

यः कांस्यं वर्जयेन्मर्त्यः प्रसुप्ते गरुडध्वजे ॥

स फलं प्राप्नुयात्कृत्स्नं वाजपेयातिरात्रयोः

॥१९॥

अक्षारलवणाशी च यो भवेद्ब्राह्मणोत्तमः ॥

तस्यापि सकलाः पूर्ताः प्रभवंति सदा ततः

॥२०॥

यो होमं चतुरो मासान्प्रकरोति तिलाक्षतैः ॥

स्वाहांतैर्वैष्णवैर्मंत्रैर्न स रोगेण युज्यते

॥२१॥

यो जपेत्पौरुषं सूक्तं स्नात्वा विष्णोः स्थितोऽग्रतः ॥

मतिस्तस्य विवर्धेत शुक्लपक्षे यथोडुराट्

॥२२॥

शतमष्टोत्तरं यावत्फलहस्तः प्रदक्षिणाम् ॥

करोति विष्णोर्मौनेन न स पापेन लिप्यते

॥२३॥

मिष्टान्नं ब्राह्मणेंद्राणां यो ददाति स्वशक्तितः ॥

विशेषात्कार्तिके मासि सोऽग्निष्टोमफलं लभेत्

॥२४॥

यः स्वाध्यायं चतुर्वेदैर्विष्णोरायतने चरेत् ॥

चतुरो वार्षिकान्मासान्स विद्वान्सर्वदा भवेत्

॥२५॥

नृत्यगीतादिकं यश्च कुर्याद्विष्णोः सदा गृहे ॥

अप्सरसोऽस्य कुर्वंति पुरतः स्वर्गतस्य च

॥२६॥

यस्तु रात्रिदिनं विप्रो नृत्यगीतादिकं ददेत् ॥

चतुरो वार्षिकान्मासान्स गन्धर्वत्वमाप्नुयात्

॥२७॥

एते च नियमाः सर्वे शक्यंते यदि भो द्विजाः ॥

कर्तुं च चतुरो मासानेकस्मिन्वाऽपि कार्त्तिके

॥२८॥

तथापि चैव कर्तव्यं लोकद्वयमभीप्सता ॥

कार्तिक्यां ब्राह्मणश्रेष्ठा वैष्णवैः पुरुषैरिह

॥२९॥

कांस्यं मांसं क्षुरं क्षौद्रं पुनर्भोजनमैथुने ॥

कार्तिके वर्जयेद्यस्तु य एतान्ब्राह्मणः सदा

॥३०॥

पूर्वोक्तानां तु सर्वेषां नियमानां फलं लभेत्

॥३१॥

अथ यः कार्तिके मासि प्रासादस्योपरि द्विजाः ॥

जलशाय्याख्यदेवस्य कलशे दीपकं ददेत् ॥

पूर्वोक्तनियमानां च स षण्णां फलभाग्भवेत्

॥३२॥

यद्यदिष्टतमं किंचि त्सुप्राप्यं चैव यद्भवेत् ॥

नियमस्तस्य कर्तव्यश्चातुर्मास्ये शुभार्थिभिः

॥३३॥

नियमे च कृते दद्याद्ब्राह्मणाय तदेव हि ॥

नियमस्तु कृतो यस्य स्वशक्त्या स्यात्फलं ततः

॥३४॥

यो विना नियमं मर्त्यो व्रतं वा जाप्यमेव वा ॥

चतुर्मासान्नयेन्मूर्खो जीवन्नपि मृतो हि सः

॥३५॥

यथा काक यवाः प्रोक्ता यथारण्यास्तिलोद्भवाः ॥

नाममात्रप्रसिद्धाश्च तथा ते मानवा भुवि

॥३६॥

तस्मात्सर्वप्रयत्नेन कार्यो यत्नेन कार्तिके ॥

एकोऽपि नियमः कश्चित्सुसूक्ष्मोऽपि द्विजोत्तमाः

॥३७॥

एतद्वः सर्वमाख्यातं चातुर्मासीसमुद्भवम् ॥

व्रतानां नियमानां च माहात्म्यं विस्तराद्द्विजाः

॥३८॥

यश्चैतच्छृणुयान्नित्यं पठेद्वापि समाहितः ॥

चातुर्मासी कृतात्पापात्सोऽपि मुक्तिमवाप्नुयात्

॥३९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्याने चातुर्मास्यव्रतनियमवर्णनंनाम द्वात्रिंशदुत्तरद्विशतमोऽध्यायः ॥ २३२ ॥