मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १२२

3
नागरखण्डः · 122

एतद्वः सर्वमाख्यातं यत्पृष्टोस्मि द्विजोत्तमाः

सूत उवाच

एतद्वः सर्वमाख्यातं यत्पृष्टोस्मि द्विजोत्तमाः ॥

यथा स निहतो देव्या महिषाख्यो दनूत्तमः

॥१॥

सांप्रतं कीर्तयिष्यामि कथां पातकनाशिनीम् ॥

केदारसंभवां पुण्यां तां शृणुध्वं समाहिताः

॥२॥

ऋषय ऊचुः

केदारः श्रूयते सूत गंगाद्वारे हिमाचले ॥

स कथं चेह संप्राप्तः सर्वं विस्तरतो वद

॥३॥

सूत उवाच

एतत्सत्यं गिरौ तस्मिन्स्वयंभूः संस्थितः प्रभुः ॥

परं तत्र वसेद्देवो यावन्मासाष्टकं द्विजाः ॥

यावद्घर्मश्च वर्षा च तावत्तत्र वसेत्प्रभुः ॥

शीतकाले पुनश्चात्र क्षेत्रे संतिष्ठते सदा

॥५॥

ऋषय ऊचुः

किं तत्कार्यं वसेद्येन क्षेत्रे मासचतुष्टयम् ॥

हिमाचले यथैवाष्टौ सूतपुत्र वदस्व नः

॥६॥

सूत उवाच

पूर्वं स्वायंभुवस्यादौ मनोर्दैत्यो महाबलः ॥

हिरण्याक्षो महातेजास्तपोवीर्यसमन्वितः

॥७॥

तैर्व्याप्तं जगदेतद्धि निरस्य त्रिदशाधिपम् ॥

यज्ञ भागाश्चदेवानां हृता वीर्यप्रभावतः

॥८॥

अथ शक्रः सुरैः सार्धं गंगाद्वारं समाश्रितः ॥

तपस्तेपे सुदुःखार्तो राज्यश्रीपरिवर्जितः

॥९॥

तस्यैवं तप्यमानस्य तपस्तीव्रं महात्मनः ॥

माहिषं रूपमास्थाय निश्चक्राम धरातलात्

॥१०॥

स्वयमेव महादेवस्ततः शक्रमुवाच ह ॥

केदारयामि मे शीघ्रं ब्रूहि सर्वं सुरोत्तम ॥

दैत्यानामथ सर्वेषां रूपेणानेन वासव

॥११॥

इन्द्र उवाच

हिरण्याक्षो महादैत्यः सुबाहुर्वक्र कन्धरः ॥

त्रिशृंगो लोहिताक्षश्च पंचैतान्दारय प्रभो ॥

हतैरेतैर्हतं सर्वं दानवानामसंशयम्

॥१२॥

किमन्यैः कृपणैर्ध्वस्तैर्यैः किंचिन्नात्र सिध्यति ॥

तस्य तद्वचनश्रुत्वा भगवांस्तूर्णमभ्यगात् ॥

यत्र दानवमुख्योऽसौ हिरण्याक्षो महाबलः

॥१३॥

अथ तं दूरतो दृष्ट्वा महिषं पर्वतोपमम् ॥

आयातं रौद्ररूपेण दानवाः सर्वतश्च ते

॥१४॥

ततो जघ्नुश्च पाषाणैर्लगुडैश्च तथापरे ॥

क्ष्वेडितास्फोटितांश्चक्रुस्तथान्ये बलगर्विताः

॥१५॥

अथवमन्य तान्देवः प्रहारं लीलया ददौ ॥

यत्रास्ते दानवेन्द्रोऽसौ चतुर्भिः सचिवैः सह

॥१६॥

ततः शस्त्रं समुद्यम्य यावद्धावति सम्मुखः ॥

तावच्छृंगप्रहारेण सोनयद्यमसादनम्

॥१७॥

हत्वा तं सचिवान्पश्चात्सुबाहुप्रमुखांश्च तान् ॥

जघान हन्यमानोऽपि समन्ताद्दानवैः परैः

॥१८॥

न तस्य लगते क्वापि शस्त्रं गात्रे कथंचन ॥

यत्नतोऽपि विसृष्टं च लब्धलक्षैः प्रहारिभिः

॥१९॥

एवं पंच प्रधानास्तान्हत्वा दैत्यान्महेश्वरः ॥

भूयो जगाम तं देशं यत्र शक्रो व्यवस्थितः ॥

अब्रवीच्च प्रहष्टात्मा ततः शक्रं तपोन्वितम्

॥२०॥

मया ते निहताः पंच दानवा ये त्वयेरिताः ॥

तस्मात्त्रैलोक्यराज्यं स्वं भूय एव समाचर

॥२॥

मत्तोऽन्यदपि देवेश वरं प्रार्थय वांछितम् ॥

कैलासशिखरं येन गच्छामि त्वरयाऽन्वितः

॥२२॥

इन्द्र उवाच

अनेनैव हि रूपेण तिष्ठ त्वं चात्र शंकर ॥

त्रैलोक्यरक्षणार्थाय धर्माय च शिवाय च

॥२३॥

श्रीभगवानुवाच

एतद्रूपं मया शक्र कृतं तस्य वधाय वै ॥

अवध्यः सर्वभूतानां यतोन्येषां मया हतः

॥२४॥

तस्मादत्रैव ते वाक्यात्स्थास्यामि सुर सत्तम ॥

अनेनैव तु रूपेण मोक्षदः सर्वदेहिनाम्

॥२५॥

एवमुक्त्वा विरूपाक्षश्चक्रे कुंडं ततः परम् ॥

शुद्धस्फटिकसंकाशं सुस्वादुक्षीरवत्प्रियम्

॥२६॥

ततः प्रोवाच देवेन्द्रं मेघगंभीरया गिरा ॥

शृण्वतां सर्वदेवानां भगवांस्त्रिपुरातकः

॥२७॥

यो मां दृष्ट्वा शुचिर्भूत्वा कुंडमेतत्प्रपश्यति ॥

त्रिः पीत्वा वामसव्येन द्वाभ्यां चैव ततो जलम्

॥२८॥

कराभ्यां स पुमान्नूनं तारयेच्च कुलत्रयम् ॥

अपि पापसमाचारं नरकेऽपि व्यव स्थितम् ॥

२९४ वामेन मातृकं पक्षं दक्षिणेनाथ पैतृकम् ॥

उभाभ्यामथ चात्मानं कराभ्यां मद्वचो यथा

॥३०॥

इन्द्र उवाच

अहमागत्य नित्यं त्वां स्वर्गाद्वृषभवाहन ॥

अत्रस्थं पूजयिष्यामि पास्यामि च तथोदकम्

॥३१॥

के दारयामि यत्प्रोक्तं त्वया महिषरूपिणा ॥

केदार इति नाम्ना त्वं ततः ख्यातो भविष्यसि

॥३२॥

श्रीभगवानुवाच

यद्येवं कुरुषे शक्र ततो दैत्यभयं न ते ॥

भविष्यति परं तेजो गात्रे संपत्स्यतेऽखिलम्

॥३३॥

एवमुक्तः सहस्राक्षस्ततः प्रासादमुत्तमम् ॥

तदर्थं निर्मयामास साध्वालोकं मनोहरम्

॥३४॥

(साध्वालोकं- दर्शनीयतमम्) ततः प्रणम्य तं देवमनुमन्त्र्य ततः परम् ॥

जगाम निजमावासं मेरुशृंगाग्रसंस्थितम्

॥३५॥

ततश्चागत्य नित्यं स स्वर्गाद्देवस्य शूलिनः ॥

केदारस्य सुभक्त्याढ्यां पूजां चक्रे समाहितः

॥३६॥

मन्त्रोदकं च त्रिः पीत्वा ययौ ब्राह्मणसत्तमाः ॥

कस्यचित्त्वथ कालस्य यावत्तत्र समाययौ

॥३७॥

तावद्धिमेन तत्सर्वं गिरेः शृंगं प्रपूरितम् ॥

तच्च कुण्डं स देवश्च प्रासादेन समन्वितः

॥३८॥

ततो दुःखपरीतात्मा भक्त्या परमया युतः ॥

तां दिशं प्रणिपत्योच्चैर्जगाम निजमंदिरम्

॥३९॥

एवमागच्छतस्तस्य गतं मासचतुष्टयम् ॥

अपश्यतो महादेवं दिदृक्षागतचेतसः

॥४०॥

ततः प्राप्ते पुनर्विप्रा घर्मकाले हिमालये ॥

संयातो दृक्पथं देवः स तथारूपसंस्थितः

॥४१॥

ततः पूजां विधायोच्चैश्चातुर्मास्यसमुद्भवाम् ॥

गीतवाद्यादिकं चक्रे तत्पुरः श्रद्धयान्वितः

॥४२॥

अथ देवः समालोक्य तां श्रद्धां तस्य गोपतेः ॥

प्रोवाच दर्शनं गत्वा भगवांस्त्रिपुरांतकः

॥४३॥

परितुष्टोऽस्मि देवेश भक्त्या चानन्ययाऽनया ॥

तस्मात्प्रार्थय दास्यामि यं कामं हृदिसंस्थितम्

॥४४॥

शक्र उवाच

तव प्रसादात्संजातं ममैश्वर्यमनुत्तमम् ॥

यत्किंचित्त्रिषु लोकेषु तत्सर्वं गृहसंस्थितम्

॥४५॥

तस्माद्यदि प्रसादं मे करोषि वृषभध्वज ॥

वरं वा यच्छसि प्रीतस्तत्कुरुष्व वचो मम

॥४६॥

पर्वतोऽयं भवेद्गम्यो मासानष्टौ सुरेश्वर ॥

यावन्मीनस्थितो भानुः प्रगच्छति श्रुतं मया

॥४७॥

ततः परमगम्यश्च हिमपूरेण संवृतः ॥

यदा स्याच्चतुरो मासान्यावत्कुम्भगतो रविः

॥४८॥

संजायतेऽप्यगम्यश्च ममापि त्रिपुरांतक ॥

किं पुनः स्वल्पसत्त्वानां नरादीनां सुरेश्वर

॥४९॥

तस्मात्स्वर्गेऽथ पाताले मर्त्ये वा त्रिदशेश्वर ॥

कुरुष्वानेनरूपेण स्थितिं मासचतुष्टयम् ॥

येन न स्यात्प्रतिज्ञाया हानिर्मम सुरेश्वर

॥५०॥

सूत उवाच

ततो देवश्चिरं ध्यात्वा प्रोवाच बलसूदनम् ॥

परं संतोषमापन्नो मेघनिर्घोषनिःस्वनम्

॥५१॥

आनर्तविषये क्षेत्रं हाटकेश्वरसंज्ञितम् ॥

अस्मदीयं सहस्राक्ष विद्यते धरणीतले

॥५२॥

तत्राहं वृश्चिकस्थेऽर्के सदा स्थास्यामि वासव ॥

यावत्कुम्भस्य पर्यंतं तव वाक्यादसंशयम्

॥५३॥

तस्मात्तत्र द्रुतं गत्वा कृत्वा प्रासादमुत्तमम् ॥

मम रूपं प्रतिष्ठाप्य कुरुपूजा यथोचिताम् ॥

येन तत्र निजं तेजो धारयामि तवार्थतः

॥५४॥

सूत उवाच

एतच्छ्रुत्वा सहस्राक्षो देवदेवस्य शूलिनः ॥

गत्वा तत्र ततश्चक्रे यद्देवेनेरितं वचः

॥५५॥

प्रासादं निर्मयित्वाथ रूपं संस्थाप्य शूलिनः ॥

कुण्डं चक्रे च तद्रूपं स्वच्छोदकसमावृतम्

॥५६॥

ततश्चाराधयामास पुष्पधूपानुलेपनैः ॥

स्नात्वा कुण्डेऽपिबत्तोयं त्रिःकृत्वा च यथापुरा

॥५७॥

एवं स भगवांस्तत्र शक्रेणाराधितः पुरा ॥

समायातोऽत्र विप्रेंद्राः सुरम्यात्तु हिमाचलात्

॥५८॥

यस्तमाराधयेत्सम्यक्सदा मासचतुष्टयम् ॥

हिमपातोद्भवे मर्त्यः स शिवाय प्रपद्यते

॥५९॥

शेषकालेऽपि यः पूजां करोत्येव सुभक्तितः ॥

स पापं क्षालयेत्प्राज्ञ आजन्ममरणांतिकम्

॥६०॥

तत्र गीतं प्रशंसंति नृत्यं चैव पृथग्विधम् ॥

देवस्य पुरतः प्राज्ञाः सर्वशास्त्रविशारदाः

॥६१॥

अत्र श्लोकः पुरा गीतो नारदेन सुरर्षिणा ॥

तद्वोऽहं कीर्तयिष्यामि श्रूयतां ब्राह्मणोत्तमाः

॥६२॥

केदारे सलिलं पीत्वा गयापिडं प्रदाय च ॥

ब्रह्मज्ञानमथासाद्य पुनर्जन्म न विद्यते

॥६३॥

एतद्वः सर्वमाख्यातं केदारस्य च संभवम् ॥

आख्यानं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम्

॥६४॥

यश्चैतत्छृणुयात्सम्यक्पठेद्वा तस्य चाग्रतः ॥

श्रावयेद्वापि वा विप्राः सर्वपातकनानम् ॥

केदारस्य स पापौघैर्मुच्यते तत्क्षणान्नरः

॥६५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये केदारोत्पत्तिमाहात्म्यवर्णनंनामद्वाविंशत्युत्तरशततमोऽध्यायः ॥ १२२ ॥