मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १२

3
नागरखण्डः · 12

निजपुत्रादीनामुपदेशकरणवर्णनम्

सूत उवाच

एवं स वसुधापालो ब्राह्मणेभ्यः स्वशक्तितः ॥

ददौ तु नगरं कृत्वा पुरंदरपुरोपमम्

॥१॥

मुक्ताप्रवालवैडूर्यरत्नहेमविचित्रितैः ॥

भ्राजमानं गृहश्रेष्ठैर्द्यौर्नक्षत्रगणैरिव

॥२॥

प्रासादैः स्फाटिकैश्चैव कैलासशिखरोपमैः ॥

पताकाशोभितैर्दिव्यैः समंतात्परिवारितम्

॥३॥

कांचनैः सुविचित्रैश्च प्रोन्नतैरमलैः शुभैः ॥

तोरणानां सहस्रैश्च शोभितं सुमनोहरम्

॥४॥

मणिसोपानशोभाभिर्दीर्घिकाभिः समंततः ॥

आरामकूपयंत्राद्यैः सर्वोपकरणैर्युतम् ॥

निवेद्य ब्राह्मणेंद्राणां कृतकृत्यो बभूव सः

॥५॥

शंखतीर्थे स्थितो नित्यं समाहूय ततः सुतान् ॥

पुत्रान्पौत्रांस्तथा भृत्यान्वाक्यमेतदुवाच ह

॥६॥

एतत्पुरं मया कृत्वा ब्राह्मणेभ्यो निवेदितम् ॥

भवद्भिर्मम वाक्येन रक्षणीयं प्रयत्नतः

॥७॥

यथा स्युर्ब्राह्मणाः सर्वे सुखिनो हृष्टमानसाः ॥

युष्माभिः पालनं कार्यं तथा सर्वैः समाहितैः ॥

यश्चैतान्भक्तिसंयुक्तः पालयिष्यति भूमिपः ।

अन्योऽपि परमं तेजः स संप्राप्स्यति भूतले

॥९॥

अजेयः सर्वशत्रूणां प्रतापी स्फी तिसंयुतः ॥

भविष्यति न सन्देहो ब्राह्मणानां स पालनात्

॥१०॥

पुत्रपौत्रसुभृत्याढ्यो दीर्घायू रोगवर्जितः ॥

ब्राह्मणानां प्रसादेन मम वाक्याद्भविष्यति

॥११॥

यः पुनर्द्वेषसंयुक्तः संतापं चैव नेष्यति ॥

एतान्ब्राह्मणशार्दूलान्नरकं स प्रयास्यति

॥१२॥

तथा दुःखानि संप्राप्य दृष्ट्वा नैकान्पराभवान् ॥

वियोगानिष्टबन्धूनां व्याधिग्रस्तो विगर्हितः

॥१३॥

वंशोच्छेदं समासाद्य गमिष्यति यमालयम् ॥

तस्मात्सर्वप्रयत्नेन रक्षणीयमिदं पुरम् ॥

मम वाक्याद्विशेषेण हितमिच्छद्भिरात्मनः

॥१४॥

एवं स भूपतिः सर्वांस्ता नुक्त्वा तपसि स्थितः ॥

तेऽपि सर्वे तथा चक्रुर्यथा तेन च शिक्षिताः

॥१५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चमत्कारभूपेन पुरस्थित्यर्थं निजपुत्रादीनामुपदेशकरणवर्णनंनाम द्वादशोऽध्याय ॥ १२ ॥