मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २१५

3
नागरखण्डः · 215

श्राद्धावश्यकताकारणवर्णनम्

ऋषय ऊचुः

सांप्रतं वद नः सूत श्राद्धकल्पस्य यो विधिः ॥

विस्तरेण महाभाग यथा तच्चाक्षयं भवेत्

॥१॥

कस्मिन्काले प्रकर्तव्यं श्राद्धं पितृपरायणैः ॥

कीदृशैर्ब्राह्मणैस्तच्च तथा द्रव्यैर्महामते

॥२॥

सूत उवाच

एतदर्थं पुरा पृष्टो मार्कंडेयो महामुनिः ॥

रोहिताश्वेन विप्रेंद्रा हरिश्चन्द्र सुतेन सः

॥३॥

हरिश्चन्द्रे गते स्वर्गं रोहिताश्वे नृपे स्थिते ॥

तीर्थयात्राप्रसंगेन मार्कण्डो मुनिसत्तमः

॥४॥

सरय्वाः संगमे पुण्ये स्नानार्थं समुपस्थितः ॥

तत्र स्नात्वा पितॄन्देवान्संतर्प्य विधिपूर्वकम्

॥५॥

प्रविष्टस्तां पुरीं रम्यामयोध्यां सत्यनामिकाम् ॥

रोहिताश्वोऽपि तं श्रुत्वा समायातं मुनीश्वरम् ॥

पदातिः प्रययौ तूर्णं दूरदेशं तु सम्मुखम्

॥६॥

ततः प्रणम्य तं मूर्ध्ना कृतांजलिपुटः स्थितः ॥

प्रोवाच मधुरं वाक्यं विनयेन समन्वि तः

॥७॥

स्वागतं ते मुनिश्रेष्ठ भूयः सुस्वागतं मुने ॥

धन्योऽहं कृतपुण्योऽहं संप्राप्तः परमां गतिम् ॥

यत्ते पादरजोभिर्मे मूर्द्धजा विमलीकृताः

॥८॥

एवमुक्त्वा गृहीत्वा तं स्वहस्तालंबनं तदा ॥

ययौ तत्र सभास्थानं बृहत्सिंहासनाश्रयम्

॥९॥

सिंहासने निवेश्याथ तं मुनिं पार्थिवोत्तमः ॥

उपविष्टो धरापृष्ठे कृतांजलिपुटः स्थितः

॥१०॥

ततः प्रोवाच मधुरं विनयावनतः स्थितः ॥

निःस्पृहस्यापि विप्रेंद्र कि वाऽऽगमनकारणम्

॥११॥

तद्ब्रवीहि यथातथ्यं करोमि तव सांप्रतम् ॥

अदेयमपि दास्यामि गृहायातस्य ते विभो

॥१२॥

मार्कंडेय उवाच

तीर्थयात्राप्रसंगेन वयमत्र समागताः ॥

सरय्वाः संगमे पुण्ये कल्ये यास्याम्यहे पुनः

॥१३॥

निःस्पृहैरपि द्रष्टव्या धर्मवन्तो द्विजोत्तमाः ॥

ततः प्रोक्तं पुराण ज्ञैर्ब्राह्मणैः शास्त्रदृष्टिभिः

॥१४॥

धर्मवन्तं नृपं दृष्ट्वा लिंगं स्वायंभुवं तथा ॥

नदीं सागरगां चैव मुच्येत्पापाद्दिनोद्भवात् ॥

१५ एवमुक्त्वा ततश्चक्रे पृच्छां स मुनिसत्तमः ॥

तं दृष्ट्वा नृपशार्दूलं पुरःस्थं विनयान्वितम्

॥१६॥

कच्चित्ते सफला वेदाः कच्चित्ते सफलं श्रुतम् ॥

कच्चित्ते सफला दाराः कच्चित्ते सफलं धनम्

॥१७॥

रोहिताश्व उवाच

कथं स्युः सफला वेदाः कथं स्यात्सफलं श्रुतम् ॥

कथं स्युः सफला दाराः कथं स्यात्सफलं धनम्

॥१८॥

मार्कंडेय उवाच

अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् ॥

रतिपुत्रफला दारा दत्तभुक्तफलं धनम्

॥१९॥

एवं ज्ञात्वा महाराज नान्यथा कर्तुमर्हसि

॥२०॥

चत्वार्येतानि कृत्यानि मयोक्तानि च तानि ते ॥

यथा तानि प्रकृत्यानि लोकद्वयमभीप्सता

॥२१॥

एवमुक्त्वा ततश्चक्रे कथाश्चित्राश्च तत्पुरः ॥

राजर्षीणां पुराणानां देवर्षीणां विशेषतः

॥२२॥

ततः कथावसाने च कस्मिंश्चिद्द्विजसत्तमाः ॥

पप्रच्छ तं मुनिश्रेष्ठं रोहिताश्वो महीपतिः

॥२३॥

भगवञ्छ्रोतुमिच्छामि श्राद्धकल्पमहं यतः ॥

दृश्यंते बहवो भेदा द्विजानां श्राद्धकर्मणि

॥२४॥

मार्कंडेय उवाच

सत्यमेतन्महाभाग यत्पृष्टोऽस्मि नृपोत्तम ॥

श्राद्धस्य बहवो भेदाः शाखाभेदैर्व्यवस्थिताः

॥२५॥

तस्मात्ते निर्णयं वच्मि भर्तृयज्ञेन यत्पुरा ॥

आनर्त्ताधिपतेः प्रोक्तं सम्यक्छ्राद्धस्य लक्षणम्

॥२६॥

भर्तृयज्ञं सुखासीनं निजाश्रमपदे नृपः ॥

आनर्ताधिपतिर्गत्वा प्रणिपत्य ततोऽब्रवीत्

॥२७॥

आनर्त उवाच

सांप्रतं वद मे ब्रह्मञ्छ्राद्धकल्पं पित्रीप्सितम् ॥

येन मे तुष्टिमायांति पितरः श्राद्धतर्पिताः

॥२८॥

कः कालो विहितः श्राद्धे कानि द्रव्याणि मे वद ॥

श्राद्धार्हाणि तथान्यानि मेध्यानि द्वि जसत्तम ॥

यानि योज्यानि वांछद्भिः पितृणां तृप्तिमुत्तमाम्

॥२९॥

कीदृशा ब्राह्मणा ब्रह्मञ्छ्राद्धार्हाः परिकीर्तिताः ॥

कीदृशा वर्जनीयाश्च सर्वं मे विस्तराद्वद

॥३०॥

भर्तृयज्ञ उवाच

अहं ते कीर्तयिष्यामि श्राद्धकल्पमनुत्तमम् ॥

यं श्रुत्वाऽपि महाराज लभेच्छ्राद्धफलं नरः

॥३१॥

श्राद्धमिदुक्षयेऽवश्यं सदा कार्यं विपश्चिता ॥

यदि ज्येष्ठतमः सर्गः सन्तानं च तथा नृप

॥३२॥

शीतार्ता यद्वदिच्छंति वह्निं प्रावरणानि च ॥

पितरस्तद्वदिच्छंति क्षुत्सामाश्चन्द्रसंक्षयम्

॥३३॥

दरिद्रोपहता यद्वद्धनं वांछंति मानवाः ॥

पितरस्तद्वदिच्छंति क्षुत्क्षामाश्चन्द्रसं क्षयम्

॥३४॥

यथा वृष्टिं प्रवांछन्ति कर्षुकाः सस्यवृद्धये ॥

तथात्मप्रीतये तेऽपि प्रवांछन्तींदुसंक्षयम्

॥३५॥

यथोषश्चक्रवाक्यश्च वांछन्ति रवि दर्शनम् ॥

पितरस्तद्वदिच्छंति श्राद्धं दर्शसमुद्भवम्

॥३६॥

जलेनापि च यः श्राद्धं शाकेनापि करोति वाः ॥

दर्शस्य पितरस्तृप्तिं यांति पापं प्रण श्यति

॥३७॥

अमावास्यादिने प्राप्ते गृहद्वारं समाश्रिता ॥

वायुभूताः प्रवांछन्ति श्राद्धं पितृगणा नृणाम् ॥

यावदस्तमयं भानोः क्षुत्पिपासास माकुलाः

॥३८॥

ततश्चास्तं गते भानौ निराशा दुःखसंयुताः ॥

निःश्वस्य सुचिरं यांति गर्हयंति स्ववंशजम्

॥३९॥

आनर्त उवाच

किमर्थं क्रियते श्राद्धममावास्यादिने द्विज ॥

विशेषेण ममाचक्ष्य विस्तरेण यथातथम्

॥४०॥

मृताश्च पुरुषा विप्र स्वकर्मजनितां गतिम् ॥

गच्छन्ति ते कथं तस्य सुतस्याश्रयमाययुः

॥४१॥

एष नः संशयो विप्र सुमहान्हृदि संस्थितः

॥४२॥

भर्तृयज्ञ उवाच

सत्यमेतन्महाभाग यत्त्वया व्याहृतं वचः ॥

स्वकर्मार्हां गतिं यांति मृताः सर्वत्र मानवाः

॥४३॥

परं यथा समायांति वंशजस्याश्रयं प्रति ॥

तथा तेऽहं प्रव क्ष्यामि न तथा संशयो भवेत्

॥४४॥

मृता यांति तथा राजन्येऽत्र केचिन्महीतले ॥

ते जायंते न मर्त्येऽत्र यावद्वंशस्य संस्थितिः

॥४५॥

परं शुभात्मका ये च ते तिष्ठंति सुरालये ॥

पापात्मानो नरा ये च वैवस्वतनिवासिनः

॥४६॥

अन्यदेहं समाश्रित्य भुंजानाः कर्मणः फलम् ॥

शुभं वा यदि वा पापं स्वयं विहितमात्मनः

॥४७॥

यमलोके स्थितानां हि स्वर्गस्थानामपि क्षुधा ॥

पिपासा च तथा राजंस्तेषां संजायतेऽधिका

॥४८॥

यावन्नरत्रयं राजन्मातृतः पितृतस्तथा ॥

तेषां च परतो ये च ते स्वकर्म शुभाशुभम् ॥

भुंजते क्षुत्पिपासा च न तेषां जायते क्व् चित्

॥४९॥

तत्रापि पतनं तस्मात्स्थानाद्भवति भूमिप ॥

वंशोच्छेदान्पुनः सर्वे निपतंति महीतले ॥

त्रुटद्रज्जुनिबद्धं हि भांडं यद्वन्निराश्रयम्

॥५०॥

एतस्मात्कारणाद्यत्नः सन्तानाय विचक्षणैः ॥

प्रकर्तव्यो मनुष्येंद्र वंशस्य स्थितये सदा

॥५१॥

अपि द्वादशधा राजन्नौरसादिसमु द्भवाः ॥

तेषामेकतमोऽप्यत्र न दैवाज्जायते सुतः

॥५२॥

पितॄणां गुप्तये तेन स्थाप्योऽश्वत्थः समाधिना ॥

पुत्रवत्परिपाल्यश्च निर्विशेषं नराधिप

॥५३॥

यावत्संधारयेद्भूमिस्तमश्वत्थं नराधिप ॥

कृतोद्वाहं समं शम्या तावद्वंशोऽपि तिष्ठति

॥५४॥

अश्वत्थजनका मर्त्या निपत्य जगती तले ॥

पापामुक्ताः समायांति योनिं श्रेष्ठां शुभान्विताः

॥५५॥

एतस्मात्कारणादन्नं नित्यं देयं तथोदकम् ॥

समुद्दिश्य पितॄन्राजन्यतस्ते तन्मयाः स्मृताः

॥५६॥

अदत्त्वा सलिलं सस्यं पितॄणां यो नराधिप ॥

स्वयमश्नाति वा तोयं पिवेत्स स्यात्पितृद्रुहः ॥

स्वर्गेऽपि च न ते तोयं लभंते नान्नमेव च

॥५७॥

न दत्तं वंशजैर्मर्त्यैश्चेद्व्यथां यांति दारुणाम् ॥

क्षुत्पिपासासमुद्भूतां तस्मात्संतर्पयेत्पितॄन्

॥५८॥

नित्यं शक्त्या नरो राजन्पयोऽन्नैश्च पृथग्विधैः ॥

तथान्यैर्वस्त्रनैवेद्यैः पुष्पगन्धानुलेपनैः

॥५९॥

पितृमेधादिभिः पुण्यैः श्राद्धैरुच्चावचैरपि ॥

तर्पितास्ते प्रयच्छंति कामानिष्टान्हृदि स्थितान् ॥

त्रिवर्गं च महाराज पितरः श्राद्धतर्पिताः

॥६०॥

तर्पयंति न ये पापाः स्वपितॄन्नित्यशो नृप ॥

पशवस्ते सदा ज्ञेया द्विपदाः शृंगवर्जिताः

॥६१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धावश्यकताकारणवर्णनंनाम पञ्चदशोत्तरद्विशततमो ऽध्यायः ॥ २१५ ॥