मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २१०

3
नागरखण्डः · 210

तांबूलमाहात्म्यवर्णनम्

विश्वामित्र उवाच

तच्छ्रुत्वा वचनं तस्य देवर्षेर्नारदस्य च ॥

सिद्धसेनो महीपालः प्राप्य तं योगमुत्तमम्

॥१॥

माधवे मासि संप्राप्ते अष्टम्यां सूर्यवासरे ॥

सूर्योदये तु संप्राप्ते यावत्स्नात्वाऽर्चयेद्रविम्

॥२॥

तावत्कुष्ठविनिर्मुक्तः सहसा समपद्यत ॥

ततो दिव्यवपुर्भूत्वा सन्तोषं परमं गतः

॥३॥

प्रायश्चित्तं ततश्चक्रे तांबूलस्य च भक्षणम् ॥

अज्ञानेन कृतं यच्च चूर्णपत्रसमन्वितम्

॥४॥

ततश्च परमां लक्ष्मीं संप्राप्तः स महीपतिः ॥

पितृपैतामहं राज्यं स प्रचक्रे यथा पुरा

॥५॥

एतत्ते सर्वमाख्यातं शंखतीर्थसमुद्भवम् ॥

माहात्म्यं पार्थिवश्रेष्ठ किं भूयः श्रोतुमि च्छसि

॥६॥

आनर्त उवाच

अत्याश्चर्यमिदं ब्रह्मन्यत्त्वया परिकीर्तितम् ॥

यल्लक्ष्मीस्तस्य सन्नष्टा चूर्णपत्रस्य भक्षणात्

॥७॥

कीदृक्तेन कृतं तस्य प्रायश्चित्तं विशुद्धय्रे ॥

कीदृक्तेन कृतं तच्च निजराज्यं यथा पुरा

॥८॥

विश्वामित्र उवाच

एषा पुण्यतमा मेध्या नागवल्ली नराधिप ॥

अयथावत्कृता वक्त्रे बहून्दोषान्प्रयच्छति ॥

तस्माद्यत्नेन संभक्ष्या दत्त्वा चैव स्वशक्तितः

॥९॥

आनर्त उवाच

नागवल्ली कथं जाता कस्माद्दोषो महान्स्मृतः ॥

अयथावद्भक्षणाच्च तन्मे वक्तुमिहार्हसि

॥१०॥

विश्वामित्र उवाच

प्रश्नभारो महानेष त्वया मे परिकीर्तितः ॥

तथापि च वदिष्यामि यदि ते कौतुकं नृप ॥

यस्मात्सञ्जायते दोषश्चूर्णपत्रस्य भक्षणात्

॥११॥

अमृतार्थं पुरा देवैर्मथितः कलशोदधिः ॥

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्

॥१२॥

मुखदेशे बलिर्लग्नः पुच्छदेशेऽखिलाः सुराः ॥

वासुदेवमतेनैव सन्दधाराथ कच्छपः

॥१३॥

मन्दरे भ्रममाणे तु प्रागेव नृपसत्तम ॥

आनर्त सहसा जातं रत्नत्रितयमेव च

॥१४॥

नीलांबरधरः कृष्णः पुरुषो वक्रनासिकः ॥

कृष्णदन्तः स्थूलशिरा दीर्घग्रीवो महोदरः ॥

शूर्पाकारांघ्रिरेवाऽसौ चिपिटाक्षो भयावहः

॥१५॥

तथा तद्रूपिणी तस्य कुभार्या राक्षसी यथा ॥

शिशुनांगुलिलग्नेन गर्भश्रमपरायणा

॥१६॥

ततो देवगणाः सर्वे दानवाश्च विशेषतः ॥

मन्थानं तत्परित्यज्य तान्ग्रहीतुं प्रधाविताः

॥१७॥

अथ तान्विकृतान्दृष्ट्वा सर्वे शंकासमन्विताः ॥

जगृहुर्नैव राजेंद्र जहसुश्च परस्परम्

॥१८॥

अथोवाच बलिर्दैत्यः कृतांजलिपुटः स्थितः ॥

ब्रह्माऽऽदि यल्लभेत्सर्वं यत्पुरस्तात्प्रजायते

॥१९॥

रत्नत्रितयमेतद्धि तस्माद्गृह्णातु पद्मजः ॥

येन सिद्धिर्भवेदस्मिन्मन्थने कस्य चाऽर्पणात्

॥२०॥

तद्वाक्यं विष्णुना तस्य शंसितं शंकरेण तु ॥

इंद्राद्यैश्च सुरैः सर्वैर्दानवैश्च विशेषतः २१ ॥

एतस्मिन्नंतरे ब्रह्मा जग्राह त्रितयं च तत् ॥

दाक्षिण्यात्सर्वदेवानामनिच्छन्नपि पार्थिव ॥

ममन्थुः सागरं राजन्पुनस्ते यत्नमाश्रिताः

॥२२॥

ततश्च वारुणी जाता दिव्यगन्धसमन्विता ॥

बलिना संगृहीता सा प्रत्यक्षं बलविद्विषः

॥२३॥

आवर्ते चापरे जाते निष्क्रांतः कौस्तुभो मणिः ॥

स गृहीतो महाराज विष्णुना प्रभविष्णुना

॥२४॥

अथापरे स्थिते तत्र महावर्ते निशापतिः ॥

सञ्जातः स वृषांकेन संगृहीतश्च तत्क्षणात्

॥२५॥

पारिजातस्ततो जातो दिव्यगन्धसमन्वितः ॥

स गृहीत्वा सुरैः सर्वैः स्थापितो नंदने वने

॥२६॥

तस्यानंतरमेवाथ सुरभी वत्ससंयुता ॥

निष्क्रांता व्योममार्गेण गोलोकं समवस्थिता

॥२७॥

ततो धन्वंतरिर्जातो बिभ्रद्धस्ते कमंडलुम् ॥

संपूर्णममृतेनैव स देवैर्दानवैनृप

॥२८॥

गृहीतो युगपत्क्रुद्धैः परस्परजिगीषया ॥

देवानां हस्तगो वैद्यो दैत्यानां च कमण्डलुः

॥२९॥

ततस्तं लोभसंयुक्ता ममंथुः सागरं नृप ॥

पद्महस्तात्र संजाता ततो लक्ष्मीः सितांबरा

॥३०॥

स्वयमेव वृतो विष्णुस्तया पार्थिवसत्तम ॥

मथ्यमाने ततोतीव समुद्रे देवदानवैः

॥३१॥

कालकूटं समुत्पन्नं येन सर्वे सुरासुराः ॥

संप्राप्ताः परमं कष्टं प्रभग्नाश्च दिशो दश

॥३२॥

तं दृष्ट्वा भगवाञ्छंभुस्तीव्रं तीवपराक्रमः ॥

भक्षयामास राजेंद्र नीलकण्ठस्ततोऽभवत्

॥३३॥

अथ संत्यज्य मंथानं मंदरं वासुकिं तथा ॥

अमृतार्थेऽभवद्युद्धं दैत्यानां विबुधैः सह

॥३४॥

अथ स्त्रीरूपमाधाय विष्णुर्दैत्यानुवाच तान् ॥

ततो हृष्टो बलिस्तस्यै दत्त्वा पीयूषमेव तत्

॥३५॥

विश्वासं परमं गत्वा युद्धं चक्रे सुरैः सह ॥

ततो विष्णुः परित्यज्य स्त्रीरूपं पुरुषाकृतिः

॥३६॥

तदेवामृतमादाय ययौ यत्र दिवौकसः ॥

अब्रवीत्तान्सुहृष्टात्मा पिवध्वममृतं सुराः

॥३७॥

येनामरत्वमासाद्य व्यापादयत दानवान् ॥

ते तथेति प्रतिज्ञाय पपुः पीयूषमुत्तमम्

॥३८॥

अमराश्च ततो जाता जघ्नुः संख्ये महासुरान्

॥३९॥

तेषां पानविधौ तत्र वर्तमाने महीपते ॥

राहुर्विबुधरूपेण पपौ पीयूषमुत्सुकः

॥४०॥

स लक्षितो महादैत्यश्चंद्रार्काभ्यां च तत्क्षणात् ॥

निवेदितो हरे राजन्नायं देवो महासुरः

॥४१॥

तच्छ्रुत्वा वासुदेवेन तस्य चक्रं सुदर्शनम् ॥

वधाय पार्थिवश्रेष्ठ मुक्तं वज्रसमप्रभम्

॥४२॥

यावन्मात्रं शरीरं तत्तस्य व्याप्तं महीपते ॥

अमृतेन ततः कृत्तममोघेनापि तच्छिरः

॥४३॥

ततोऽमरत्वमापन्नः स यावत्सिंहिकासुतः ॥

तावत्प्रोक्तोऽच्युतेनाथ साम्ना परमवल्गुना

॥४४॥

त्यज दैत्यान्महाभाग देवानां संमतो भव ॥

संप्राप्स्यसि परां पूजां सदा त्वं ग्रहमंडले

॥४५॥

स तथेति प्रतिज्ञाय त्यक्त्वा तान्दैत्यसत्तमान् ॥

पूजां प्राप्नोति मर्त्यानां संस्थितो ग्रहमण्डले

॥४६॥

एतस्मिन्नंतरे दैत्या निर्जिताः सुरसत्तमैः ॥

दिशो जग्मुः परित्रस्ताः केचिन्मृत्युमुपागताः

॥४७॥

पीतशेषं च पीयूषं स्थापितं नन्दने वने ॥

नागराजस्य यत्रैव स्थितमालानमेव च

॥४८॥

अहर्निशं मदस्रावी करींद्रः सोऽपि संस्थितः ॥

तत्प्रभावैः प्रभिन्नः स पीयूषस्य कमंडलुः

॥४९॥

ततो वल्ली समुत्पन्ना तस्माच्चैव कमण्डलोः ॥

तत्रालानसमारूढा वृद्धिं च परमां गता

॥५०॥

तदुद्भवानि पत्राणि गृहीत्वा सुरसत्तमाः ॥

अपूर्वाणि सुगंधीनि मत्वा ते भक्षयंति च

॥५१॥

वक्त्रशुद्धिकृते राजन्विशेषेण प्रहर्षिताः

॥५२॥

अथ धन्वतरिर्वैद्यः स्वबुद्ध्या पृथिवीपते ॥

नागालाने यतो जाता नागवल्ली भविष्यति

॥५३॥

सदा स्मरस्य संस्थानं मम वाक्याद्भविष्यति ॥

नागवल्लीति वै नाम तस्याश्चक्रे ततः परम्

॥५४॥

संयोगं च चकाराथ तांबूलं जायते यथा ॥

पूगीफलेन चूर्णेन खदिरेणापि पार्थिव

॥५५॥

कस्यचित्त्वथ कालस्य वाणीवत्सरको नृपः ॥

प्रतोषं नीतवाञ्छक्रं तपसा निर्मलेन च

॥५६॥

ततस्तत्तपसा तुष्ट इन्द्रो वचनमब्रवीत्

॥५७॥

इन्द्र उवाच

भोभोः पार्थिव तुष्टोऽस्मि तपसाऽनेन सांप्रतम् ॥

ब्रूहि यत्ते वरं दद्मि मनसा वांछितं सदा

॥५८॥

सोऽब्रवीद्यदि मे तुष्टो यदि देयो वरो मम ॥

विमानं खेचरं देहि येनागच्छामि ते गृहे ॥

नित्यमेव धरापृष्ठाद्वंदनार्थं तव प्रभो

॥५९॥

स तथेति प्रतिज्ञाय हंसबर्हिणनादितम् ॥

विमानं प्रददौ तस्मै मनोमारुतवेगधृक्

॥६०॥

स तत्र नित्यमारुह्य प्रयाति त्रिदशालयम् ॥

भक्त्या परमया युक्तः सहस्राक्षं प्रवंदितुम्

॥६१॥

तस्य शक्रः स्वहस्तेन तांबूलं च प्रयच्छति ॥

स च तद्भक्षयामास प्रहृष्टेनांतरात्मना

॥६२॥

वृद्धभावेऽपि संप्राप्ते तस्य कामोऽत्यवर्द्धत ॥

तांबूलस्य प्रभावेन सुमहान्पृथिवीपते

॥६३॥

अथ शक्रमुवाचेदं स राजा विनयान्वितः ॥

नागवल्लीप्रदानेन प्रसादो मे विधीयताम्

॥६४॥

मर्त्यलोके समानेतुं प्रचारं येन गच्छति ॥

स तथेति प्रतिज्ञाय तस्मै तां प्रददौ तदा

॥६५॥

गत्वा निजपुरं सोपि स्वोद्यानेऽस्थापयत्तदा ॥

ततः कालेन महता प्रचारं सा गता क्षितौ

॥६६॥

यस्याः स्वादनतो लोकः कामात्मा समपद्यत ॥

न कश्चिद्यजनं चक्रे याजनं च विशेषतः ॥

अन्या धर्मक्रियाः सर्वाः प्रणष्टा धर्मसंभवाः

॥६७॥

ततो देवगणाः सर्वे यज्ञभागविवर्जिताः ॥

पीड्यमानाः क्रुधा विष्टा गत्वा प्रोचुः पितामहम्

॥६८॥

मर्त्यलोके सुरश्रेष्ठ नष्टा धर्मक्रिया भृशम् ॥

कामासक्तो यतो लोकस्तांबूलस्य च भक्षणात् ॥

तस्मात्कुरु प्रसादं नो येनास्माकं क्रिया भवेत्

॥६९॥

एतस्मिन्नेव काले तु पुष्करस्थं पितामहम् ॥

यजनार्थे समायातं दरिद्रो वीक्ष्य पार्थिव

॥७०॥

प्रणिपत्य ततः प्राह विनयावनतः स्थितः ॥

निर्विण्णोऽहं सुरश्रेष्ठ ब्राह्मणानां गृहे स्थितः

॥७१॥

तस्मात्कीर्तय मे स्थानं श्रेष्ठं वित्तवतां हि यत् ॥

तत्र सञ्जायते तृप्तिः शाश्वती प्रचुरा प्रभो

॥७२॥

तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा पितामहः ॥

अब्रवीच्च दरिद्रं तं छिद्रार्थं धनिना मिह

॥७३॥

चूर्णपत्रे त्वया वासः सदा कार्यो दरिद्र भोः ॥

तांबूलस्य तु पर्णाग्रे भार्यया मम वाक्यतः

॥७४॥

पर्णानां चैव वृंतेषु सर्वेषु त्वत्सुतेन च ॥

रात्रौ खदिरसारे च त्वं ताभ्यां सर्वदा वस

॥७५॥

धनिनां छिद्रकृत्प्रोक्तमेतत्स्थानचतुष्टयम् ॥

पार्थिवानां विशेषेण मम वाक्या द्व्रज द्रुतम्

॥७६॥

नारद उवाच

एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप

॥७७॥

तांबूलोत्थानि छिद्राणि यथा स्युर्धनिनामिह ॥

तानि सर्वाणि चीर्णानि त्वया राजन्नजानता ॥

तेन वै विभवोच्छित्तिः संजाता सहसा नृप

॥७८॥

राजोवाच

तदर्थमपि मे ब्रूहि प्रायश्चित्तं मुनीश्वर ॥

कदाचिद्भक्षणं मे स्यात्तांबूलस्य तथाविधम्

॥७९॥

येन सञ्जायते शुद्धिः कुतांबूलसमुद्भवा

॥८०॥

विश्वा मित्र उवाच

शृणु राजन्प्रवक्ष्यामि प्रायश्चित्तं तु यच्चरेत् ॥

आश्वासनेन शुद्ध्यर्थं कुतांबूलस्य भक्षणात्

॥८१॥

पर्वकालं समुद्दिश्य सम्यक्छ्रद्धासमन्वितः ॥

आनयेद्ब्राह्मणं राजन्वेदवेदांगपारगम्

॥८२॥

प्रक्षाल्य चरणौ तस्य वाससी परिधापयेत् ॥

संपूज्य गंधपुष्पाद्यैस्ततः पत्रं हिरण्मयम् ॥

स्वशक्त्या कारयित्वाऽथ चूर्णे मुक्ताफलं न्यसेत्

॥८३॥

पूगीफलं च वैडूर्यं खदिरं रूप्यमेव च ॥

मन्त्रेणानेन विप्राय तथैव च समर्पयेत्

॥८४॥

यन्मया भक्षितं पूर्वं वृन्तं पत्रसमुद्भवम् ॥

चूर्णपत्रं तथैवान्यद्रात्रौ खदिरमेव च

॥८५॥

तस्य पापस्य शुद्ध्यर्थं तांबूलं प्रतिगृह्यताम् ॥

ततस्तु ब्राह्मणो मंत्रमेवं राजन्नुदाहरेत्

॥८६॥

यजमानहितार्थाय सर्वपापविशुद्धये ॥

अज्ञानाज्ज्ञानतो वापि कुतांबूलं प्रभक्षितम्

॥८७॥

भक्षयिष्यसि यच्चान्यत्कदाचिन्मे प्रसादनात् ॥

तस्य दोषो न ते भावी मम वाक्यादसंशयम्

॥८८॥

अनेन विधिना दत्त्वा तांबूलं शुद्धिमाप्नुयात् ॥

कुतांबूलस्य दोषेण गृह्यते न नरो नृप

॥८९॥

तस्मात्त्वं हि महाराज व्रतमेतत्समाचर ॥

बहु पुण्यतमं ह्येतन्महाभोगविवर्द्धनम्

॥९०॥

यः प्रयच्छति राजेन्द्र विधिनानेन भक्तितः ॥

जन्मजन्मान्तरे वापि न तांबूलेन मुच्यते

॥९१॥

तांबूलं भक्षयित्वा यो नैतद्दानं प्रयच्छति ॥

तांबूलवर्जितः सोऽत्र भवेज्जन्मनिजन्मनि

॥९२॥

तांबूलवर्जितं यस्य मुखं स्यात्पृथिवीपते ॥

कृपणस्य दरिद्रस्य तद्बिलं न हि तन्मुखम्

॥९३॥

तांबूलं ब्राह्मणेन्द्राय यो दत्त्वा प्राक्प्रभक्षयेत् ॥

सुरूपो भाग्यवान्दक्षो भवेज्जन्मनिजन्मनि

॥९४॥

एतत्ते सर्वमाख्यातं कुतांबूलस्य भक्षणात् ॥

यत्फलं जायते पुंसां यद्दानेन महीपते

॥९५॥

शंखादित्यानुषंगेण तांबूलस्य च भक्षणे ॥

ये दोषा ये गुणा राजन्दानं चैव प्रभक्षणे

॥९६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये तांबूलोत्पत्ति तांबूलमाहात्म्यवर्णनंनाम दशोत्तरद्विशततमोऽध्यायः ॥ २१० ॥