मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ८८

3
नागरखण्डः · 88

यास्त्वया देवताः प्रोक्ताश्चतस्रः सूतनंदन

ऋषय ऊचुः

यास्त्वया देवताः प्रोक्ताश्चतस्रः सूतनंदन ॥

चमत्कारी महित्था च महालक्ष्मीस्तथाऽपरा

॥१॥

अंबावृद्धा चतुर्थी च तासां तिस्रः प्रकीर्तिताः ॥

विस्तरेण चतुर्थी च अंबावृद्धा न कीर्तिता

॥२॥

एतस्याः सर्वमाचक्ष्व प्रभावं सूतसंभव ॥

केनैषा निर्मिता यात्रा सर्वं विस्तरतो वद

॥३॥

सूत उवाच

एषा तपोमयी शक्तिरम्बावृद्धा सुरेश्वरी ॥

यथात्र संस्थिता पूर्वं तत्सर्वं श्रूयतां मम

॥४॥

चमत्कारमहीपेन पुरमेतद्यदा कृतम् ॥

तदा तद्रक्षणार्थाय निर्मिता भावितात्मना ॥

चतस्रो देवता ह्येताः संमतेन द्विजन्मनाम्

॥५॥

अथ तस्य महीपस्य अंबानामाभवत्सुता ॥

तथान्या वृद्धसंज्ञा च रूपौदार्यगुणान्विते

॥६॥

उभे ते काशिराजेन परिणीते द्विजोत्तमाः ॥

गृह्योक्तेन विधानेन देवविप्राग्निसंनिधौ

॥७॥

कस्यचित्त्वथ कालस्य काशिराजस्य भूपतेः ॥

तैः कालयवनैः सार्धमभवत्संगरो महान्

॥८॥

अथ तैर्निहतः संख्ये सभृत्यबलवाहनः ॥

हरलब्धवरै रौद्रैः काशिराजः प्रतापवान्

॥९॥

अथांबा चैव वृद्धा च वैधव्यं प्राप्य दुःखदम् ॥

हाटकेश्वरजं क्षेत्रं गत्वा ते वांछितप्रदम्

॥१०॥

देव्या आराधने यत्नं कृतवत्यौ ततः परम् ॥

नाशार्थं पतिशत्रूणां धृतवत्यौ शुभव्रतम्

॥११॥

यावद्वर्षशतं साग्रं न च तुष्टा सुरेश्वरी ॥

ततो वैराग्यमासाद्य वांछंत्यौ स्वतनुक्षयम्

॥१२॥

मंत्रैराथर्वणैर्विप्राः क्षुरिकासूक्तसंभवैः ॥

छित्त्वाच्छित्त्वा स्वमांसानि मंत्रपूतानि भक्तितः

॥१३॥

कृतवत्यौ ततो होमं सुसमिद्धे हुताशने ॥

अग्निकुण्डात्ततस्तस्माश्चतुर्हस्ता शुभानना

॥१४॥

श्वेतवस्त्रा विनिष्क्रांता नारी बालार्कसव्रिभा ॥

तथान्या च सुनेत्रास्या तप्तहाटकसन्निभा

॥१५॥

तस्मात्कुण्डाद्विनिष्क्रांता धृतखड्गा भयावहा ॥

साऽपरापि तथारूपा शक्तिः परमदारुणा

॥१६॥

प्रोचतुस्ते वरं हृत्स्थं प्रार्थ्यतामिति दुर्लभम्

॥१७॥

ते ऊचतुः

अस्माकं दयितो भर्त्ता काशिराजः प्रतापवान् ॥

निहतः संगरे क्रुद्धैर्यवनैः कालपूर्वकैः

॥१८॥

युष्मदीय प्रसादेन यथा तेषां परिक्षयः ॥

सञ्जायते महादेव्यौ तथा कार्यमसंशयम्

॥१९॥

स्थातव्यं च तथात्रैव उभाभ्यामपि सादरम् ॥

स्वपुरस्य प्ररक्षार्थमेतत्कृत्यं मतं हि नौ

॥२०॥

तयोस्तद्वचनं श्रुत्वा उभे ते देवते ततः ॥

संप्रोच्य बाढमित्येवं तस्मिन्कुण्डे व्यवस्थिते

॥२१॥

एतस्मिन्नंतरे तस्मात्कुण्डाच्छतसहस्रशः ॥

निष्क्रांताः संख्यया हीना मातरो नैकरूपिकाः

॥२२॥

एका गजमुखी तत्र तथान्या तुरगानना ॥

सारमेय मुखाश्चान्याः पक्षिच्छागमुखाः पराः

॥२३॥

तिर्यञ्च वपुषश्चान्या वक्त्रैर्मानुषसंभवैः ॥

त्रिशीर्षाः पञ्चशीर्षाश्च दशशीर्षास्तथा पराः

॥२४॥

गुह्य स्थानस्थितैर्वक्त्रैरेकाश्चान्या हृदिस्थितैः ॥

पार्श्वसंस्थैः स्थिताश्चान्या अन्याः पृष्ठिगतैर्मुखैः

॥२५॥

एकहस्ता द्विहस्ताश्च पञ्चहस्तास्तथापराः ॥

अन्या विंशतिहस्ताश्च विहस्ताश्च तथापराः

॥२६॥

बहुपादा विपादाश्च एकपादास्तथापराः ॥

तथान्याश्चार्धपादाश्च अधोवक्त्रा विभीषणाः

॥२७॥

एकनेत्रा द्विनेत्राश्च त्रिनेत्राश्च तथापराः ॥

काश्चिद्गजसमारूढा हयारूढास्तथापराः

॥२८॥

वृषवानरसिंहाजव्याघ्रसर्पास्थिताः पराः ॥

गोधाश्वरासभारूढास्तथा च विहगाश्रिताः

॥२९॥

कूर्मकुक्कुटसर्पादिसमारूढाः सहस्रशः ॥

प्रकुर्वंत्यो रुदन्त्यश्च गायन्त्यश्च तथा पराः ॥

नृत्यंत्यश्च हसंत्यश्च क्रीडासक्ताः परस्परम्

॥३०॥

ऊर्ध्वकेशा विकेशाश्च गात्रकेशाश्च भूरिशः ॥

लंबकेशा विकेशाश्च वाजिकेशास्तथैव च

॥३॥

ह्रस्वदन्त्यो विदंत्यश्च दीर्घदन्त्यो विभीषणाः ॥

गजदंत्यस्तथैवान्या लोहदंत्योभयावहाः

॥३२॥

लंबकर्ण्यो विकर्ण्यश्च शूर्पकर्ण्यस्तथा पराः ॥

शंकुकर्ण्यः कुकर्ण्यश्च बहुकर्ण्यः सुकर्णिकाः

॥३३॥

एकवस्त्रा विवस्त्राश्च बहुवस्त्रास्तथा पराः ॥

चर्मप्रावरणाश्चैव कथाप्रावरणान्विताः

॥३४॥

खङ्गहस्ताः शराहस्ताः कुंतहस्ताश्च भीषणाः ॥

पाशहस्तास्तथैवान्याः प्रासचापकराः पराः ॥

शूलमुद्गरहस्ताश्च भुशुंडिकरभूषिताः

॥३५॥

अथ ताभ्यां तथाऽऽकर्ण्य ताः सर्वा हर्षसंयुताः ॥

प्रस्थितास्तत्र ता यत्र ते कालयवनाः स्थिताः

॥३६॥

ततस्ते तत्समालोक्य बलं देवीसमुद्रवम् ॥

रौद्र रूपधरं तीव्रं विकृतं विकृतैर्मुखैः

॥३७॥

विषण्णवदनाः सर्वे भयभीता समंततः ॥

धावतो भक्षितास्ताभिर्देवताभिः सुनिर्दयम्

॥३८॥

बालवृद्धसमोपेतं तेषां राष्ट्रं दुरात्मनाम् ॥

स्त्रीभिश्च सहितं ताभिर्देवताभिः प्रभक्षितम्

॥३९॥

एवं निर्वास्य तद्राष्ट्रं सर्वास्ता हर्षसंयुताः ॥

भूय एव निजं स्थानं संप्राप्ता द्विजसत्तमाः

॥४०॥

ततः प्रोचुः प्रणम्योच्चैस्ताभ्यां विनयपूर्वकम् ॥

हतास्ते यवनाः कृष्णाः सपुत्रपशुबांधवाः

॥४॥

उद्वासितस्तथा सर्वो देशस्तेषां स वै महान् ॥

सांप्रतं दीयतां कश्चिदाहारस्तृप्तिहेतवे ॥

निवासाय ततः स्थानं किंचिच्चावेद्यतां हि नः

॥४२॥

देव्यावूचतुः

मर्त्यलोकेऽत्र या नार्यो गर्भवत्यः स्वपंति च ॥

संध्याकालप्रकाशे च तासां गर्भोऽस्तु वो द्रुतम्

॥४३॥

रुदंत्यो या विनिर्यांति चत्वरेषु त्रिकेषु च ॥

तासां गर्भस्तु युष्माकं संप्रदत्तः प्रभुज्यताम्

॥४४॥

उच्छिष्टा याः प्रसर्पंति रमन्ते च स्वपंति च ॥

तासां गर्भः समस्तानां युष्माकं भोज नाय वै

॥४५॥

सूतिकाभवने यस्मिन्नुच्छिष्टं चोपजायते ॥

स बालकस्तु युष्माकं भोजनाय प्रकल्पितः

॥४६॥

न षष्ठीजागरो यस्य बालकस्य भविष्यति ॥

स भविष्यति भोज्याय युष्माकं नात्र संशयः

॥४७॥

नाशं यास्यति वा यत्र पावकः सूतिकागृहे ॥

स भविष्यति भोज्याय युष्माकं बालरूपधृक्

॥४८॥

मांगल्यैः संपरित्यक्तं यद्भवेत्सूतिकागृहम् ॥

तस्मिन्यस्तिष्ठते बालः स युष्माकं प्रकल्पितः

॥४९॥

संध्यायां बालका ये वा स्वपंत्याकाशदेशगाः ॥

ते सर्वे भोजनार्थाय युष्माकं संनिवेदिताः

॥५०॥

यस्य जन्मदिने प्राप्ते वर्षांते क्रियते न च ॥

मांगल्यं तस्य यद्गात्रं तद्युष्माकं प्रकल्पितम्

॥५१॥

तैलाभ्यंगं नरः कृत्वा यश्च स्नानं करोति न ॥

स दत्तो भोजनार्थाय युष्माकं नात्र संशयः

॥५२॥

उच्छिष्टो यः पुमांस्तिष्ठेद्यो वा चत्वरमध्यगः ॥

भक्षणीयः स सर्वाभिर्निर्विकल्पेन चेतसा

॥५३॥

रजस्वलां व्रजेद्यो वा पुरुषः काममोहितः ॥

नग्नः शेते तथा स्नाति भक्षणीयः स सत्वरम्

॥५४॥

दक्षिणाभिमुखो रात्रौ यश्च स्नाति विमूढधीः ॥

शेते च शयने सोऽपि भक्षणीयश्च सत्वरम्

॥५५॥

उदङ्मुखश्च यो रात्रौ दिवा वा दक्षिणामुखः ॥

मूत्रोत्सर्गं पुरीष वा प्रकुर्याद्भक्ष्य एव सः

॥५६॥

यः कुर्याद्रजनीवक्त्रे दधिसक्तुप्रभक्षणम् ॥

अंत्यजाभिगमं चाथ भक्षणीयो द्रुतं हि सः

॥५७॥

सूत उवाच

एवं ताभ्यां तदा प्रोक्ता देवतास्ताः समंततः ॥

परिवार्य तदा तस्थुः संप्रहृष्टेन चेतसा

॥५८॥

एतस्मिन्नंतरे राजा चमत्कारः प्रतापवान् ॥

प्रासादं निर्ममे ताभ्यां कैलासशिखरोपमम्

॥५९॥

ततः प्रभृति ते ख्याते क्षेत्रे तत्र महोदये ॥

अंबावृद्धाभिधाने च पुररक्षापरे सदा

॥६०॥

यः पुमान्प्रातरुत्थाय ताभ्यां पश्यति चाननम् ॥

तस्य संवत्सरंयावन्न च च्छिद्रं प्रजायते

॥६१॥

वृद्ध्यादौ वाथ चांते वा ताभ्यां पूजां करोति यः ॥

न तस्य जायते च्छिद्रं कथंचिदपि भूतले

॥६२॥

यात्राकाले पुमान्यश्च ताभ्यां पूजां समाचरेत् ॥

स वांछितफलं प्राप्य शीघ्रं स्वगृहमाप्नुयात्

॥६३॥

सदाष्टम्यां चतुर्दश्यां यस्ताभ्यां बलिमाहरेत् ॥

स कामानाप्नुयादिष्टानिह प्रेत्य च सद्गतिम्

॥६४॥

यो महानवमीसंज्ञे दिवसे श्रद्धयान्वितः ॥

ताभ्यां समाचरेत्पूजां स सदा स्यादकण्टकी

॥६५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येंऽबावृद्धामाहात्म्यवर्णनंनामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥