मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १०६

3
नागरखण्डः · 106

लुप्ततीर्थमाहात्म्यकथनम्

ऋषय ऊचुः

भूपृष्ठे पांसुभिस्तस्मिन्प्रेतैस्तैः परिपूरिते ॥

यानि तीर्थानि लुप्तानि लिङ्गानि च वदस्व नः

॥१॥

सूत उवाच

असंख्यातानि तीर्थानि तथा लिंगानि च द्विजाः ॥

लोपं गतानि वक्ष्यामि प्राधान्येन प्रबोधत

॥२॥

तत्र लोपं गतं तीर्थं चक्रतीर्थमिति स्मृतम् ॥

यत्र चक्रं पुरा न्यस्तं विष्णुना प्रभविष्णुना

॥३॥

मातृतीर्थं तथैवान्यत्सर्वकामप्रदं नृणाम् ॥

यत्र ता मातरो दिव्याः कार्तिकेयप्रतिष्ठिताः

॥४॥

मुचुकुन्दस्य राजर्षेस्तथान्यल्लिंग मुत्तमम् ॥

तत्र लोपं गतं विप्राः सगरस्य तु भूपतेः

॥५॥

इक्ष्वाकोर्वसुषेणस्य ककुत्स्थस्य महात्मनः ॥

ऐलस्य चन्द्रदेवस्य काशिराजस्य सन्मतेः

॥६॥

अग्निवेशस्य रैभ्यस्य च्यवनस्य भृगोस्तथा ॥

आश्रमो याज्ञवल्क्यस्य तत्र लोपं समाययौ

॥७॥

हारीतस्य महर्षेश्च हर्यश्वस्य महात्मनः ॥

कुत्सस्य च वसिष्ठस्य नारदस्य त्रितस्य च

॥८॥

तथैव ऋषिपत्नीनां तत्र लिंगानि भूरिशः ॥

कात्यायन्याश्च शांडिल्या मैत्रेय्याश्च तथा पुरा

॥९॥

अन्यासां मुनिपत्नीनां यासां संख्या न विद्यते ॥

तत्राश्चर्यमभूदन्यत्पूर्यमाणे महीतले

॥१०॥

पांसुभी राक्षसैर्यैस्तैः प्रेतैर्ब्राह्मणसत्तमाः ॥

तद्वोऽहं संप्रवक्ष्यामि श्रोतव्यं सुसमाहितैः

॥१०॥

दृष्ट्वा पांसुमयीं वृष्टिं मुक्तां प्रेतैः समंततः ॥

मातृवर्गेण तेनाथ प्रमुक्तः प्रचुरोऽनिलः

॥११॥

तेन पांसुकृता वृष्टिः समंतान्मथिता बहिः ।

तस्या भूमेः पतत्येव न किंचित्तत्र पूर्यते

॥१३॥

ततस्ते व्यंतराः खिन्ना निराशास्तस्य पूरणे ॥

भूतास्तस्य पुरो गत्वा चुक्रुशुः कुशभूपतेः

॥१४॥

अस्माभिर्विहिता तत्र पांसुवृष्टिर्महीपते ॥

नीयते शतधाऽन्यत्र मातृमुक्तेन वायुना

॥१९॥

स त्वं तासां विघातार्थमुपायं भूप चिंतय ॥

येन तां पांसुभिर्भूमिं पूरयामः समंततः

॥१६॥

तेषां तद्वचनं श्रुत्वा ततः कुशमहीपतिः ॥

रुद्रमाराधयामास तत्क्षेत्रं प्राप्य सद्द्विजाः

॥१७॥

ततस्तस्य गतस्तुष्टिं वर्षांते भगवान्हरः ॥

प्रोवाच प्रार्थयाभीष्टं यत्ते मनसि वांछितम्

॥१९८॥

कुश उवाच

यथा संपूर्यते चाशु पांसुभिर्भूमिमंडलम् ॥

एतत्प्रेतप्रमुक्तैश्च प्रसादात्ते तथा कुरु

॥१९॥

मया प्रेतगणादेव निर्दिष्टास्तस्य पूरणे ॥

मातृसंरक्ष्यमाणं तच्छक्यं चैतन्न पूरितुम्

॥२०॥

तत्र राक्षसजैर्मंत्रैः संति लिंगानि च प्रभो ॥

प्रतिष्ठितानि तत्स्पर्शाद्दर्शनात्स्याज्जनक्षयः

॥२१॥

अचलत्वात्तथा देव लिंगानां शास्त्रसद्भयात् ॥

अन्यदुत्पाटनाद्यं च नैव कुर्मः कथंचन

॥२२॥

तस्माल्लिंगकृतो नाशो ब्राह्मणानां तपस्विनाम् ॥

यथा न स्यात्सुरश्रेष्ठ तथा नीतिर्विधीयताम्

॥२३॥

ततश्च भगवान्रुद्रस्ताः समाहूय मातरः ॥

प्रोवाच त्यज्यतां स्थानं भवत्यो यत्र संस्थिताः

॥२४॥

तत्र पांसुभिरव्यग्राः करिष्यंति दिवानिशम् ॥

प्रेताः कुशसमादेशाद्वृष्टिं लोकहिताय च

॥२५॥

मातर ऊचुः

त्यक्ष्यामश्च तवादेशात्तत्स्थानं वृषभध्वज ॥

परं दर्शय चास्माकं किंचिदन्यत्तथाविधम्

॥२६॥

क्षेत्रेऽत्रैव निवत्स्यामो येन स्कन्दकृते वयम् ॥

तेन संस्थापिताश्चात्र प्रोक्ताः स्थेयं सदा ततः

॥२७॥

ततः प्रोवाच भगवांस्तस्मात्स्थानान्महत्तरम् ॥

स्थानं दास्यामि सर्वासां पृथक्त्वेन शुभावहम्

॥२८॥

अष्टषष्टिस्तु क्षेत्राणां मदीयानां समंततः ॥

संस्थितास्ति महाभागा येषु मत्संस्थितिः सदा

॥२९॥

अष्टषष्टिविभागेन भूत्वा सर्वाः पृथक्पृथक् ॥

तेषु तिष्ठथ मद्वाक्यात्पूजामग्र्यामवाप्स्यथ

॥३०॥

तस्य देवस्य तच्छ्रुत्वा वाक्यं ता मातरस्तदा ॥

प्रहृष्टास्तत्परित्यज्य स्थानं स्कन्दविनिर्मितम्

॥३१॥

अष्टषष्टिविभागेन भूत्वा रूपैः पृथग्विधैः ॥

अष्टषष्टिषु क्षेत्रेषु तस्य ताः संस्थिताः सदा

॥३२॥

ततस्ताभिर्विनिर्मुक्तं तत्सर्वं भूमिमण्डलम् ॥

पांसुभिः पूरितं प्रेतैर्दिवारात्रमतंद्रितैः

॥३३॥

एवं तस्य वरं दत्त्वा भगवान्वृषवाहनः ॥

जगामादर्शनं पश्चात्सार्धं सवर्गैणैर्द्विजाः

॥३४॥

कुतोऽपि ब्राह्मणैः सर्वेस्तापसैश्च प्रशंसितः ॥

लब्धाशी प्रययौ तस्मादयोध्यानगरीं प्रति

॥३५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये लुप्ततीर्थमाहात्म्यकथनंनाम षडुत्तरशततमोऽध्यायः ॥ १०६ ॥

अवाङ्कपाठ्यांशः